मत्स्यपुराणम् - अध्यायः ३२
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
ययाति चरित्रम् ।
शौनक उवाच ।
श्रुत्वा कुमारञ्जातं सा देवयानी शुचिस्मिता ।
चिन्तायाविष्टदुःखार्ता शर्मिष्ठां प्रत्यभाषत ॥१॥
ततोऽभिगम्य शर्मिष्ठां देवयान्ब्रवीदिदम् ।
किमर्थं वृजिनं सुभ्रु! कृतन्ते कामलुब्धया ॥२॥
शर्मिष्ठोवाच ।
ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः ।
समया तु वरः कामं याचितो धर्म्मसंहतम् ॥३॥
नाहमन्यायतः काममाचरामि शुचिस्मिते ।
तस्माद्रृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ॥४॥
देवयान्युवाच ।
यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम ।
अपत्यं यदि ते लब्धं ज्येष्ठा च्छ्रेष्ठाच्च वै द्विजात् ॥५॥
शोभनं भीरु! सत्यं चेत् कथं स ज्ञायते द्विजः ।
गोत्रनामाभिजनंतः श्रोतुमिच्छामि तं द्विजम् ॥६॥
शर्मिष्ठोवाच ।
ओजसा तेजसा चैव दीप्यमानं रविं यथा ।
तं द्रृष्ट्वा मम संप्रष्टु शक्तिर्नासीच्छुचिस्मृते ॥७॥
शौनक उवाच ।
अन्योन्यमेवमुक्त्वा च संप्रहस्य च ते मिथः ।
जगाम भार्गवी वेश्म तथ्यमित्यभिजानती ॥८॥
ययातिर्देवयान्यासु पुत्रावजनयन् नृपः ।
यदुञ्च तुर्वसुञ्चैव शक्रविष्णू इवापरौ ॥९॥
तस्मादेव तु राजर्षेः शर्मिष्ठावार्षपर्वणी ।
द्रुह्यां चानुञ्च पूरुञ्च त्रीन् कुमारानजीजनत् ॥१०॥
ततः काले च कस्मिंश्चित् देवयानी शुचिस्मिता ।
ययाति सहिता राजन्! जगाम हरितं वनम् ॥११॥
ददर्श च तदा तत्र कुमारान्देवरूपिणः ।
क्रीडमानान् सुविश्रब्धान् विस्मिता चेदमब्रवीत् ॥१२॥
कस्यैते दारका राजन्! देवपुत्रोपमाः शुभाः ।
वर्चसा रूपतश्चैव द्रृश्यन्ते सद्रृशास्तव ॥१३॥
एवं पृष्ट्वा तु राजानं कुमारान् पर्यपृच्छत ।
किं नामधेय गोत्रे वः पुत्रका ब्राह्मणः पिता ॥१४॥
बिब्रूत मे यथातथ्यं श्रोतुकामास्म्यतो ह्यहम् ।
ते दर्शयन् प्रदेशिन्या तमेव नृपसत्तमम् ॥१५॥
शर्मिष्ठां मातरञ्चैव तस्या ऊचुः कुमारकाः ।
इत्युक्ताः सहितास्तेन राजानमुपचक्रमु ॥१६॥
नाभ्यनन्दत तान् राजा देवयान्यास्तदान्तिके ।
रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्वालकास्तदा ॥१७॥
द्रृष्ट्वा तेषान्तु बालानां प्रणयं पार्थिवं प्रति ।
बुध्वा च तत्वतो देवी शर्मिष्ठामिदमब्रवीत् ॥१८॥
मदधीना सती कस्मादकार्षी र्विप्रियं मम ।
तमेवासुरधर्मत्वमास्थिता न बिभेषि किम् ॥१९॥
शर्मिष्ठोवाच ।
यदुक्तमृषिरित्येव तत् सत्यञ्चारुहासिनि! ।
न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥२०॥
यदा त्वया वृता राजो वृत एव तदा मया ।
सखिभर्ता हि धर्मेण भर्ता भवति शोभने! ॥२१॥
पूज्यासि मम मान्या च श्रेष्ठा ज्येष्ठा च ब्राह्मणी ।
त्वत्तो हि मे पूज्यतरो राजर्षिः किन्न वेत्सि तत् ॥२२॥
शौनक उवाच ।
श्रुत्वा तस्या स्ततो वाक्यं देवयान्यब्रवीदिदम् ।
राजन्नाद्येह वत्स्यामि विप्रियं मे त्वया कृतम् ॥२३॥
सहसोत्पतितां श्यामां द्रृष्ट्वा तां साश्रुलोचनाम् ।
तूर्णां सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥२४॥
अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन् नृपः ।
न्यवर्तत न सा चैव क्रोधसंरक्तलोचना ॥२५॥
अपि ब्रुवन्ती किञ्चिच्च राजानं साश्रुलोचना ।
अचिरादेव संप्राप्तः काव्यस्योशनशोऽन्तिकम् ॥२६॥
सातु द्रृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता ।
अनन्तरं ययातिस्तु पूजयामास भार्गवम् ॥२७॥
देवयान्युवाच ।
अधर्मेण जितोधर्मः प्रवृत्तमधरोत्तरम् ।
शर्मिष्ठा याति वृत्तास्ति दुहिता वृषपर्वणः ॥२८॥
त्रयोऽस्याञ्जनिताः पुत्रा राज्ञानेन ययातिना ।
दुर्भगाया मम द्वौ तु पुत्रौ तात!ब्रवीमि ते ॥२९॥
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह! ।
अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥३०॥
शुक्र उवाच ।
धर्मज्ञस्त्वं महाराज! योऽधर्ममकृथाः प्रियम् ।
तस्माज्जरात्वामचिराद् दूषयिष्यति दुर्जया ॥३१॥
ययातिरुवाच ।
ऋतुं यो याच्यमानाया न ददाति पुमान् वृतः
भ्रूणहेत्युच्यते ब्रह्मन्!स चेह ब्रह्मवादिभिः ॥३२॥
ऋतुकामां स्त्रियं यस्तु गम्यां रहसि याचितः ।
नयाति योहि धर्मेण ब्रह्महेत्युच्यते बुधैः ॥३३॥
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह!
अधर्म्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् ॥३४॥
शुक्र उवाच ।
न त्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव! ।
मिथ्याचरणधर्मेषु चौर्यं भवति नाहुष ॥३५॥
शौनक उवाच ।
क्रोधेनोशनसा शप्तो ययाति नाहुषस्तथा ।
पूर्वं वयः परित्यज्य जरां सद्योन्वपद्यत ॥३६॥
ययारिरुवाच ।
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह! ।
प्रसादं कुरु मे ब्रह्मन्! जरेयं माविशेत माम् ॥३७॥
शुक्र उवाच ।
नाहं मृषा वदाम्येतज्जरां प्राप्तोऽसि भूमिप!
जरान्त्वेतां त्वमन्यस्मिन् संक्रमाय यदीच्छसि ॥३८॥
ययातिरुवाच ।
राज्यभाक् स भवेद् ब्रह्मन्! पुण्यभाक् कीर्तिभाक् तथा ।
यो दद्यान् मे वयः शुक्र तद् भवाननुमन्यताम् ॥३९॥
शुक्र उवाच ।
संक्रामयिष्यसि जरां यथेष्टं नहुषात्मजः ।
मामनुध्याय तत्वेन न च पापमवाप्स्यसि ॥४०॥
वयो दास्यति ते पुत्रो यः सराजाभिविष्यति ।
आयुष्मान् कीर्तिमांश्चैव बह्वपत्यस्तथैव च ॥४१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP