मत्स्यपुराणम् - अध्यायः ६७
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
चन्द्रादित्योपरागे स्नानविधिकथनम् ।
मनुरुवाच ।
चन्द्रादित्योपरागे तु यत् स्नानमभिधीयते ।
तदहं श्रोतुमिच्छामि द्रव्यमन्त्रविधानवित् ॥१॥
मत्स्य उवाच ।
यस्य राशिं समासाद्य भवेद् ग्रहणसंप्लवः ।
तस्य स्नानं प्रवक्ष्यामि मन्त्रौषधविधानतः ॥२॥
चन्द्रोपरागं सम्प्राप्य कृत्वा ब्राह्मणवाचनम् ।
संपूज्य चतुरो विप्रान् शुक्लमाल्यानुलेपनैः ॥३॥
पूर्वमेवोपरागस्य समासाद्यौषधादिकम् ।
स्थापयेच्चतुरः कुम्भानव्रणान् सागरानिति ॥४॥
गजाश्वरथ्यावल्मीकसङ्गमाद्ध्रदगोकुलात् ।
राजद्वारप्रदेशाच्च मृदमानीय चाक्षिपेत् ॥५॥
पञ्चगव्यञ्च कुम्भेषु शुद्धमुक्ताफलानि च ।
रोचनां पद्मशङ्कौ च पञ्चरत्नसमन्वितम् ॥६॥
स्फटिकं चन्दनं श्वेतं तीर्थवारि ससर्षपम् ।
राजदन्तं सकुमुदं तथैवोशारगुग्गुलम् ।
एतत्सर्वं विनिक्षिप्य कुम्भेष्वावाहयेत् सुरान् ॥७॥
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥८॥
योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः ।
सहस्रनयनश्चेन्द्रो ग्रहपीडां व्यपोहतु ॥९॥
मुखं यः सर्वदेवानां सप्तार्विरमितद्युतिः ।
चन्द्रोपरागसम्भूतां अग्निः पीडां व्यपोहतु ॥१०॥
यः कर्मसाक्षी भूतानां धर्मो महिषवाहनः ।
यमश्चन्द्रोपरागोत्थां मम पीडां व्यपोहतु ॥११॥
नागपाशधरो देवः साक्षान्मकरवाहनः ।
स जलाधिपतिश्चन्द्रग्रह पीडां व्यपोहतु ॥१२॥
प्राणरूपेण यो लोकान् पाति कृष्ण मृगप्रियः ।
वायुश्चन्द्रोपरागोत्थां पीडामत्र व्यपोहतु ॥१३॥
योऽसौ निधिपतिर्देवः खङ्गशूलगदाधरः ।
चन्द्रोपरागकलुषं धनदो मे व्यपोहतु ॥१४॥
योऽसौ विन्दुधरो देवः पिनाकी वृषवाहनः ।
चन्द्रोपरागजां पीडा विनाशयतु शङ्करः ॥१५॥
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ।
ब्रह्मविष्ण्वर्कयुक्तानि तानि पापं दहन्तु वै ॥१६॥
एवमामन्त्र्यतैः कुम्भैरभिषिक्तो गुणान्वितैः ।
ऋग्यजुः साममन्त्रैश्च शुक्लमाल्यानुलेपनैः ।
पूजयेद्वस्त्रगोदानैर्ब्राह्मणानिष्टदेवताः ॥१७॥
एतानेव ततो मन्त्रान् विलिखेत् करकान्वितान् ।
वस्त्र पट्टेऽथ वा पद्मे पञ्चरत्नसमन्वितान् ॥१८॥
यजमानस्य शिरसि निदध्युस्ते द्विजोत्तमाः ।
ततोऽतिवाहयेद्वेलामुपरागानुगामिनीम् ॥१९॥
प्राङ्मुखः पूजयित्वा तु नमस्यन्निष्टदेवताम् ।
चन्द्रग्रहे विनिर्वृत्ते कृतगोदानमङ्गलः ।
कृतस्नानायतं पट्टं ब्राह्मणाय निवेदयेत् ॥२०॥
अनेन विधिना यस्तु ग्रहस्नानं समाचरेत् ।
न तस्य ग्रहपीडा स्यान्नच बंधुजनक्षयः ॥२१॥
परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ।
सूर्यग्रहे सूर्यनाम सदा मन्त्रेषु कीर्तयेत् ॥२२॥
अधिकाः पद्मरागाः स्युः कपिलाञ्च सुशोभनाम् ।
प्रयच्छेच्च निशाम्पत्ये चन्द्रसूर्योपरागयोः ॥२३॥
य इदं श्रृणुयान्नित्यं श्रावयेद्वाऽपि मानवः ।
सर्वपापविनिर्मुक्तो शक्रलोके महीयते ॥२४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP