मत्स्यपुराणम् - अध्यायः १२४
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
पृथिवीपरिमाणवर्णनम् ।
सूत उवाच ।
अत ऊद्र्ध्वं प्रवक्ष्यामि सूर्य्याचन्द्रमसोर्गतिम् ।
सूर्य्याचन्द्रमसावेतौ भ्राजन्तौ यावदेवतु ॥१॥
सप्तद्वीपसमुद्राणां द्वीपानां भवति विस्तरः ।
विस्तरार्द्धं पृथिव्यास्तु भवेदन्यत्र बाह्यतः ॥२॥
पर्यासपरिमाणञ्च चन्द्रादित्यौ प्रकाशतः ।
पर्यासपारिमाण्यात्तु बुधैस्तुल्यं दिवः स्मृतम् ॥३॥
त्रीन् लोकान् प्रतिसामान्यात् सूर्य्यो यात्यविलम्बतः ।
अचिरात्तु प्रकाशेन अवनात्तु रविः स्मृतः ॥४॥
भूयो भूयः प्रवक्ष्यामि प्रमाणं चन्द्रसूर्य्ययोः.
महितत्वान्महच्छब्दो ह्यस्मिन्नर्थे निगद्यते ॥५॥
अस्य भारतवर्षस्य विष्कम्भात् तुल्यविस्तृतम् ।
मण्डलं भास्करस्याथ योजनैस्तन्निबोधत ॥६॥
नवयोजनसाहस्रो विस्तारो मण्डलस्य तु ।
विस्तारत्रिगुणश्चापि परिणाहोऽत्र मण्डले ॥७॥
विष्कम्भान् मण्डलाच्चैव भास्कराद् द्विगुणः शशी ।
अतः पृथिव्या वक्ष्यामि प्रमाणं योजनैः पुनः ॥८॥
सप्तद्वीपसमुद्राया विस्तारो मण्डलस्य तु ।
इत्येतदिह संख्यातं पुराणे परिमाणतः ॥९॥
तद्वक्ष्यामि प्रसंख्याय साम्प्रतञ्चाभिमानिभिः ।
अभिमानिनो ह्यतीता ये तुल्यास्ते साम्प्रतैस्त्विह ॥१०॥
देवदेवैरतीतास्तु रूपैर्नामभिरेव च ।
तस्माद्वै साम्प्रतैर्देवैर्वक्ष्यामि वसुधातलम् ॥११॥
दिव्यस्य सन्निवेशो वै साम्प्रतैरेव कृत्स्नशः ।
शतार्द्धकोटिविस्तारा पृथिवी कृत्स्नशः स्मृता ॥१२॥
तस्याश्चार्द्धप्रमाणञ्च मेरोश्चैवोत्तरोत्तरम् ।
मेरोर्मध्ये प्रतिदिशं कोटिरेकातु सा स्मृता ॥१३॥
तथा शतसहस्राणामेकोननवतिं पुनः ।
पञ्चाशच्च सहस्राणि पृथिव्यर्द्धस्य विस्तरः ॥१४॥
पृथिव्या विस्तरं कृत्स्नं योजनैस्तन्निबोधत ।
तिस्रः कोट्यस्तु विस्तारात् संख्यातास्तु चतुर्दिशम् ॥१५॥
तथा शतसहस्राणामेकोनाशीतिरुच्यते ।
सप्तद्वीपसमुद्रायाः पृथिव्याः स तु विस्तरः ॥१६॥
विस्तारं त्रिगुणञ्चैव पृथिव्यन्तरमण्डलम् ।
गणितं योजनानान्तु कोट्यस्त्वेकादशस्मृताः ॥१७॥
तारकास्तन्निवेशस्य दिवि यावत्तु मण्डलम् ।
पर्याप्तसन्निवेशस्य भूमेस्तावत्तु मण्डलम् ॥१८॥
पर्यासपरिमाणञ्च भूमेस्तुल्यं दिवः स्मृतम् ।
मेरोः प्राच्यां दिशायान्तु मानसोत्तरमूर्द्धनि ॥१९॥
वस्त्वेकसारा माहेन्द्री पुण्या हेमपरिष्कृता ।
दक्षिणेन पुनर्मेरोर्मानसस्य तु पृष्ठतः ॥२०॥
वैवस्वतो निवसति यमः संयमने पुरे ।
प्रतीच्यान्तु पुनर्मेरोर्मानसस्य तु मूर्द्धनि ॥२१॥
सुषा नाम पुरी रम्या वरुणस्यापि धीमतः ।
दिश्युत्तरायां मेरोस्तु मानसस्यैव मूर्द्धनि ॥२२॥
तुल्या महेन्द्रपुर्यापि सोमस्यापि विभावरी ।
मानसोत्तरपृष्ठे तु लोकपालाश्चतुर्दिशम् ॥२३॥
स्थिता धर्मव्यवस्थार्थं लोकसंरक्षणाय च ।
लोकपालोपरिष्टात्तु सर्वतोदक्षिणायने ॥२४॥
काष्ठागतस्य सूर्य्यस्य गतिस्तत्र निबोधत ।
दक्षिणोपक्रमे सूर्य्यः क्षिप्तेषुरिव सर्पति ॥२५॥
ज्योतिषाञ्च क्रमादाय सततं परिगच्छति ।
मध्यगश्चामरावत्यां यदा भवति भास्करः ॥२६॥
वैवस्वते संयमने उद्यन् सूर्य्यः प्रद्रृश्यते ।
सुषायामर्द्धरात्रस्तु विभावर्यास्तमेति च ॥२७॥
वैवस्वते संयमने मध्याह्ने तु रविर्यदा ।
सुषायामथ वारुण्यामुत्तिष्ठन् स तु द्रृश्यते ॥२८॥
विभावर्यामर्द्धरात्रं माहेन्द्र्यामस्तमेव च ।
सुषायामथ वारुण्यां मध्याह्ने तु रविर्यदा ॥२९॥
विभावर्य्यां सोमपुर्य्यां उत्तिष्ठति विभावसुः ।
महेन्द्रस्यामरावत्यामुद्गच्छति दिवाकरः ॥३०॥
अर्द्धरात्रं संयमने वारुण्यामस्तमेति च ।
स शीघ्रमेव पर्येति भानुरालातचक्रवत् ॥३१॥
भ्रमन् वै भ्रममाणानि ऋक्षाणि चरते रविः ।
एवं चतुर्षु पार्श्वेषु दक्षिणां तेषु सर्पति ॥३२॥
उदयास्तमये वाऽसावुत्तिष्ठति पुनः पुनः ।
पूर्वाह्णे चापराह्णे च द्वौ द्वौ देवालयौ तु सः ॥३३॥
पतत्येकन्तु मध्याह्ने भाभिरेव च रश्मिभिः ।
उदितो वर्धमानाभिर्मध्याह्ने तपते रविः ॥३४॥
अतः परं ह्रसन्तीभिर्गोभिरस्तं स गच्छति ।
उदयास्तमयाभ्यां च स्मृते पूर्वापरे तु वै ॥३५॥
याद्रृक् पुरस्तात्तपति याद्रृक् पृष्ठे तु पार्श्वयोः ।
यत्रोदयस्तु दृश्येत तेषां स उदयः स्मृतः ॥३६॥
प्रणाशं गच्छते यत्र तेषामस्तः स उच्यते ।
सर्वेषामुत्तरे मेरुर्लोकालोकस्य दक्षिणे ॥३७॥
विदूरभावादर्कस्य भूमेरेषा गतस्य च ।
श्रयन्ते रश्मयो यस्मात्तेन रात्रौ न द्रृश्यते ॥३८॥
ऊद्र्ध्वं शतसहस्रांशुः स्थितस्तत्र प्रद्रृश्यते ।
एवं पुष्करमध्ये तु यदा भवति भास्करः ॥३९॥
त्रिंशद्भागञ्च मेदिन्या मुहूर्त्तेन स गच्छति ।
योजनानां सहस्रस्य इमां संख्यां निबोधत ॥४०॥
पूर्णं शतसहस्राणां एकत्रिंशच्च सा स्मृता ।
पञ्चाशच्च सहस्राणि तथान्यान्यधिकानि च ॥४१॥
मौहूर्तिकी गतिर्ह्येषा सूर्य्यस्त तु विधीयते ।
एतेन क्रमयोगेन यदा काष्ठान्तु दक्षिणाम् ॥४२॥
परिगच्छति सूर्य्योऽसौ मासं काष्ठामुदक् दिनात् ।
मध्येन पुष्करस्याथ भ्रमते दक्षिणायने ॥४३॥
मानसोत्तरमेरोस्तु अन्तरं त्रिगुणं स्मृतम् ।
सर्वतो दक्षिणायान्तु काष्ठायां तन्निबोधत ॥४४॥
नवकोट्यः प्रसंख्याता योजनैः परिमण्डलम् ।
तथा शतसहस्राणि चत्वारिंशञ्च पञ्च च ॥४५॥
अहोरात्रात् पतङ्गस्य गतिरेषा विधीयते ।
दक्षिणादिङ्निवृत्तोऽसौ विषुवस्थो यदा रविः ॥४६॥
क्षीरोदस्य समुद्रस्योत्तरतोऽपि दिशं चरन् ।
मण्डलं विषुवच्चापि योजनेस्तन्निबोधत ॥४७॥
तिस्रः कोट्यस्तु सम्पूर्णा विषुवस्यापि मण्डलम् ।
तथा शतसहस्राणि विंशत्येकाधिकानि तु ॥४८॥
श्रावणे चोत्तरां काष्ठां चित्रभानुर्यदा भवेत् ।
गोमेदस्य परद्वीपे उत्तराञ्च दिशं चरन् ॥४९॥
उत्तरायाः प्रमाणन्तु काष्ठाया मण्डलस्य तु ।
दक्षिणोत्तरमध्यानि तानि विन्द्याद्यथाक्रमम् ॥५०॥
स्थानं जरद्गवं मध्ये तथैरावतमुत्तरम् ।
वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः ॥५१॥
नागवीथ्युत्तरा वीथी ह्यजवीथिस्तु दक्षिणा ।
उभे आषाढमूलन्तु अजवीथ्यादयस्त्रयः ॥५२॥
अभिजित् पूर्वतः स्वाति न्नागवीथ्युत्तरास्त्रयः ।
अश्विनीकृत्तिकायाम्या नागवीथ्यस्त्रयः स्मृताः ॥५३॥
रोहिण्यार्द्रा मृगशिरो नागवीथिरिति स्मृता ।
पुष्याश्लेषा पुनर्वस्वोर्वीथी चैरावती स्मृता ॥५४॥
त्रिस्रस्तु वीथयो ह्येता उत्तरा मार्ग उच्यते ।
पूर्वउत्तरफल्गुन्यौ मघा चैवार्षभी भवेत् ॥५५॥
पूर्वोत्तरप्रोष्ठपदौ गोवीथी रेवती स्मृता ।
श्रवणञ्च धनिष्ठा च वारुणञ्च जरद्गवम् ॥५६॥
एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ।
हस्त चित्रा तथा स्वाती ह्यजवीथिरितिस्मृता ॥५७॥
जेष्ठा विशाखा मैत्रञ्च मृगवीथी तथोच्यते ।
मूलं पूर्वोत्तराषाढ़े वीथीवैश्वानरी भवेत् ॥५८॥
स्मृतास्तिस्रस्तु वीथ्यस्ता मार्गे वै दक्षिणे पुनः ।
काष्ठयोरन्तरञ्चैतद्वक्ष्ये योजनैः पुनः ॥५९॥
एतच्छतसहस्राणामेकत्रिंशत्तु वै स्मृतम् ।
शतानि त्रीणि चान्यानि त्रयस्त्रिंशत्तथैव च ॥६०॥
काष्ठयोरन्तरं ह्येतद्योजनानां प्रकीर्त्तितम् ।
काष्ठयोर्लेखयोश्चैव अयने दक्षिणोत्तरे ॥६१॥
ते वक्ष्यामि प्रसंख्याय योजनैस्तु निबोधत ।
एकैकमन्तरं तद्वद्युक्तान्येतानि सप्तभिः ॥६२॥
सहस्रेणातिरिक्ता च ततोऽन्या पञ्चविंशतिः ।
लेखयोः काष्ठयोश्चैव बाह्याभ्यन्तरयोश्चरन् ॥६३॥
अभ्यन्तरं स पर्येति मण्डलान्युत्तरायणे ।
बाह्यतो दक्षिणेनैव सततं सूर्य्यमण्डलम् ॥६४॥
चरन्नसावुदीच्याञ्च ह्यशीत्या मण्डलान् शतम् ।
अभ्यन्तरं स पर्येति क्रमते मण्डलानि तु ॥६५॥
प्रमाणां मण्डलस्यापि योजनानान्निबोधत ।
योजनानां सहस्राणि दश चाष्टौ तथा स्मृतम् ॥६६॥
अधिकान्यष्टपञ्चाशद्योजनानि तु वै पुनः ।
विष्कम्भो मण्डलस्यैव तिर्यक् स तु विधीयते ॥६७॥
अहस्तु चरते नाभेः सूर्य्यो वै मण्डलं क्रमात् ।
कुलालचक्रपर्यन्तो यथा चन्द्रो रविस्तथा ॥६८॥
दक्षिणे चक्रवत् सूर्य्यस्तथा शीघ्रं निवर्त्तते ।
तस्मात् प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ॥६९॥
सूर्य्यो द्वादशभिः शीघ्रं मुहूर्त्तैर्दक्षिणायने ।
त्रयोदशार्द्धमृक्षाणां मध्ये चरति मण्डलम् ॥७०॥
मुहूर्त्तैस्तानि ऋक्षाणि नक्तमष्टादशैश्चरन् ।
कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पति ॥७१॥
उदग्याने तथा सूर्य्यः सर्पते मन्दविक्रमः ।
तस्माद्दीर्घेण कालेन भूमिं सोऽल्पां प्रसर्पति
सूर्य्योऽष्टादशभिरह्नो मुहूर्तैरुदगायने ॥७२॥
त्रयोदशानां मध्ये तु ऋक्षाणां चरते रविः ।
मुहूर्तैस्तानि ऋक्षाणि रात्रौ द्वादशभिश्चरन् ॥७३॥
ततो मन्दतरं ताभ्यां चक्रन्तु भ्रमते पुनः ।
मृत्पिण्ड इव मध्यस्थो भ्रमतेऽसौ ध्रुवस्तथा ॥७४॥
मुहूर्तैस्त्रिंशता तावदहोरात्रं ध्रुवो भ्रमत् ।
उभयोः काष्ठयोर्मध्ये भ्रमते मण्डलानि तु ॥७५॥
उत्तरक्रमणेऽर्कस्य दिवा मन्दगतिः स्मृता ।
तस्यैव तु पुनर्नक्तं शीघ्रा सूर्य्यस्य वै गतिः ॥७६॥
दक्षिणप्रक्रमे वापि दिवा शीघ्रं विधीयते ।
गतिः सूर्यस्य वै नक्तं मन्दा चापि विधीयते ॥७७॥
लोकसन्तानतोह्येष वैश्वानरपथाद्बहिः ।
व्युष्टिर्यावत् प्रभा सौरी पुष्करान् संप्रवर्त्तते ॥७८॥
पार्श्वेभ्यो बाह्यतस्तावल्लोकालोकश्च पर्वतः ।
योजनानां सहस्राणि दशोद्र्ध्वं चोच्छ्रितो गिरिः ॥७९॥
प्रकाशश्चाप्रकाशश्च पर्वतः परिमण्डलः ।
नक्षत्रचन्द्रसूर्य्याश्च ग्रहास्तारागणैः सह ॥८०॥
अभ्यन्तरे प्रकाशन्ते लोकालोकस्य वै गिरेः ।
एतावानेवलोकस्तु निरालोकस्ततः परम् ॥८१॥
लोक आलोकने धातुर्निरालोकस्त्वलोकता ।
लोकालोकौ तु संधत्ते तस्मात् सूर्य्यः परिभ्रमन् ॥८२॥
तस्मात् सन्ध्येति तामाहु रुषा व्युष्टैर्यथान्तरम् ।
उषा रात्रिः स्मृता विप्रैर्व्युष्टिश्चापि अहः स्मृतम् ॥८३॥
त्रिंशत्कलो मुहूर्तस्तु अहस्ते दशपञ्च च ।
ह्रासो वृद्धिरहर्भागैर्दिवसानां यथा तु वै ॥८४॥
सन्ध्या मुहूर्तमात्रायां ह्रासवृद्धी तु ते स्मृते ।
लेखा प्रभृत्यथादित्ये त्रिमुहूर्तागते तु वै ॥८५॥
प्रातः स्मृतस्ततः कालो भागांश्चाहुश्च पञ्च च ।
तस्मात् प्रातर्गतात्कालान्मुहूर्ताः सङ्गवस्त्रयः ॥८६॥
मध्याह्नस्त्रिमुहूर्तस्तु तस्मात् कालादनन्तरम् ।
तस्मान्मध्यन्दिनात् कालाद्अपराह्ण इति स्मृतः ॥८७॥
त्रय एव मुहूर्तास्तु काल एषस्मृतो बुधैः ।
अपराह्णव्यतीताच्च कालः सायं स उच्यते ॥८८॥
दशपञ्च मुहूर्ताह्नो मुहूर्तास्त्रय एव च ।
दशपञ्च मुहूर्तं वै अहस्तु विषुवे स्मृतम् ॥८९॥
वर्धत्यतो ह्रसत्येव अयने दक्षिणोत्तरे ।
अहस्तु ग्रसते रात्रिं रात्रिस्तु ग्रसते अहः ॥९०॥
शरद्वसन्तयोर्मध्यं विषुवन्तु विधीयते ।
आलोकान्तः स्मृतो लोको लोकाश्चालोक उच्यते ॥९१॥
लोकपालाः स्थितास्तत्र लोकालोकस्य मध्यतः ।
चत्वारस्ते महात्मानस्तिष्ठन्त्याभूतसंप्लवम् ॥९२॥
सुधामा चैव वैराजः कर्दमश्च प्रजापतिः ।
हिरण्यरोमा पर्जन्यः केतुमान् राजसाश्च सः ॥९३॥
निर्द्वन्द्वा निरभीमाना निस्तन्द्रा निष्परिग्रहाः ।
लोकपालाः स्थितास्त्वेते लोकालोके चतुर्दिशम् ॥९४॥
उत्तरं यदगस्त्यस्य श्रृङ्गं देवर्षिसेवितम् ।
पितृयानः स्मृतः पन्था वैश्वानरपथाद्बहिः ॥९५॥
तत्रासते प्रजाकामा ऋषयो येऽग्निहोत्रिणः ।
लोकस्य सन्तानकराः पितृयाने पथिस्थिताः ॥९६॥
भूतारम्भकृतं कर्म्म आशिषश्चविशाम्पते ।
प्रारम्भन्ते लोककामास्तेषां पन्था सदक्षिणः ॥९७॥
चलितन्ते पुनर्धर्म स्थापयन्ति युगे युगे ।
सन्तप्ततपसा चैव मर्यादाभिः श्रुतेन च ॥९८॥
जायमानास्तु पूर्वे वै पश्चिमानां गृहेषु ते ।
पश्चिमाश्चैव पूर्वेषां जायन्ते निधनेष्विह ॥९९॥
एवमवर्तमानास्ते वर्तन्त्याभूतसंप्लवम् ।
अष्टाशीतिसहस्राणि ऋषीणां गृहमेधिनाम् ॥१००॥
सवितुर्दक्षिणं मार्गमाश्रित्याभूतसंप्लवम् ।
क्रियावतां प्रसंख्यैषा ये श्मशानानि भेजिरे ॥१०१॥
लोकसंव्यवहारार्थं भूतारम्भकृतेन च ।
इच्छाद्वेषरताच्चैव मैथुनोपगमाच्च वै ॥१०२॥
तथा कामकृतेनेह सेवनाद्विषयस्य च ।
इत्येतैः कारणैः सिद्धाः श्मशानानीह भेजिरे ॥१०३॥
प्रजैषिणः सप्तऋषयो द्वापरेष्विह जज्ञिरे ।
सन्ततिन्ते जुगुप्सन्ते तस्मान्मृत्युर्जितस्तु तैः ॥१०४॥
अष्टाशीतिसहस्राणि तेषामप्यूर्ध्वरेतसाम् ।
उदक् पन्थानपर्यन्तमाश्रित्याभूतसंप्लवम् ॥१०५॥
ते सम्प्रयोगाल्लोकस्य मिथुनस्य च वर्जनात् ।
ईर्ष्याद्वेषनिवृत्त्या च भूतारम्भविवर्जनात् ॥१०६॥
इत्येतैः कारणैः शुद्धैस्तेऽमृतत्वं हि भेजिरे ।
आभूतसंप्लवस्थानाममृतत्वं विभाव्यते ॥१०७॥
त्रैलोक्यस्थितिकालो हि न पुनर्मारगामिनाम् ।
भ्रूणहत्याश्वमेधादि पापपुण्यनिभैः परम् ॥
आभूतसंप्लवान्ते तु क्षीयन्ते चोर्ध्वरेतसः ॥१०८॥
ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्रानुसंस्थितः ।
एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥१०९॥
यत्र गत्वा न शोचन्ति तद्विष्णोः परमम्पदम् ।
धर्मे ध्रुवस्य तिष्ठन्ति ये तु लोमस्य काङ्क्षिणः ॥११०॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP