संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २०२

मत्स्यपुराणम् - अध्यायः २०२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


ऋषीणां नामगोत्रवंशप्रवरवर्णनम् ।
मत्स्य उवाच ।
अतः परमगस्त्यस्य वक्ष्ये वंशोद्भवान् द्विजान् ।
अगस्त्यश्च करम्भश्च कौशल्यः करटस्तथा ॥१॥

सुमेधसो मयोभुवस्तथा गान्धारकायणाः ।
पौलस्त्याः पौलहाश्चैव क्रतुवंशभवास्तथा ॥२॥

आर्षेयाभिमताश्चैषां सर्वेषां प्रवराः शुभाः ।
अगस्त्यश्च महेन्द्रश्च ऋषिश्चैव मयोभुवः ॥३॥

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
पौर्णमासाः पारणाश्च आर्षेयाः परिकीर्तिताः ॥४॥

अगस्त्यः पौर्णमासश्च पारणश्च महातपाः ।
परस्परमवैवाह्याः पौर्णमासास्तु पारणैः ॥५॥

एवमुक्तो ऋषीणान्तु वंश उत्तमपौरुषः ।
अत परं प्रवक्ष्यामि किम्भवानद्य कथ्यताम् ॥६॥

मनुरुवाच ।
पुलहस्य पुलस्त्यस्य क्रतोश्चैवमहात्मनः ।
अगस्त्यस्य तथा चैव कथं वंशस्तदुच्यताम् ॥७॥

मत्स्य उवाच ।
क्रतुः खल्वनपत्योऽभूद्राजन्वैवस्वतेऽन्तरै ।
इध्मवाहं स पुत्रत्वे जग्राह ऋषिसत्तमः ॥८॥

अगस्त्यपुत्रं धर्मज्ञं आगस्त्याः क्रतवस्ततः ।
पुलहस्य तथा पुत्रास्त्रयश्च पृथिवीपते! ॥९॥

तेषान्तु जन्म वक्ष्यामि उत्तरत्र यथाविधि ।
पुलहस्तु प्रजां दृष्ट्वा नातिप्रीतमनाः स्वकाम् ॥१०॥

अगस्त्यजं दृढास्यन्तु पुत्रत्वे वृतवांस्ततः ।
पौलहाश्च तथा राजन्! आगस्त्याः परिकीर्तिताः ॥११॥

पुलस्त्यान्वयसम्भूतान् दृष्ट्वा रक्षः समुद्भवान् ।
अगस्त्यस्य सुतान् धीमान् पुत्रत्वे वृतवांस्ततः ॥१२॥

पौलस्त्याश्च तथा राजन्नागस्त्याः परिकीर्तिताः ।
सगोत्रत्वादिमे सर्वे परस्परमनन्वयाः ॥१३॥

एते तवोक्ताः प्रवरा द्विजानीं महानुभावा नृपवंशकाराः ।
एषान्तु नाम्ना परिकीर्तितेन पापं समग्रं पुरुषो जहाति ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP