मत्स्यपुराणम् - अध्यायः ३६
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
ययातिशक्रसम्वादवर्णनम् ।
शौनक उवाच ।
स्वर्गतस्तु स राजेन्द्रो न्यवसद्देवसद्मनि ।
पूजितस्त्रिदशैः साध्यैः मरुद्भिर्वसुभिस्तथा ॥१॥
देवलोकात् ब्रह्मलोकं सञ्चरन् पुण्यकृद्वशी ।
अवसत् पृथिवीपालो दीर्घकालमितश्रुतिः ॥२॥
स कदाचिन्नृपश्रेष्ठः ययातिः शक्रमागतः ।
कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ॥३॥
शक्र उवाच ।
यदा स पूरुस्तव पुत्रेषु राजन्!
जरां गृहीत्वा प्रचचार लोके ।
तदा राज्यं सम्प्रदायैव त्वमस्मै
त्वया किमुक्तः कथयेह सत्यम् ॥४॥
ययातिरुवाच ।
प्रकृत्यनुमते पूरुं राज्ये कृत्वेदमब्रुवम् ।
गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तवा ।
मध्ये पृथिव्या स्त्वं राजा भ्रातरोन्तेऽधिपास्तव ॥५॥
अक्रोधनः क्रोधनेभ्यो विशिष्ट स्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषेभ्यो मानुषश्च प्रधानो विद्वांस्तथैवाविदुषः प्रधानः ॥६॥
आक्रोश्यमानो नाक्रोशेन्मन्युमेव तितिक्षति ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥७॥
नारुन्तुदस्यान्न नृशंसवादी न हीनतः परमभ्याददीत ।
ययाऽस्य वाचा पर उद्विजेत न तां वदे द्रुशतीं पापलौल्याम् ॥८॥
अरुन्तुदं परुषं तीव्रवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् ।
विन्द्यादलक्ष्मीकतमं जनानां मुखे निवद्धन्निर्ऋतिं वहन्तम् ॥९॥
सद्भिः पुरस्तादभिपूजितः स्यात् सद्भिस्तथा पृष्ठतो रक्षितः स्यात् ।
सदा सतामतिवादां स्तितिक्षेत् सतां वृतं पालयन् साधुवृत्तः ॥१०॥
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति वा त्र्यहानि ।
परस्य नो मर्मसु ते पतन्ति तान् पण्डितो नावसृजेत् परेषु ॥११॥
नास्तीद्रृशं सम्वननं त्रिषु लोकेषु किञ्चन ।
यथा मैत्री च लोकेषु दानञ्च मधुरा च वाक् ॥१२॥
तस्मात् सान्त्वं सदा वाच्यं परुषं नैव कुत्रचित् ।
पूज्यान् संपूजयेद्दद्यान्नभिशापं कदाचन ॥१३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP