मत्स्यपुराणम् - अध्यायः ३४
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
ययात्युपाख्यानम् ।
शौनक उवाच ।
एवमुक्तः सराजर्षिः काव्यं स्मृत्वा महाव्रतम् ।
संक्रामयामास जरां तदा पुत्रे महात्मनि ॥१॥
पौरवेणाथ वयसा ययातिर्नहुषात्मजः ।
प्रीतियुक्तो नर श्रेष्टश्चचार विषयान् प्रियान् ॥२॥
यथा कामं यथोत्साहं यथा कालं यथासुखम् ।
धर्माविरुद्धान् राजेन्द्रो यथार्हति स एव हि ॥३॥
देवानतर्पयद् यज्ञैः श्राद्धैरपि पितामहान् ।
दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥४॥
अतिथीनन्नपानैश्च विशश्च प्रतिपालनैः ।
आनृशंस्येन शूद्रांश्च दस्यून्निग्रहणेन च ॥५॥
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् ।
ययातिः पालयामास साक्षादिन्द्र इवापरः ॥६॥
स राजा सिंहविक्रान्तो युवा विषयगोचरः ।
अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥७॥
स सम्प्राप्य शुभान् कामान् तृप्तः खिन्नश्च पार्थिवः ।
कालं वर्षसहस्रान्तं सस्मारमनुजाधिपः ॥८॥
परिचिन्त्य स कालज्ञः कलाः काष्ठाश्च वीर्यवान् ।
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥९॥
न जातुकामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥१०॥
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥११॥
यथासुखं यथोत्साहं यथाकाममरिन्दम! ।
सेविता विषयाः पुत्र! यौवनेन मया तव ॥१२॥
पूरो! प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् ।
राज्यञ्चैवगृहाणेदं त्वं हि मे प्रियकृत्सुतः ॥१३॥
प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा ।
यौवनं प्रतिपेदे स पूरुः स्वं पुनरात्मनः ॥१४॥
अभिषेक्तुकामञ्च नृपं पूरुं पुत्रं कनीयसम् ।
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥१५॥
कथं शुक्रस्य दौहित्रं देवयान्याः सुतं प्रभो! ।
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ॥१६॥
ज्येष्ठो यदुस्तवसुतस्तुर्वसुस्तदनन्तरम् ।
शर्मिष्ठायाः सुतो द्रुह्यस्तथानुः पूरुरेव च ॥१७॥
कथं ज्येष्ठमतिक्रम्य कनीयान् राज्यमर्हति ।
एतत्सम्बोधयामस्त्वां स्वधर्ममनुपालय ॥१८॥
ययातिरुवाच ।
ब्राह्मणप्रमुखा वर्णाः सर्वे श्रृण्वन्तु मे वचः ।
ज्येष्ठं प्रति यतो राज्यं न देयं मे कथञ्चन ॥१९॥
मम ज्येष्ठेन यदुना नियोगो नानुपालितः ।
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥२०॥
मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः ।
स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥२१॥
यदुनाहमवाज्ञातस्तथा तुर्वसु नापि वा ।
द्रुह्येण चानुना चैव मय्यवज्ञा कृता भृशम् ॥२२॥
पूरुणा मे कृतं वाक्यं मानितञ्च विशेषतः ।
कनीयान्मम दायादो जरा येन धृता मम ॥२३॥
मम कामः स च कृतः पूरुणा पुत्ररूपिणा ।
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् ॥२४॥
पुत्रो यस्त्वानुवर्तेत सराजा पृथिवीपतिः ।
भवन्तः प्रतिजानन्तु पूरुं राज्येऽभिषिच्यताम् ॥२५॥
यः पुत्रोगुणसम्पन्नो मातापित्रोर्हितः सदा ।
सर्वं सोऽर्हति कल्याणं कनीयानपि स प्रभुः ॥२६॥
अर्हं पूरोरिदं राज्यं यः प्रियः प्रियकृत्तव ।
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥२७॥
शौनक उवाच ।
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा ।
अभिषिच्य ततः पूरुं राज्ये स्वसुतमात्मजम् ॥२८॥
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः ।
पुरात् स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥२९॥
यदोस्तु यादवा जाता तुर्वसोर्यवनाः सुताः ।
द्रुह्यस्य तु सुताभोजा अनोस्तु म्लेच्छजातयः ॥३०॥
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव! ।
इदं वर्षसहस्रात्तु राज्यं कुरु कुलागतम् ॥३१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP