मत्स्यपुराणम् - अध्यायः ६३
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
रसकल्याणिनीतृतीयाव्रतकथनम् ।
अथान्यामपिवक्ष्यामि तृतीयां पापनाशिनीम् ।
रसकल्याणिनीमेतां पुरा कल्पविदो विदुः ॥१॥
माघमासे तु संप्राप्ते तृतीयां शुक्लपक्षतः ।
प्रातर्गव्येन पयसा तिलैः स्नानं समाचरेत् ॥२॥
स्नापयेन् मधुना देवीं तथैवेक्षुरसेन च ।
दक्षिणाङ्गानि संपूज्य ततो वामानि पूजयेत् ॥३॥
ललितायै नमो देव्याः पादौ गुल्फौ ततोऽर्चयेत् ।
जङ्घाञ्जानुं तथा शान्त्यै तथैवोरुं श्रियै नमः ॥४॥
मदालसायै तु कटिममलायै तथोदरम् ।
स्तनौ मदनवासिन्यै कुमुदायै च कन्धराम् ॥५॥
भुजं भुजाग्रं माधव्ये कमलायै मुखस्मिते ।
भ्रूललाटे च रुद्राण्यै शङ्करायै तथालकान् ॥६॥
मुकुटं विश्ववासिन्यै शिरः कान्त्यै तथार्चयेत् ।
मदनायै ललाटन्तु मोहनायै पुनर्भ्रुवौ ॥७॥
नेत्रे चन्द्रार्द्धधारिण्यै तुष्ट्यै च वदनं पुनः ।
उत्कण्ठिन्यै नमः कण्ठममृतायै नमः स्तनौ ॥८॥
रम्भायै वामकुक्षिञ्च विशोकायै नमः कटिम् ।
हृदयं मन्मथाधिष्ण्यै पाटलायै तथोदरम् ॥९॥
कटिं सुरतवासिन्यै तथोरुञ्चम्पकप्रिये ।
जानुजङ्घे नमोगौर्यै गायत्र्यै घुटिके नमः ॥१०॥
धराधरायै पादौ तु विश्वकार्यै नमः शिरः ।
नमो भवान्यै कामिन्यै कामदेव्यै जगत् प्रिये ॥११॥
एवं संपूज्य विधिवत् द्विजदाम्पत्यमर्चयेत् ।
भोजयित्वान्नपानेन मधुरेण विमत्सरः ॥१२॥
जलपूरितं तथा कुम्भं शुक्लाम्बरयुगद्वयम् ।
दत्त्वा सुवर्णकमलं गन्दमाल्यैः समर्चयेत् ॥१३॥
प्रीयतामत्र कुमुदा गृह्णीयाल्लवणव्रतम् ।
अनेन विधिना देवीं मासि मासि सदार्चयेत् ॥१४॥
लवणं वर्जयेन्माघे फाल्गुने च गुडं पुनः ।
तैलं राजिं तथा चैत्रे वर्ज्ये च मधुमाधवे ॥१५॥
पानकं ज्येष्ठमासे तु आषाढे चाथ जीरकम् ।
श्रावणे वर्जयेत् क्षीरं दधि भाद्रपदे तथा ॥१६॥
घृतमाश्वयुजे तद्वत् ऊर्जै वर्ज्यञ्च माक्षिकम् ।
धान्यकं मार्गशीर्षे तु पौषे वर्ज्या च शर्करा ॥१७॥
व्रतान्ते करकं पूर्णमेतेषां मासि मासि च ।
दद्याद् द्विकालवेलायां पूर्णपात्रेण संयुतम् ॥१८॥
लड्डुकान् श्वेतवर्णांश्च संयावमथ पूरिकाः ।
घारिकानप्यपूपांश्च पिष्टापूपांश्च मण्डकान् ॥१९॥
क्षीरं शाकञ्च दध्यन्नमिण्ड्रर्यों शोकवर्तिकाः ।
माघादि क्रमशो दद्यादेतानि करकोपरि ॥२०॥
कुमुदा माधवी गौरी रम्भ भद्रा जया शिवा ।
उमारतिः सती तद्वन्मङ्गला रतिलालसा ॥२१॥
क्रमान्माघादि सर्वत्र प्रीयतामिति कीर्तयेत् ।
सर्वत्र पञ्चगव्येन प्राशनं समुदाहृतम् ॥
उपवासी भवेन्नित्यमशक्ते नक्तमिष्यते ॥२२॥
पुनर्माघे तु संप्राप्ते शर्करां करकोपरि ।
कृत्वा तु काञ्चनीं गौरीं पञ्चरत्नसमन्विताम् ॥२३॥
हैमीमङ्गुष्ठमात्राञ्च साक्षसूत्रकमण्डलुम् ।
चतुर्भुजामिन्दुयुतां सितनेत्रपटावृताम् ॥२४॥
तद्वद् गोमिथुनं शुक्लं सुवर्णास्यं सिताम्बरम् ।
सवस्त्रभाजनं दद्याद् भवानी प्रीयतामिति ॥२५॥
अनेन विधिनायस्तु रसकल्याणिनी व्रतम् ।
कुर्यात्स सर्वपापेभ्य स्तत्क्षणादेवमुच्यते ॥२६॥
नवार्बुदसहस्रन्तु न दुःखी जायते नरः ।
सुवर्णकमलं गौरी मासि मासि ददन्नरः ।
अग्निष्टोमसहस्रस्य यत् फलं तदवाप्नुयात् ॥२७॥
नारी वा कुरुते या तु कुमारी वा वारनने ।
विधवा या तथा नारी सापि तत् फलमाप्नुयात् ।
सौभाग्यरोग्यसंपन्ना गौरी लोके महीयते ॥२८॥
इति पठति श्रृणोति यः प्रसङ्गात् ।
कलिकलुषविमुक्तः पार्वती लोकमेति ।
मतिमपि च नराणां यो ददाति प्रियार्थम् ।
विबुधपतिविमाने नायकः स्यादमोघः ॥२९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP