मत्स्यपुराणम् - अध्यायः ३३
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
ययात्युपाख्यानम् ।
शौनक उवाच ।
जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि ।
पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥१॥
जरावली च मां तात! पलितानि च पर्यगुः ।
काव्यस्तयोशनसोः शापान्न च तृप्तोऽस्मि यौवने ॥२॥
त्वं यदो! प्रतिपद्यस्व पाप्मानञ्जरया सह ।
यौवनेन त्वदीयेन चरेयं विषयानहम् ॥३॥
पूर्णे वर्षसहस्रे तु त्वदीयं यौवनं त्वहम् ।
दत्त्वा संप्रतिपत्स्यामि पाप्मानञ्जरया सह ॥४॥
यदुरुवाच ।
सितश्मश्रुधरो दीनो जरसा शिथलीकृतः ।
बलीसन्ततगात्रश्च दुर्दर्शो दुर्बलः कृशः ॥५॥
अशक्तः कार्यकरणे परिभूतः स यौवने ।
सहोपजीविभिश्चैव तज्जरां नाभिकामये ॥६॥
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप! ।
जरां ग्रहीतुं धर्मज्ञ! पुत्रमन्यं वृणीष्व वै ॥७॥
ययातिरुवाच ।
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
पापान्मातुलसम्बन्धाद् दुष्प्रजा ते भविष्यति ॥८॥
तुर्वसो! प्रतिपद्यस्व पाप्माऩञ्जरया सह ।
यौवनेन चरेयं वै विषयां स्तव पुत्रक! ॥९॥
पूर्णे वर्ष सहस्रे तु पुनर्दास्यामि यौवनम् ।
तथैव प्रतिपत्स्यामि पाप्मानञ्जरया सह ॥१०॥
न कामये जरां तात! कामभोगप्रणाशिनीम् ।
बलरूपान्तकरणीं बुद्धिमानविनाशिनीम् ॥११॥
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
तस्मात् प्रजासमुच्छेदं तुर्वसो तव यास्यति ॥१२॥
संकीर्णश्चोरधर्मेषु प्रतिलोमचरेषु च ।
पिशिता शिषुलोकेषु नूनं राजा भविष्यसि ॥१३॥
गुरुदारप्रसक्तेषु तिर्यग्योनिरतेषु च ।
पशुधर्मिषु म्लेच्छेषु पापेषु प्रभविष्यसि ॥१४॥
एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः ।
शर्मिष्ठायाः सुतं ज्येष्ठ द्रुह्यं वचनमब्रवीत् ॥१५॥
दृह्य! त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् ।
जरां वर्षसहस्रं मे यौवनं स्वं प्रयच्छताम् ॥१६॥
पूर्णो वर्षसहस्रे तु ते प्रदास्यामि यौवनम् ।
स्वं च दास्यामि भूयोऽहं पाप्मानञ्जरया सह ॥१७॥
न राज्यं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् ।
न रागश्चास्य भवति तज्जरान्ते न कामये ॥१८॥
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
तद्दृह्य! वै प्रियः कामो न ते संपत्स्यते क्वचित् ॥१९॥
नौरूपप्लवसञ्चारो यत्र नित्यं भविष्यति ।
अराज्यभोजशब्दं त्वं तत्र प्राप्स्यसि सान्वयः ॥२०॥
अनो! त्वं प्रतिपद्यस्व पाप्मानञ्जरया सह ।
एकं वर्षसहस्रन्तु चरेयं यौवनेन ते ॥२१॥
जीर्णः शिशुरिवादत्ते कालेऽन्नमशुचिर्यथा ।
न जुहोति च कालेऽग्नि तां जरा नाभिकामये ॥२२॥
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
जरा दोष स्त्वयोक्तो यस्तस्मात् त्वं प्रतिपद्यसे ॥२३॥
प्रजाश्च यौवनं प्राप्ता विनश्यन्तिह्यनो! तव ।
अग्निप्रस्कन्दनगतस्त्वञ्चाप्येवं भविष्यसि ॥२४॥
पूरो! त्वं प्रतिपद्यस्व पाप्मानञ्जरया सह ।
त्वं मे प्रियतरः पुत्रस्त्वं वरीयान् भविष्यसि ॥२५॥
जरावली च मां तात!पलितानि च पर्यगुः ।
काव्यस्योशनसः शापात् न च तृप्तोस्मि यौवने ॥२६॥
किञ्चित् कालं चरेयं वै विषयान्वयसा तव ।
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् ॥२७॥
स्वञ्चैव प्रतिपत्स्येऽहं पाप्मानं जरया सह ।
एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा ॥२८॥
यथार्त्थत्वं महाराज! तत्करिष्यामि ते वचः ।
प्रतिपत्स्यामि ते राजन्! पाप्मानं जरया सह ॥२९॥
गृहाण यौवनं मत्तश्चर कामान् यथेप्सितान् ।
जरयाऽहं प्रतिच्छन्नो वयोरूपधरस्तव ॥
यौवनं भवते दत्त्वा चरिष्यामि यथेच्छया ॥३०॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP