मत्स्यपुराणम् - अध्यायः १२३
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
गोमेदकपुष्करद्वीपयोर्वर्णनम् ।
सूत उवाच ।
गोमेदकं प्रवक्ष्यामि षष्ठं द्वीपं तपोधनाः ।! ।
सुरोदकसमुद्रस्तु गोमेदेन समावृतः ॥१॥
शाल्मलस्य तु विस्ताराद्द्विगुणस्तस्य विस्तरः ।
तस्मिन् द्वीपे तु विज्ञेयौ पर्वतौ द्वौ समाहितौ ॥२॥
प्रथमः सुमना नाम जात्यञ्जनमयो गिरिः ।
द्वितीयः कुमुदो नाम सर्वौषधिसमन्वितः ॥३॥
शातकौम्भमयः श्रीमान् विज्ञेयः सुमहाचितः ।
समुद्रेक्षरसोदेन वृतो गोमेदकश्च सः ॥४॥
षष्ठेन तु समुद्रेण सुरोदाद् द्विगुणेन च ।
धातकी कुमुदश्चैव हव्यपुत्रौ सुविस्तृतौ ॥६॥
सौमनं प्रथमं वर्षं धातकीखण्डमुच्यते ।
धातकिनः स्मृतं तद्वै प्रथमं प्रथमस्य तु ॥५॥
गोमेदं यत् स्मृतं वर्षं नाम्ना सर्वसुखन्तु तत् ।
कुमुदस्य द्वितीयस्य द्वितीयं कुमुदं ततः ॥७॥
एतौ द्वौ पर्वतौ वृत्तौ शेषौ सर्वसमुच्छ्रितौ ।
पूर्वेण तस्य द्वीपस्य सुमनाः पर्वतः स्थितः ॥८॥
प्राक्पश्चिमायतैः पादैरासमुद्रादिति स्थितः ।
पश्चार्द्धे कुमुदस्तस्य एवमेव स्थितस्तु वै ॥९॥
एतैः पर्वतपादैस्तु स देशो वै द्विधाकृतः ।
दक्षिणार्द्धे तु द्वीपस्य धातकीखण्डमुच्यते ॥१०॥
कुमुदन्तूत्तरे तस्य द्वितीयं वर्षमुत्तमम् ।
एतौ जनपदौ द्वौ तु गोमेदस्य तु विस्तृतौ ॥११॥
अतः परं प्रवक्ष्यामि सप्तमं द्वीपमुत्तमम् ।
समुद्रेक्षुरसं चैव गोमेदाद्द्विगुणं हि सः ॥१२॥
आवृत्य तिष्ठति द्वीपः पुष्करः पुष्करैर्वृतः ।
पुष्करेण वृतः श्रीमांश्चित्रसानुर्महागिरिः ॥१३॥
कूटैश्चित्रैर्मणिमयैः शिलाजालसमुद्भवैः ।
द्वीपस्यैव तु पूर्वार्द्धे चित्रसानुः स्थितो महान् ॥१४॥
परिमण्डलसहस्राणि विस्तीर्णः पञ्चविंशतिः ।
ऊद्र्ध्वं स वै चतुर्विशद्योजनानां महाबलः ॥१५॥
द्वीपार्द्धस्य परिक्षिप्तः पश्चिमे मानसो गिरिः ।
स्थितो वेला समीपे तु पूर्णचन्द्र इवोदितः ॥१६॥
योजनानां सहस्राणि सार्द्धं पञ्चाशदुच्छ्रितः ।
तस्य पुत्रो महावीतः पश्चिमार्द्धस्य रक्षिता ॥१७॥
पूर्वार्द्धे पर्वतस्यापि द्विधा देशस्तु स स्मृतः ।
स्वादूदकेनोदधिना पुष्करः परिवारितः ॥१८॥
विस्तारान्मण्डलाच्चैव गोमेदाद्द्विगुणेन तु ।
त्रिंशद्वर्षसहस्राणि तेषु जीवन्ति मानवाः ॥१९॥
विपर्ययो न तेष्वस्ति एतत् स्वाभाविकं स्मृतम् ।
आरोग्यं सुखबाहुल्यं मानसीं सिद्धिमास्थिताः ॥२०॥
सुखमायुश्च रूपञ्च त्रिषु द्वीपेषु सर्वशः ।
अधमोत्तमौ न तेष्वास्तां तुल्यास्ते वीर्य्यरूपतः ॥२१॥
न तत्र वध्यवधकौ नेर्ष्यासूया भयं तथा ।
न लोभो न च दम्भो वा न द्वेषः परिग्रहः ॥२२॥
सत्यानृतेन तेष्वास्तां धर्माधर्मौ तथैव च.
वर्णाश्रमाणां वार्ता च पाशुपाल्यं वणिक्कृषिः ॥२३॥
त्रयीविद्या दण्डनीतिः शुश्रूषा दण्ड एव च ।
न तत्र वर्ष नद्यो वा शीतोष्णञ्च न विद्यते ॥२४॥
उद्भिदान्युदकानि स्युर्गिरिप्रस्रवणानि च ।
तुल्योत्तरकुरूणान्तु कालस्तत्र तु सर्वदा ॥३५॥
सर्वतः सुखकालोऽसौ जराक्लेशविवर्जितः ।
सर्गस्तु धातकीखण्डे महावीते तथैव च ॥२६॥
एवं द्वीपाः समुद्रैस्तु सप्तसप्तभिरावृताः ।
द्वीपस्यानन्तरो यस्तु समुद्रस्तत् समस्तु वै ॥२७॥
एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परम् ।
अपाञ्चैव समुद्रेकात् समुद्र इति संज्ञितः ॥२८॥
ऋषद्वसन्त्यो वर्षेषु प्रजा यत्र चतुर्विधाः ।
ऋषिरित्येव रमणे वर्षन्त्वेतेन तेषु वै ॥२९॥
उदयतीन्दौ पूर्वे तु समुद्रः पूर्यते सदा ।
प्रक्षीयमाणे बहुले क्षीयतेऽस्तमिते च वै ॥३०॥
आपूर्यमाणो ह्युदधिरात्मनैवापि पूर्यते ।
ततो वै क्षीयमाणे तु स्वात्मन्येव ह्यपां क्षयः ॥३१॥
उदयात् पयसां योगात् पुष्णन्त्यापो यथा स्वयम् ।
तथा स तु समुद्रोऽपि वर्द्धते शशिनोदये ॥३२॥
अन्यूनानतिरिक्तात्मा वर्द्धन्त्यापोह्रसन्ति च ।
उदयेऽस्तमये चेन्द्रोः पक्षयोः शुक्लकृष्णयोः ॥३३॥
क्षयवृद्धी समुद्रस्य शशिवृद्धिक्षये तथा ।
दशोत्तराणि पञ्चाहुरङ्गुलानां शतानि च ॥३४॥
अपां वृद्धिः क्षयोद्रृष्टः समुद्राणान्तु पर्वसु ।
द्विरापत्वात् स्मृतो द्वीपो दधनाच्चोदधिः स्मृतः ॥३५॥
अपशीर्णात्तु गिरयो पर्वबन्धाच्च पर्वताः ।
शाकद्वीपे तु वैशाकः पर्वतस्तेन चोच्यते ॥३६॥
कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य तु ।
क्रौञ्चद्वीपे गिरिः क्रौञ्चस्तस्य नाम्ना निगद्यते ॥३७॥
शाल्मलिः शाल्मलद्वीपे पूज्यते स महाद्रुमः ।
गोमेदके तु गोमेदः पर्वतस्तेन चोच्यते ॥३८॥
न्यग्रोधः पुष्करद्वीपे पद्मवत्तेन सः स्मृतः ।
पूज्यते स महादेवैर्ब्रह्मांशो व्यक्तसम्भवः ॥३९॥
तस्मिन् स वसति ब्रह्मा साध्यैः सार्द्धं प्रजापतिः ।
तत्र देवा उपासन्ते त्रयस्त्रिंशन्महर्षिभिः ॥४०॥
स तत्र पूज्यते देवो देवैर्महर्षिसत्तमैः ।
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधानि च ॥४१॥
द्वीपेषु तेषु सर्वेषु प्रजानां क्रमशस्तु वै ।
आर्जवात् ब्रह्मचर्येण सत्येन च दमेन च ॥४२॥
आरोग्यायुः प्रमाणाभ्यां द्विगुणं द्विगुणं ततः ।
द्वीपेषु तेषु सर्वेषु यथोक्तं वर्षकेषु च ॥४३॥
गोपायन्ते प्रजास्तत्र सर्वैः सहजपण्डितैः ।
भोजनञ्चाप्रयत्नेन सदा स्वयमुपस्थितम् ॥४४॥
षड्रसं तन्महावीर्यं तत्र ते भुञ्जते जनाः ।
परेण पुष्करस्याथ आवृत्यावस्थितो महान् ॥४५॥
स्वादूदकसमुद्रस्तु स समन्तादवेष्टयत् ।
स्वादूदकस्य पतितः शैलस्तु परिमण्डलः ॥४६॥
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते ।
आलोकस्तत्र चार्वाक् च निरालोकस्ततः परम् ॥४७॥
लोकविस्तारमात्रन्तु पृथिव्यार्द्धन्तु बाह्यतः ।
प्रतिच्छन्नं समन्तात्तु उदकेनावृतं महत् ॥४८॥
भूमेर्दशगुणाश्चापः समन्तात् पालयन्ति गाम् ।
अद्भ्यो दशगुणश्चाग्निः सर्वतो धारयत्यपः ॥४९॥
अग्नेर्दशगुणोवायुर्धारयन् ज्योतिरास्थितः ।
तिर्य्यक् च मंडलो वायुर्भूतान्यावेष्ट्य धारयन् ॥५०॥
दशाधिकं तथाकाशं वायोर्भूतान्यधारयत् ।
भूतादिधारयन् व्योम तस्माद्दशगुणस्तु वै ॥५१॥
भूतादितो दशगुणं महद्भूतान्यधारयत् ।
महत्तत्वं ह्यनन्तेन अव्यक्तेन तु धार्य्यते ॥५२॥
आधाराधेयभावेन विकारास्ते विकारिणाम् ॥५३॥
पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम् ।
परस्पराधिकाश्चैव प्रविष्टाश्च परस्परम् ॥५४॥
एवं परस्परोत्पन्ना धार्यन्ते च परस्परम् ।
यस्मात्प्रविष्टास्तेऽन्योन्यं तस्मात्ते स्थिरतां गतः ॥
आसंस्ते ह्यविशेषाश्च विशेषा अन्यवेशनात् ॥५५॥
पृथ्व्यादयस्तु वाय्व्यन्ताः परिच्छिन्नास्तु तत्र ते ।
भूतेभ्यः परतस्तेभ्यो ह्यलोकः सर्वतः स्मृतः ॥५६॥
तथा ह्यालोक आकाशे परिच्छिन्नानि सर्वशः ।
पात्रे महति पत्राणि यथा ह्यन्तगतानि च ॥५७॥
भवन्त्यन्योन्यहीनानि परस्परसमाश्रयात् ।
तथा ह्यालोकः आकाशे भेदास्त्वन्तर्गता गताः ॥५८॥
कृतान्येतानि तत्त्वानि अन्योन्यस्याधिकानि तु ।
यावदेतानि तत्त्वानि तावदुत्पत्तिरुच्यते ॥५९॥
जन्तूनामिह संस्कारो भूतेष्वन्तर्गतेषु वै ।
प्रत्याख्यायेह भूतानि कार्य्योत्पत्तिर्न विद्यते ॥६०॥
तस्मात्परिमिताभेदाः स्मृता कार्य्यात्मकास्तु वै ।
ते कारणात्मकाश्चैव स्युर्भेदा महदादयः ॥६१॥
इत्येवं सन्निवेशोऽयं पृथ्व्याक्रान्तस्तु भागशः ।
सप्तद्वीपसमुद्राणां याथातथ्येन वै मया ॥६२॥
विस्तारान् मण्डलाच्चैव प्रसंख्यानेन चैव हि ।
विश्वरूपं प्रधानस्य परिमाणैकदेशिनः ॥६३॥
एतावत्सन्निवेशस्तु मया सम्यक् प्रकाशितः ॥६४॥
एतावदेव श्रोतव्यं सन्निवेशस्य पार्थिव ।
अत ऊद्र्ध्व प्रवक्ष्यामि सूर्य्याचन्द्रमसोर्गतिम् ॥६५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP