संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्| अध्यायः १८३ मत्स्यपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० मत्स्यपुराणम् - अध्यायः १८३ मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते. Tags : matsya puranpuranपुराणमत्स्य पुराणसंस्कृत अध्यायः १८३ Translation - भाषांतर वाराणसीमाहात्म्यम् ।देव्युवाच ।हिमवन्तं गिरिं त्यक्त्वा मन्दरं गन्धमादनम् ।कैलासं निषधञ्चैव मेरुपृष्टं महाद्युतिम् ॥१॥रम्यं त्रिशिखरञ्चैव मानसं सुमहागिरिम् ।देवोद्यानानि रम्याणि नन्दनं वनमेव च ॥२॥सुरस्थानानि मुख्यानि तीर्थान्यायतनानि च ।तानि सर्वाणि सन्त्यज्य अविमुक्ते रतिः कथम् ॥३॥किमत्र सुमहत् पुण्यं परं गुह्यं वदस्व मे ।येन त्वं रमसे नित्यं भूतसम्पद् गुणैर्युतः ॥४॥क्षेत्रस्य प्रवरत्वञ्च ये च यत्र निवासिनः ।तेषामनुग्रहः कश्चित्तत् सर्वं ब्रूहि शङ्कर!॥५॥शङ्कर उवाच ।अत्यद्भुतमिमं प्रश्नं यत्त्वं पृच्छसि भामिनि ।तत् सर्वं सम्प्रवक्ष्यामि तन्मे निगदतः श्रृणु ॥६॥वाराणस्यां नदीपुण्या सिद्धगन्धर्वसेविता ।प्रविष्टा त्रिपथा गङ्गा तस्मिन्क्षेत्रे मम प्रिये! ॥७॥मामेव प्रीतिसन्तुष्टा कृत्तिवासाश्च सुन्दरि! ।सर्वेषां चैवस्थानानां स्थानन्तत्तु यथाधिकम् ॥८॥तेन कार्येण सुश्रोणि! तस्मिन् स्थाने रतिर्मम ।तस्मिन् लिङ्गे च सान्निध्यं मम देवि! सुरेश्वरि! ॥९॥क्षेत्रस्य च प्रवक्ष्यामि गुणान् गुणवताम्वरे ।यान् श्रुत्वा सर्वपापेभ्यो मुच्यते नात्रसंशयः ॥१०॥यदि पापो यदि शठो यदि वा धार्मिको नरः ।मुच्यते सर्वपापेभ्यो ह्यविमुक्तं व्रजेद्यदि ॥११॥प्रलये सर्वभूतानां लोके स्थावरजङ्गमे ।न हि त्यक्ष्यामि तत् स्थानं महागणशतैर्वृतः ॥१२॥यत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।वक्त्रं मम महाभागे! प्रविशन्ति युगक्षये॥१३॥तेषां साक्षादहं पूजां प्रतिगृह्णामि पार्वति!सर्वगुह्योत्तमं स्थानं मम प्रियतमं शुभम् ॥१४॥धन्याः प्रविष्टाः सुश्रोणि! मम भक्ता द्विजातयः ।मद्भक्तिपरमा नित्यं ये मद्भक्तास्तु ते नराः ॥१५॥तस्मिन् प्राणान् परित्यज्य गच्छन्ति परमाङ्गतिम् ।सदा जयति रुद्रेण सदा दानं प्रयच्छति ॥१६॥सदा तपस्वी भवति अविमुक्त स्थितो नरः ।यो मां पूजयते नित्यं तस्य तुष्याम्यहं प्रिये!॥१७॥सर्वदानानि यो दद्यात् सर्वयज्ञेषु दीक्षितः ।सर्वतीर्थाभिषिक्तस्य सप्रपद्येत मामिह ॥१८॥अविमुक्तं सदा देवि! ये व्रजन्ति सुनिश्चिताः ।ते तिष्ठन्तीह सुश्रोणि! त्वद्भक्ताश्च त्रिविष्टपे ॥१९॥मत्प्रसादात्तु ते देवि! दीव्यन्ति शुभलोचने!दुर्द्धराश्चैव दुर्द्धर्षा भवन्ति विगतज्वराः ॥२०॥अविमुक्तं शुभं प्राप्य मद्भक्ताः कृतनिश्चयाः ।निर्धूतपापा विमला भवन्ति विगतज्वराः ॥२१॥पार्वत्युवाच ।दक्षयज्ञस्त्वया देव! मत् प्रियार्थे निषूदितः ।अविमुक्त गुणानान्तु न तृप्तिरिह जायते ॥२२॥ईश्वर उवाच ।क्रोधेन दक्षयज्ञस्तु त्वत् प्रियार्थे विनाशितः ।महाप्रिये! महाभागे! नाशितोऽयं वरानने ॥२३॥अविमुक्ते यजन्ते तु मद्भक्ताः कृतनिश्चयाः ।न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥२४॥देव्युवाच ।दुर्लभास्तु गुणा देव! अविमुक्ते तु कीर्त्तिताः ।सर्वांस्तन्मम तत्वेन कथयस्व महेश्वर ॥२५॥कौतूहलं महादेव! हृदिस्थं मम वर्तते ।तत् सर्वं मम तत्वेन आश्याहि परमेश्वर! ॥२६॥ईश्वर उवाच ।अक्षया ह्यमराश्चैव ह्यदाहाश्च भवन्ति ते ।मत् प्रसादाद्वरारोहे! मामेव प्रविशन्ति वै ॥२७॥ब्रूहि ब्रूहि विशालाक्षि! किमन्यच्छ्रोतुमिच्छसि ।देव्युवाच ।अविमुक्ते महाक्षेत्रे अहो पुण्यमहो गुणाः ॥२८॥न तृप्तिमधिगच्छामि ब्रूहि देव! पुनर्गुणान् ।ईश्वर उवाच ।माहेश्वरि! वरारोहे! श्रृणु तांस्तु मम प्रिये! ॥२९॥अविमुक्ते गुणाये तु तथान्यानपि तच्छृणु ।शाकपर्णाशिनो दान्ताः संप्रक्षाल्या मरीचिपाः ॥३०॥दन्तोलूखलिनश्चान्ये अश्मकुट्टास्तथापरे ।मासि मासि कुशाग्रेण जलमास्वादयन्ति वै ॥३१॥वृक्षमूलनिकेताश्च शिलाशय्यास्तथापरै ।आदित्यवपुषः सर्वे जितक्रोधा जितेन्द्रियाः ॥३२॥एवं बहुविधैर्धर्मैरन्यत्र चरितव्रताः ।त्रिकालमपि भुञ्जाना येऽविमुक्तनिवासिनः ॥३३॥तपश्चरन्ति वान्यत्र कलां नार्हन्ति षोडशीम् ।अविमुक्तसमं क्षेत्रं न भूतं न भविष्यति ॥३४॥मत्समः पुरुषो नास्ति त्वत्समा नास्ति योषिताम् ।अविमुक्तसमं क्षेत्रं न भूतं न भविष्यति ॥३५॥अविमुक्तं परो योगो ह्यविमुक्ते परा गतिः ।अविमुक्ते परो मोक्षः क्षेत्रं नैवास्ति तादृशम् ॥३६॥परं गुह्यं प्रवक्ष्यामि तत्वेन वरवर्णिनि! ।अविमुक्ते महाक्षेत्रे यदुक्तं हि मया पुरा ॥३७॥जन्मान्तरशतैर्देवि! योगोऽयं यदि लभ्यते ।मोक्षः शतसहस्रेण जन्मना लभ्यते न वा ॥३८॥अविमुक्तेन सन्देहो मद्भक्तः कृतनिश्चयः ।एकेन जन्मना सोऽपि योगं मोक्षं च विन्दति ॥३९॥अविमुक्ते नरा देवि! ये व्रजन्ति सुनिश्चिताः ।ते विशन्ति परं स्थानं मोक्षं परमदुर्लभम् ॥४०॥पृथिव्यामीदृशं क्षेत्रं न भूतं न भविष्यति ।चतुर्मूर्तिः सदा धर्मो तस्मिन् सन्निहितः प्रिये! ॥४१॥चतुर्णामपि वर्णानां गतिस्तु परमा स्मृता ।देव्युवाच ।श्रुता गुणास्ते क्षेत्रस्य इह चान्यत्र ये प्रभो! ॥४२॥वदस्व भुवि विप्रेन्द्राः कं वा यज्ञैर्यजन्ति ते ।ईश्वर उवाच ।दृष्ट्या चैव तु मन्त्रेण मामेव हि यजन्ति ते ॥४३॥न तेषां भयमस्तीति भवं रुद्रं यजन्ति यत् ।अमन्त्रो मन्त्रको देवि! द्विविधो विधिरुच्यते ॥४४॥साङ्ख्यं चैवाथ योगश्च द्विविधो योग उच्यते ।सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ॥४५॥सर्वथा वर्तमानोऽपि स योगी मयि वर्त्तते ।आत्मौपम्येन सर्वत्र सर्वं च मयि पश्यति ॥४६॥तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ।निर्गुणः सगुणो वापि योगश्च कथितो भुवि ॥४७॥सगुणश्चैव विज्ञेयो निर्गुणो मनसः परः ।एतत्ते कथितं देवि! यन्मान्त्वं परिपृच्छसि ॥४८॥देव्युवाचया भक्ति स्त्रिविधा प्रोक्ता भक्तानां बहुधा त्वया ।तामहं श्रोतुमिच्छामि तत्वतः कथयस्व मे ॥४९॥ईश्वर उवाच ।श्रृणु पार्वति! देवेशि! भक्तानां भक्तिवत्सले ।प्राप्य सांख्यञ्च योगञ्च दुःखान्तञ्च नियच्छति ॥५०॥सदा यः सेवते भिक्षां ततो भवति रञ्जितः ।रञ्जनात् तन्मयो भूत्वा लीयते स तु भक्तिमान् ॥५१॥शास्त्राणान्तु वरारोहे! बहुकारणदर्शिनः ।न मां पश्यन्ति ते देवि! ज्ञानवाक्यविवादिनः ॥५२॥परमार्थज्ञानतृप्ता युक्ता जानन्ति योगिनः ।विद्यया विदितात्मानो योगस्य च द्विजातयः ॥५३॥प्रत्याहारेण शुद्रात्मा नान्यथा चिन्तयेच्च तत् ।तुष्टिञ्च परमां प्राप्य योगं मोक्षं परं तथा ॥५४॥त्रिभिर्गुणैः समायुक्तो ज्ञानवान् पश्यतीह माम् ।एतत्ते कथितं देवि! किमन्यच्छ्रोतुमर्हसि ॥५५॥भूय एव वरारोहे! कथयिष्यामि सुव्रते! ।गुह्यं पवित्रमथवा यच्चापि हृदि वर्तते ॥५६॥तत्सर्वं कथयिष्यामि श्रृणुष्वेकमनाः प्रिये ।देव्युवाच ।त्वद्रूपं कीदृशं देव! युक्ताः पश्यन्ति योगिनः ॥५७॥पश्यन् मे संशयं ब्रूहि नमस्ते सुरसत्तम! ।श्रीभगवानुवाच ।अमूर्तं चैव मूर्त्तञ्च ज्योतिरूपं हि तत् स्मृतम् ॥५८॥तस्योपलब्धिमन्विच्छन् यत्नः कार्यो विजानता ।गुणैर्वियुक्तो भूतात्मा एवं वक्तुं न शक्यते ॥५९॥शक्यते यदि वक्तुं वै दिव्यैर्वर्षशतैर्न वा ।देव्युवाच ।किं प्रमाणन्तु तत् क्षेत्रं समन्तात् सर्वतो दिशम् ॥६०॥यत्र नित्यं स्तितो देवो महादेवो गणैर्युतः ।ईश्वर उवाच ।द्वियोजनन्तु तत्क्षेत्रं पूर्वपश्चिमतः स्मृतम् ॥६१॥अर्द्धयोजन विस्तीर्णं तत्क्षेत्रं दक्षिणोत्तरम् ।वाराणसी तदीया च यावच्छुक्लनदी तु वै ॥६२॥भीष्मचण्डिकमारभ्य पर्वतेश्वरमन्तिके ।गणा यत्रावतिष्ठन्ति सन्नियुक्ता विनायकाः ॥६३॥कूष्माण्डराजः शम्भोश्च जयन्तश्च मदोत्कटाः ।सिंहव्याघ्रमुखाः केचिद्विकटाः कुब्जवामनाः ॥६४॥यत्र नन्दी महाकालश्चण्डघण्टो महेश्वरः ।दण्डचण्डेश्वरश्चैव घण्टाकर्णो महाबलः ॥६५॥एते चान्ये च बहवो गणाश्चैव गणेश्वराः ।महोदरा महाकाया वज्रशक्तिधरास्तथा ॥६६॥रक्षन्ति सततं देवि! ह्यविमुक्तं तपोवनम् ।द्वारे द्वारे च तिष्ठन्ति शूलमुद्गरपाणयः ॥६७॥सुवर्णश्रृङ्गीं रौप्यखुराञ्चैलाजिन पयस्विनीम् ।वाराणस्यान्तु यो दद्यात् त्रिवर्णां कञ्जलोचने! ॥६८॥गां दत्त्वा तु वरारोहे! ब्राह्मणे वेदपारगे ।आसप्तमं कुलं तेन तारितं नात्र संशयः ॥६९॥यो दद्याद् ब्राह्मणे किञ्चित् तस्मिन् क्षेत्रे वरानने! ।कनकं रजतं वस्त्रमन्नाद्यं बहु विस्तरम् ॥७०॥अक्षयं चाव्ययं चैव स्यातां तस्य सुलोचने! ।श्रृणु तत्वेन तीर्थस्य विभूतिं व्युष्टिमेव च ॥७१॥तत्र स्नात्वा महाभागे! भवन्ति निरुजा नराः ।दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥७२॥तदवाप्नोति धर्मात्मा तत्र स्नात्वा वरानने! ।बहुस्वल्पे च यो दद्याद् ब्राह्मणे वेदपारगे ॥७३॥शुभाङ्गतिमवाप्नोति अग्निवच्चैव दीप्यते ।वाराणसी जाह्नवीभ्यां सङ्गमे लोकविश्रुते ॥७४॥दत्त्वान्नं च विधानेन न स भूयोऽभिजायते ।एतत्ते कथितं देवि! तीर्थस्य फलमुत्तमम् ॥७५॥उपवासन्तु यः कृत्वा विप्रान् सन्तर्पयन्नरः ।सौत्रामणेश्च यज्ञस्य फलं प्राप्नोति मानवः ॥७६॥एकाहारस्तु यस्तिष्ठेन् मासं तत्र वरानने!यावज्जीवकृतं पापं सहसा तस्य नश्यति ॥७७॥अग्निप्रवेशं ये कुर्युरविमुक्ते विधानतः ।प्रविशन्ति मुखन्ते मे निःसन्दिग्धं वरानने! ॥७८॥दशसौवर्णिकं पुष्पं योऽविमुक्ते प्रयच्छति ।अग्निहोत्रफलं धूपे गन्धदाने तथा श्रुणु ॥७९॥भूमिदानेन तत्तुल्यं गन्धदानफलं स्मृतम् ।संमार्जने पञ्चशतं सहस्रमनुलेपने ॥८०॥मालया शतसाहस्रमनन्तं गीतवाद्यतः ।देव्युवाच ।अत्यद्भुतमिदं देव स्थानमेतत् प्रकीर्तितम् ॥८१॥रहस्यं श्रोतुमिच्छामि यदर्थन्त्वं न मुञ्चसि ।ईश्वर उवाचआसीत् पूर्वं वरारोहे! ब्रह्मणस्तु शिरो वरम् ॥८२॥पञ्चमं श्रृणु सुश्रोणि! जातं काञ्चन स प्रभम् ।ज्वलत्तत् पञ्चमं शीर्षं जातं तस्य महात्मनः ॥८३॥तदेवमब्रवीद्देवि! जन्म जानामि ते ह्यहम् ।ततः क्रोधपरीतेन संरक्त नयनेन च ॥८४॥वामांगुष्ठनखाग्रेण छिन्नं तस्य शिरो मया ।ब्रह्मोवाच ।तदा निरपराधस्य शिरश्छिन्नं त्वया मम ॥८५॥तस्माच्छापसमायुक्तः कपाली त्वं भविष्यसि ।ब्रह्महत्याकुलो भूत्वा चरतीर्थानि भूतले ॥८६॥ततोऽहं गतवान् देवि! हिमवन्तं शिलोच्चयम् ।तत्र नारायणः श्रीमान् मया भिक्षां प्रयाचितः ॥८७॥ततस्तेन स्वकं पार्श्वं नखाग्रेण विदारितम् ।स्रवतो महती धारा तस्य रक्तस्य निःसृता ॥८८॥प्रयाता सातिविस्तीर्णा योजनार्द्धशतन्तदा ।न संपूर्णं कपालन्तु घोरमद्भुत दर्शनम् ॥८९॥दिव्यं वर्षसहस्रन्तु सा च धारा प्रवाहिनी ।प्रोवाच भगवान्विष्णुः कपालं कुत ईदृशम् ॥९०॥आश्चर्यभूतं देवेश! संशयो हृदि वर्तते ।कुतश्च सम्भवो देव! सर्वं मे ब्रूहि पृच्छतः ॥९१॥देवदेव उवाच ।श्रूयतामस्य हे देव! कपालस्य तु सम्भवः ।शतं वर्षसहस्राणां तपस्तप्त्वा सुदारुणम्॥९२॥ब्रह्माऽसृजद्वपुर्दिव्यमद्भुतं लोमहर्षणम् ।तपसश्च प्रभावेण दिव्यं काञ्चन सन्निभम् ॥९३॥ज्वलत्तत् पञ्चमं शीर्षं जातं तस्य महात्मनः ।निकृत्तन्तं मया देव! तदिदं पश्य दुर्जयम् ॥९४॥यत्र यत्र च गच्छामि कपालं तत्र गच्छति ।एवमुक्तस्ततो देवः प्रोवाच पुरुषोत्तमः ॥९५॥श्रीभगवानुवाच ।गच्छ गच्छ स्वकं स्थानं ब्रह्मणस्त्वं प्रियङ्कुरु ।तस्मिन् स्थास्यति भद्रन्ते कपालं तस्य तेजसा ॥९६॥ततः सर्वाणि तीर्थानि पुण्यान्यायतनानि च ।गतोऽस्मि पृथुल श्रोणि! न क्वचित् प्रत्यतिष्ठत ॥९७॥ततोऽहं समनुप्राप्तो ह्यविमुक्ते महाशये ।अवस्थितः स्वके स्थाने शापश्च विगतो मम ॥९८॥विष्णुप्रसादात् सुश्रोणि! कपालं तत् सहस्रधा ।स्फुटितं बहुधा जातं स्वप्नलब्धं धनं यथा ॥९९॥ब्रह्महत्यापहं तीर्थं क्षेत्रमेतन्मया कृतम् ।श्मशानमेतद् भद्रं मे देवानां वरवर्णिनि ॥१००॥कालो भूत्वा जगत् सर्वं संहरामि सृजामि च ।देवेशि! सर्वगुह्यानां स्थानं प्रियतरं मम ॥१०१॥मद्भक्तास्तत्र गच्छन्ति विष्णुभक्तास्तथैव च ।ये भक्ता भास्करे देवि! लोकनाथे दिवाकरे ॥१०२॥तत्रस्थो यस्त्यजेद्देहं मामेव प्रविशेत्तु सः ।देव्युवाच ।अत्यद्भुतमिदं देव! यदुक्तं पद्मयोनिना ॥१०३॥त्रिपुरान्तकरस्थानं गुह्यमेतत् महाद्युते ।सन्निधानात्तु ते सर्वे कलां नार्हन्ति षोडशीम् ॥१०४॥यत्र तिष्ठति देवेशो यत्र तिष्ठति शङ्करः ।गङ्गा तीर्थसहस्राणां तुल्या भवति वा न वा ॥१०५॥त्वमेव भक्तिर्देवेश । त्वमेव गतिरुत्तमा ।ब्रह्मादीनान्तु ते देव! गतिरुक्ता सनातनी ।श्राव्ये यद् द्विजातीनां भक्तानामनुकम्पया ॥१०६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP