संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्| अध्यायः १२६ मत्स्यपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० मत्स्यपुराणम् - अध्यायः १२६ मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते. Tags : matsya puranpuranपुराणमत्स्य पुराणसंस्कृत अध्यायः १२६ Translation - भाषांतर सूर्यरथवर्णनम् ।सूत उवाच ।स रथोऽधिष्ठितो देवैर्मासि मासि यथाक्रमम् ।ततो वहत्यथादित्यं बहुभिर्ऋषिभिः सह ॥१॥गन्धर्वैरप्सरोभिश्च सर्पग्रामणि राक्षसैः ।एते वसन्ति वै सूर्य्ये मासौ द्वौ द्वौ क्रमेण च ॥२॥धाता यमा पुलस्त्यश्च पुलहश्च प्रजापती ।उरगौ वासुकिश्चैव सङ्गीर्णश्चैव तावुभौ ॥३॥तुम्बरुर्नारदश्चैव गन्धर्वौ गायताम्बरौ ।कृतस्थल अप्सराश्चैव या च सा पुञ्जिकस्थली ॥४॥ग्रामण्यौ रथकृत्तस्य रथौजाश्चैव तावुभौ ।रक्षोहेतिः प्रहेतिश्च यातुधानादुभौ स्मृतौ ॥५॥मधुमाधवयोर्ह्येष गणो वसति भास्करे ।वसन् ग्रीष्मे तु द्वौ मासौ मित्रश्च वरुणश्च वै ॥६॥ऋषिरत्रिर्वसिष्ठश्च नागौ तक्षकरम्भकौ ।मेनका सहधन्या च हाहा हूहूश्च---गायकौ ॥७॥रथन्तरश्च ग्रामण्यौ रथकृच्छैव तावुभौ ।पौरुषेयो वधश्चैव यातुधानौ तु तौ स्मृतौ ॥८॥एते वसन्ति वै सूर्य्ये मासयोः शुचिशुक्रयोः ।ततः सूर्य्ये पुनश्चान्या निवसन्ति स्म देवताः ॥९॥इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च ।एलापत्रस्तथा सर्पः शङ्खपालश्च पन्नगः ॥१०॥विश्वावसुसुसेनौ च प्रातश्चैव रथश्च हि ।प्रम्लोचेत्यप्सराश्चैव निम्लोचन्ती च ते उभे ॥११॥यातुधानस्तथा हेतिर्व्याघ्रश्चैव तु तावुभौ ।नभस्य नभसोरेतैर्वसन्तश्च दिवाकरे ॥१२॥मासौ द्वौ देवताः सूर्य्यो वसन्ति च शरद्रृतौ ।पर्यन्यश्चैव पूषा च भरद्वाजः सगौतमः ॥१३॥चित्रसेनश्च गन्धर्वस्तथा वा सुरुचिश्च यः ।विश्वाची च घृताची च उभेते पुण्यलक्षणे ॥१४॥नागश्चैरावतश्चैव विश्रुतश्च धनञ्जयः ।सेनजिच्च सुषेणश्च सेनानी ग्रामणीस्तथा ॥१५॥चारोवातश्च द्वावेतौ यातुधानावुभौ स्मृतौ ।वसन्त्ये ते च वै सूर्य्ये मासयोश्च त्विषोर्जयोः ॥१६॥हेमन्तिकौ च द्वौ मासौ निवसन्ति दिवाकरे ।अंशो भगश्च द्वावेतौ कश्यपश्च क्रतुश्च ॥१७॥भुजङ्गश्च महापत्यसर्पः कर्कोटकस्तथा ।चित्रसेनश्च गन्धर्वः पूर्णायुश्चैव गायनौ ॥१८॥अप्सराः पूर्वचित्तिश्च गन्धर्वाह्युर्वशी च या ।तक्षा वारिष्टनेमिश्च सेनानीग्रामणीश्च तौ ॥१९॥विद्युत् सूर्य्यश्च तावुग्रौ यातुधानौ तु तौ स्मृतौ ।सहे चैव सहस्ये च वसन्त्ये ते दिवाकरे ॥२०॥ततस्तु शिशिरे चापि मासयोर्निवसन्ति ते ।त्वष्टा विष्णुर्जमदग्निर्विश्वामित्रस्तथैव च ॥२१॥काद्रवेयौ यथा नागौ कम्बलाश्वतरावुभौ ।गन्धर्वौ धृतराष्ट्रश्च सूर्यवर्चाश्च तावुभौ ॥२२॥तिलोत्तमाप्सराश्चैव देवी रम्भा मनोरमा ।ग्रामणीर्ऋतजिच्चैव स्त्यजिच्च महाबलः ॥२३॥ब्रह्मोपेतश्च वै रक्षो यज्ञोपेतस्तथैव च ।इत्येते निवसन्तिस्म द्वौ द्वौ मासौ दिवाकरे ॥२४॥स्थानाभिमानिनो ह्येते गणा द्वादशसप्तकाः ।सूर्यमापादयन्त्येते तेजसा तेज उत्तमम् ॥२५॥ग्रथितैस्तु वचोभिश्च स्तुवन्ति ऋषयो रविम् ।गन्धवाप्सरसश्चैव गीतनृत्यैरुपासते ॥२६॥विद्याग्रामणिनो यक्षाः कुर्वन्त्याभीषु संग्रहम् ।सर्पाः सर्पन्ति वै सूर्यो यातुधानानुयान्ति च ॥२७॥वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम् ।एतेषामेव देवानां यथावीर्य्यं यथा तपः ॥२८॥यथायोगं यथाधर्मं यथातत्त्वं यथाबलम् ।तथा तपत्यसौ सूर्य्यस्तेषामिद्वस्तु तेजसा ॥२९॥भूतानामशुभं सर्वं व्यपोहति स्वतेजसा ।मानवानां शुभैर्ह्येतैर्ह्रियते दुरितन्तु वै ॥३०॥दुरितं शुभचाराणां व्यपोहन्ति क्वचित् क्वचित् ।एते सहैवसूर्येण भ्रमन्ति सानुगा दिवि ॥३१॥तपन्तश्च जपन्तश्च ह्लादयन्तश्च वै प्रजाः ।गोपायन्तिस्म भूतानि ईहन्ते ह्यनुकम्पया ॥३२॥स्थानाभिमानिनां ह्येतत् स्थानं मन्वन्तरेषु वै ।अतीतानागातानाञ्च वर्तन्ते साम्प्रतञ्च ये ॥३३॥एवं वसन्ति वै सूर्य्ये सप्तकास्ते चतुर्दश ।चतुर्दशेषु वर्त्तन्ते गणा मन्वन्तरेषु वै ॥३४॥ग्रीष्मे हिमे च वर्षासु च मुञ्चमानोघर्मं हिमञ्च वर्षञ्च निशां दिनञ्च ॥३५॥गच्छत्यसावनुदिनं परिवृत्य रश्मीन् देवान् पितृंश्चमनुजाश्च सुतर्पयन्वै ॥शुक्ले च कृष्णे तदहः क्रमेण कालक्षये चैव सुराः पिवन्ति ।मासेन तच्चामृतमस्य मृष्टं सुवृष्टये रश्मिषु रक्षितं तु ॥३६॥सर्वेऽमृतं तत् पितरः पिबन्ति देवाश्च सौम्याश्च तथैव काव्याः ।सूर्य्येण गोभिर्हविवर्द्धिताभिरद्भिः पुनश्चैव समुच्छ्रिताभिः ॥३७॥वृष्ट्याभिवृष्टाभिरथौषधीभिर्मत्या अथान्नेन क्षुधं जयन्ति ।तृप्तिश्चाप्यमृतेनार्द्धमासं सुराणां मासे स्वाहाभिः स्वधया पितॄणाम् ॥अनेन जीवन्त्यनिशं मनुष्याः सूर्य्यः श्रितन्तद्वि बिभर्ति गोभिः ॥३८॥इत्येष एकचक्रेण सूर्य्यस्तूर्णं प्रसर्पति ।तत्र तैरक्रमैरश्वैः सर्पतेऽसौ दिनक्षये ॥३९॥हरिर्हरिद्भिर्ह्रियते तुरङ्गमैः पिबत्यथापो हरिभिः सहस्रधा ।पुनः प्रमुञ्चत्यथ ताश्च यो हरिः समुह्यमानो हरिभिस्तुरङ्गमैः ॥४०॥अहोरात्रं रथेनासावेकचक्रेण वै भ्रमन् ।सप्तद्वीपसमुद्रांस्तु सप्तभिः सप्तभिर्द्रुतम् ॥४१॥च्छन्दोरूपैश्च तैरश्वैर्यतश्चक्रं ततः स्थितिः ।कामरूपैः सकृद्युक्तैः कामगैस्तैर्मनोजवैः ॥४२॥हिरतैरव्यथैः पिङ्गैरीश्वरैर्ब्रह्मवादिभिः ।वाह्यतोऽनन्तरञ्चैव मण्डलं दिवसः क्रमात् ॥४३॥कल्पादौ सम्प्रयुक्ताश्च वहन्त्याभूतसंप्लवम् ।आवृतो वालखिल्यैश्च भ्रमते रात्र्यहानि तु ॥४४॥ग्रथितैः स्ववचोभिश्च स्तूयमानो महर्षिभिः ।सेव्यते गीतनृत्यैश्च गन्धर्वाप्सरसाङ्गणैः ॥४५॥तपङ्गैः पतगैरश्वैर्भ्राम्यमाणो दिवस्पतिः ।वीथ्याश्रयाणि चरति नक्षत्राणि तथा रशी ॥४६॥ह्रासवृद्धी तथैवास्य रश्मयः सूर्यवत् स्मृताः ।त्रिचक्रोभयतोऽश्वश्च विज्ञेयः शशिनो रथः ॥४७॥अपाङ्गर्भसमुत्पन्नो रथः साश्वः ससारथिः ।सहारैस्तै स्त्रिभिश्चक्रैर्युक्तः शुक्तैर्हयोत्तमैः ॥४८॥दशभिस्तुरगैर्दिव्यैरसङ्गैस्तन्मनोजवैः ।सकृद्युक्ते रथे तस्मिन् वहन्तस्त्वायुगक्षयम् ॥४९॥संग्रहीता रथे तस्मिन् श्वेतश्चक्षुः श्रवाश्च वै ।अश्वास्तमेकवर्णास्ते वहन्ते शङ्कवर्चसः ॥५०॥अजश्च त्रिपथश्चैव वृषो वाजी नरो हयः ।अंशुमान् सप्तधातुश्च हंसो व्योम मृगस्तथा ॥५१॥इत्येते नामभिश्चैव दश चन्द्रमसो हयाः ।एवं चन्द्रमसं देवं वहन्ति स्मायुगक्षयम् ॥५२॥देवैः परिवृतः सोमः पितृभिः सह गच्छति ।सोमस्य शुक्लपक्षादौ भाष्करे परतः स्थिते ॥५३॥आपूर्यते परो भागाः सोमस्य तु अहः क्रमात् ।ततः पीतक्षयं सोमं युगपद् व्यापयन् रविः ॥५४॥पीतं पञ्चदशाहञ्च रश्मिनैकेन भास्करः ।आपूरयन् ददौ तेन भागं भागमहः क्रमात् ॥५५॥सुषुम्नाप्यायमानस्य शुक्ले वर्द्धन्ति वै कलाः ।तस्माद्ध्रसन्ति वै कृष्णे शुक्ले ह्याप्याययन्ति च ॥५६॥इत्येवं सूर्य्यवीर्येण चन्द्रस्याप्यायते तनुः ।पूर्णमास्यां प्रद्रृश्येत शुक्लः सम्पूर्णमण्डलः ॥५७॥एवमाप्यायते सोमः शुक्लपक्षेष्वहः क्रमात् ।ततो द्वितीया प्रभृति बहुलस्य चतुर्दशी ॥५८॥अपां सारमयस्येन्दो रसमात्रात्मकस्य च ।पिबन्त्यम्बुमयं देवा मधुसौम्यं तथामृतम् ॥५९॥संभृतन्त्वर्द्धमासेन अमृतं सूर्य्यतेजसा ।भक्षार्थमागतं सोमं पौर्णमास्यामुपासते ॥६०॥एकरात्रं सुराः सार्द्धं पितृभिर्ऋषिभिश्च वै ।सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य वै ॥६१॥प्रक्षीयते परे ह्यात्मा पीयमानकलाक्रमात् ।त्रयश्च त्रिंशता सार्द्धं त्रयस्त्रिंशच्छतानि तु ॥६२॥त्रयस्त्रिंशत् सहस्राणि देवाः सोमं पिबन्ति वै ।इत्येवं पीयमानस्य कृष्णे वर्द्धन्ति ताः कलाः ॥६३॥क्षीयन्ते च ततः शुक्लाः कृष्णा ह्याप्याययन्ति च ।एवं दिनक्रमात् पीते देवैश्चापि निशाकरे ॥६४॥पीत्वार्द्धमासं गच्छन्ति अमावास्यां सुराश्च ते ।पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम् ॥६५॥ततः पञ्चदशे भागे किञ्चिच्छेषे निशाकरे ।ततोऽपराह्णे पितरो यदन्यदिवसे पुनः ॥६६॥पिबन्ति द्विकलं कालं शिष्टास्तास्तु कलास्तु याः ।विनिस्सृष्टं त्वमावास्यां गभिस्तिब्यस्तदामृतम् ॥६७॥अर्द्धमाससमाप्तौ तु पीत्वा गच्छन्ति तेऽमृतम् ।सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ये स्मृताः ॥६८॥काव्याश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते ।सम्वत्सराश्च ये काव्या पश्चाद्वा वै द्विजाः स्मृताः ॥६९॥सौम्याः सुतपसौ ज्ञेया सौम्या बर्हिषदस्तथा ।अग्निष्वात्तास्त्रयश्चैव पितृसर्गस्थिता द्विजाः ॥७०॥पितृभिः पीयमानायां पञ्चदश्यान्तु वै कलाम् ।यावच्च क्षीयते तस्माद् भागः पञ्चदशस्तु सः ॥७१॥अमावास्यां तथा तस्य अन्तरा पूर्यते परः ।वृद्धिक्षयौ वै पक्षादौ षोड़श्यां शशिनः स्मृतौ ।एवं सूर्य्यनिमित्ते ते क्षयवृद्वी निशाकरे ॥७२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP