संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २३

मत्स्यपुराणम् - अध्यायः २३

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


सोमवंशाख्यानम् ।

ऋषय ऊचुः ।
सोमः पितॄणामधिपः कथं शास्त्रविशारदः ।
तद्वंश्या ये च राजानो बभूवुः कीर्तिवर्धनाः ॥१॥

सूत उवाच ।
आदिष्टो ब्रह्मणा पूर्वमत्रिः सर्गविधौ पुरा ।
अनुत्तमं नाम तपः सृष्ट्यर्थं तप्तवान् प्रभुः ॥२॥

यदानन्दकरं ब्रह्म जगत् क्लेशविनाशनम् ।
ब्रह्मविष्ण्वर्करुद्राणामभ्यन्तरमतीन्द्रियम् ॥३॥

शान्तिकृच्छान्तमनसस्तदन्तर्नयने स्थितम् ।
माहात्म्यात्तपसा विप्राः परमानन्दकारकम् ॥४॥

यस्मादुमापतिः सार्द्धमुमया तमधिष्ठितः ।
तं द्रृष्ट्वा चाष्टमांशेन तस्मात् सोमोऽभविच्छिशुः ॥५॥

अधः सुस्राव नेत्राभ्यां धामतच्चाम्बु सम्भवम् ।
दीपयद्विश्वमखिलं ज्योत्स्नया स चराचरम् ॥६॥

तद्दिशो जगृहुर्धाम स्त्रीरूपेण सुतेच्छया ।
गर्भोभूत्वोदरे तासामास्थितोऽब्द शतत्रयम् ॥७॥

आशास्तं मुमुचुर्गर्भमशक्ता धारणे ततः ।
समादायाथ तं गर्भमेकीकृत्य चतुर्मुखः ॥८॥

युवानमकरोद् ब्रह्मा सर्वायुधधरं नरम् ।
स्यन्दनेऽथ सहस्राश्वे वेदशक्तिमये प्रभुः ॥९॥

आरोप्य लोकमनयदात्मीयं सपितामहः ।
तत्र ब्रह्मर्षिभिः प्रोक्तमस्मत्‌ स्वामी भवत्वयम् ॥१०॥

पितृभिर्देवगन्धर्वैरोषधीभिस्तथैव च ।
तुष्टुवुः सोमदेवत्यैर्ब्रह्माणं मन्त्रसंग्रहैः ॥११॥

स्तूयमानस्य तस्याभूदधिको धामसम्भवः ।
तेजो वितानादभवद् भुवि दिव्यौषधीगणः ॥१२॥

तद्दीप्तिरधिका तस्माद्रात्रौ भवति सर्वदा ।
तेनौषधीशः सोमोऽभूद्‌ द्विजेशश्चापि गद्यते ॥१३॥

वेदधामरसञ्चापि यदिदं चन्द्रमण्डलम् ।
क्षीयते वर्द्धते चैव शुक्ले कृष्णे च सर्वदा ॥१४॥

विंशतिञ्च तथा सप्तदक्षः प्राचेतसो ददौ ।
रूपलावण्यसंयुक्तास्तस्मै कन्याः सुवर्चसः ॥१५॥

ततः पाद्मसहस्राणां सहस्राणि दशैव तु ।
तपश्चचार शीतांशु विष्णुध्यानैकतत्परः ॥१६॥

ततस्तुष्टस्तु भगवांस्तस्मै नारायणो हरिः ।
वरं वृणीष्व प्रोवाच परमात्मा जनार्दनः ॥१७॥

ततो वव्रे वरान् सोमः शक्रलोकं जयाम्यहम् ।
प्रत्यक्षमेव भोक्तारो भवन्तु मम मन्दिरे ॥१८॥

राजसूये सुरगणा ब्रह्माद्याः सन्तु मे द्विजाः ।
रक्षः पालः शिवोऽस्माकमास्तां शूलधरो हरः ॥१९॥

तथेत्युक्तः स आजह्ने राजसूयन्तु विष्णुना ।
होतात्रिर्भृगुरध्वर्युरुद्गाताभूच्चतुर्मुखः ॥२०॥

ब्रह्मत्त्वमगमत्तस्य उपद्रष्टा हरिः स्वयम् ।
सदस्याः सनकाद्यास्तु राजसूय विधौ स्मृता ॥२१॥

चमसाध्वर्यवस्तत्र विश्वेदेवा दशैव तु ।
त्रैलोक्यं दक्षिणा तेन ऋत्विग्‌भ्यः प्रतिपादितम् ॥२२॥

ततः समाप्तेऽवभृथे तद्रूपालोकनेच्छवः ।
कामबाणाभि तप्ताङ्ग्यो नवदेव्यः सिषेविरे ॥२३॥

लक्ष्मीनारायणं त्यक्त्वा सिनीवाली च कर्दमम् ।
द्युतिर्विभावसुं तद्वत्तुष्टिर्धातारमव्ययम् ॥२४॥

प्रभाप्रभाकरं त्यक्त्वा हविष्मन्तं कुहूः स्वयम् ।
कीर्तिर्जयन्तं भर्तारं वसुर्मारीचकश्यपम् ॥२५॥

धृतिस्त्यक्त्वा पतिं नन्दिं सोममेवाभजंस्तदा ।
स्वकीया इव सोमोऽपि कामयामास तास्तदा ॥२६॥

एवं कृतापचारस्य तासाम्भर्तृगणस्तदा ।
न शशाङ्कापचाराय शापैः शस्त्रादिभिः पुनः ॥२७॥

तथाप्यराजत विधुर्दशधा भावयन्‌ दिशः ।
सोमः प्राप्याथ दुष्प्राप्यमैश्वर्यमृषिसंस्कृतम् ॥
सप्तलोकैकनाथत्वमवाप तपसा तदा ॥२८॥

कदाचिदुद्यानगतामपश्यदनेकपुष्पाभरणैश्च शोभितम् ।
बृहन्नितम्बस्तनभारखेदात् पुष्पस्य भङ्गेऽप्यतिदुर्बलाङ्गीम् ॥२९॥

भार्याञ्च तां देवगुरोरनङ्ग बाणाभिरामायतचारुनेत्राम् ।
तारां स ताराधिपतिः स्मरार्तः केशेषु जग्राह विविक्तभूमौ ॥३०॥

सापि स्मरार्ता सह तेन रेमे तद्रूपकान्त्या हृतमानसेन ।
चिरं विहृत्याथ जगाम तारां विधुर्गृहीत्वा स्वगृहं ततोऽपि ॥३१॥

न तृप्तिरासीच्च गृहेऽपि तस्य तारानुरक्तस्य सुखागमेषु ।
बृहस्पतिस्तद्विरहाग्निदग्धस्तद्‌ध्यान निष्ठैकमना बभूव ॥३२॥

शशाक शापन्न च दातुमस्मै न मन्त्रशस्त्राग्नि विषैरशेषैः ।
तस्यापकर्तुं विविधैरुपायैर्नैवाभिचारैरपि वागदीशः ॥३३॥

स याचयामास ततस्तु दैन्यात् सोमं स्वभार्यार्थमनङ्ग तप्तः ।
स याच्यमानोऽपि ददौ न तारां बृहस्पतेस्तत्सुखपाशबद्धः ॥३४॥

महेश्वरेणाथ चतुर्मुखेन साध्यैर्मरुद्भिः सह लोकपालैः ॥
ददौ यदा तान्न कथञ्चिदिन्दुस्तदा शिवः क्रोधपरो बभूव ॥३५॥

यो वामदेवः प्रथितः पृथिव्यामनेक रुद्रार्चित पादपद्मः ।
ततः सशिष्यो गिरिशः पिनाकी बृहस्पतिस्नेहवशानुबद्धः ॥३६॥

धनुर्गृहीत्वाजगवं पुरारिर्जगाम भूतेश्वरसिद्धजुष्टः ।
युद्धाय सोमेन विशेषदीप्त तृतीय नेत्रानल भीमवक्त्राः ॥३७॥

सहैव जग्मुश्च गणेशकाद्या विंशच्चतुः षष्टिगणास्त्रयुक्ताः ।
यक्षेश्वरः कोटिशतैरनेकैर्युतोऽन्वगात्स्यन्दन संस्थितानाम् ॥३८॥

वेतालयक्षोरगकिन्नराणां पद्मेन चैकेन तथार्बुदेन ।
लक्षैस्त्रिभिर्द्वादशभीरथानां सोमोऽप्यगात्तत्र विवृद्धमन्युः ॥३९॥

नक्षत्रदैत्यासुरसैन्ययुक्तः शनैश्चराङ्गारकवृद्धतेजाः ।
जग्मुर्भयं सप्त तथैव लोकाश्चचालभूर्द्वीपसमुद्रगर्भा ॥४०॥

स सोममेवाभ्यगमत्पिनाकी गृहीत दीप्तास्त्र विशालवह्नि ।
अथाभवद् भीषणभीमसेन सैन्यद्वयस्यापि महाहवोऽसौ ॥४१॥

अशेषसत्वक्षयकृत्प्रवृद्धस्तीक्ष्णायुधास्त्रज्ज्वलनैकरूपः ।
शस्त्रैरथान्योन्यमशेषसैन्यं द्वयोर्जगाम क्षयमुग्रतीक्ष्णैः ॥४२॥

पतन्ति शस्त्राणि तथोज्वलानि स्वर्भूमि पातालमथादहन्ति ।
रुद्रः कोपाद् ब्रह्मशीर्षं मुमोच सोमोऽपि सोमास्त्रममोघवीर्यम् ॥४३॥

तयोर्निपातेन समुद्र भूम्योरथान्तरिक्षस्य च भीतिरासीत् ।
तदस्त्रयुग्मं जगतां क्षयाय प्रवृद्धमालोक्य पितामहोऽपि ॥४४॥

अन्तः प्रविश्याथ कथं कथञ्चिन्निवारयामास सुरैः सहैव ।
अकारणं किं क्षयकृज्जनानां सोम! त्वयापीत्थमकारिकार्यम् ॥४५॥

यस्मात् परस्त्री हरणाय सोम!त्वया कृतं युद्धमतीव भीमम् ।
पापग्रहस्त्वं भविता जनेषु शान्तोऽप्यलं नूनमथासितान्ते ॥४६॥

भार्यामिमामर्पय वाक्‌ पतेस्त्वं न चावमानोऽस्ति परस्वहारे ।
सूत उवाच ।
तथेति चोवाच हिमांशुमाली युद्धादपाक्रामदतः प्रशान्तः ॥४७॥

बृहस्पतिः स्वामपगृह्य तारां हृष्टो जगाम स्वगृहं स रुद्रः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP