मत्स्यपुराणम् - अध्यायः २२०
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
राजधर्मवर्णनम् ।
मत्स्य उवाच ।
राजन्! पुत्रस्य रक्षा च कर्तव्या पृथिवीक्षिता ।
आचार्यश्चात्र कर्तव्यो नित्ययुक्तश्च रक्षिभिः ॥१॥
धर्मकामार्थशास्त्राणि धनुर्वेदञ्च शिक्षयेत् ।
रथे च कुञ्चरे चैनं व्यायामङ्कारयेत्सदा ॥२॥
शिल्पानि शिक्षयेच्चैनं नाप्तो मिथ्या प्रियं वदेत् ।
शरीररक्षाव्याजेन रक्षिणोऽस्य नियोजयेत् ॥३॥
न चास्य सङ्गो जातव्यः क्रुद्धलुब्धावमानितैः ।
तथा च विनयेदेनं यथा यौवनगोचरै ॥४॥
इन्द्रियैर्नापकृष्येत सतां मार्गात्सुदुर्गमात् ।
गुणाधानमशक्यन्तु यस्य कर्तुं स्वभावयः ॥५॥
बन्धनं तस्य कर्तव्यं गुप्तदेशे सुखान्वितम् ।
अविनीतकुमारं हि कुलमाशु विशीर्यते ॥६॥
अधिकारेषु सर्वेषु विनीतं विनियोजयेत् ।
आदौ स्वल्पे ततः पश्चात्क्रमेणाथ महात्स्वपि ॥७॥
मृगया पानमक्षांश्च वर्जयेत् पृथिवीपतिः ।
एतान्ये सेवमानास्तु विनष्टाः पृथिवीक्षितः ॥८॥
बहवो नरशार्दूल! तेषां सङ्ख्या न विद्यते ।
दिवा स्वापं क्षितीशस्तु विशेषेण विवर्जयेत् ॥९॥
वाक्यारुष्यं न कर्तव्यं दण्डपारुष्यमेव च ।
परोक्षनिन्दा च तथा वर्जनीया महीक्षिता ॥१०॥
अर्थस्य दूषणं राजा द्विप्रकारं विवर्जयेत् ।
अर्थानां दूषणञ्चैकं तथार्थेषु च दूषणम् ॥११॥
प्राकाराणां समुच्छेदो दुर्गादीनामसत्क्रिया ।
अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ॥१२॥
अदेशकाले यद्दानमपात्रे दानमेव च ।
अर्थेषु दूषणं प्रोक्तमसत्कर्म प्रवर्तनम् ॥१३॥
कामः क्रोधो मदो मानो लोभो हर्षस्तथैव च ।
एते वर्ज्याः प्रयत्नेन सादरं पृथिवीक्षिता ॥१४॥
एतेषां विजयं कृत्वा कार्यो भृत्य-जयस्ततः ।
कृत्वा भृत्यजयं राजा पौरान् जानपदान् जयेत् ॥१५॥
कृत्वा च विजयन्तेषां शत्रून् बाह्यांस्ततो जयेत् ।
बाह्याश्च विविधा ज्ञेयास्तुल्याभ्यन्तरकृत्रिमाः ॥१६॥
गुरवस्ते यथा पूर्वं तेषु यत्नपरो भवेत् ।
पितृपैतामहं मित्रममित्रञ्च तथा रिपोः ॥१७॥
कृत्रिमञ्च महाभाग! मित्रं त्रिविधमुच्यते ।
तथापि च गुरुः पूर्वं भवेत्तत्रापि चादृतः ॥१८॥
स्वाम्यमात्यो जनपदो दुर्गं दण्डस्तथैव च ।
कोशो मित्रञ्च धर्मज्ञ! सप्ताङ्गं राज्यमुच्यते ॥१९॥
सप्ताङ्गस्यापि राज्यस्य मूलं स्वामी प्रकीर्तितः ।
तन्मूलत्वात्तथाङ्गानां स तुरक्ष्यः प्रयत्नतः ॥२०॥
षडङ्गरक्षा कर्तव्या तथा तेन प्रयत्नतः ।
अङ्गेभ्यो यस्तथैकस्तु द्रोहमाचरतेऽल्पधीः ॥२१॥
बन्धस्तस्य तु कर्तव्यः शीघ्रमेव महीक्षिता ।
न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते ॥२२॥
न भाव्यं दारुणेनापि तीक्ष्णादुद्विजते जनः ।
काले भृदुर्यो भवति काले भवति दारुणः ॥२३॥
राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत् ।
भृत्यैः सह महीपालः परिहासं विवर्जयेत् ॥२४॥
भृत्याः परिभवन्तीह नृपं हर्षवशङ्गतम् ।
व्यसनानि च सर्वाणि भूपतिः परिवर्जयेत् ॥२५॥
लोकसंग्रहणार्थाय कृतकव्यसनी भवेत् ।
शौण्डीरस्य नरेन्द्रस्य नित्यमुद्रिक्तचेतसः ॥२६॥
जना विरागमायान्ति सदा दुःसेव्यभावतः ।
स्मितपूर्वाभिभाषीस्यात् सर्वस्यैव महीपतिः ॥२७॥
बध्येष्वपि महाभाग! भ्रुकुटिं न समाचरेत् ।
भाव्यं धर्मभृतां श्रेष्ठ! स्थूल्लक्ष्येण भूभुजा ॥२८॥
स्थूललक्ष्यस्य वशगा सर्वा भवति मेदिनी ।
अदीर्घसूत्रश्च भवेत् सर्वकर्मसु पार्थिवः ॥२९॥
दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवम्भवेत् ।
रागे दर्पे च माने च द्रोहे पापे च कर्मणि ॥३०॥
अप्रिये चैव कर्तव्ये दीर्घसूत्रः प्रशस्यते ।
राज्ञा संवृतमन्त्रेण सदा भाव्यं नृपोत्तम! ॥३१॥
तस्यासंवृतमन्त्रस्य राज्ञः सर्वापदो ध्रुवम् ।
कृतान्येव तु कार्याणि ज्ञायन्ते यस्य भूपतेः ॥३२॥
नारब्धानि महाभाग! तस्य स्याद्वसुधावशे ।
मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रः सुरक्षितः ॥३३॥
कर्तव्यः पृथिवीपालैर्मन्त्रभेद भयात् सदा ।
मन्त्रवित्साधितो मन्त्रः सम्पत्तीनां सुखावहः ॥३४॥
मन्त्रच्छलेन बहवो विनष्टाः पृथिवीक्षितः ।
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ॥३५॥
नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ।
न यस्य कुशलैस्तस्य वशे सर्वा वसुन्धरा ॥३६॥
भवतीह महीपाले सदा पार्थिवनन्दन! ।
नैकस्तु मन्त्रयेन्मन्त्रं राजा न बहुभिः सह ॥३७॥
नारोहेद्विषमां नावमपरीक्षितनाविकम् ।
ये चास्य भूमिजयिनो भवेयुः परिपन्थिनः ॥३८॥
तानानयेद्वशे सर्वान् सामादिभिरुपक्रमैः ।
यथा न स्यात् कृशीभावः प्रजानामनवेक्षया ॥३९॥
तथा राज्ञा प्रकर्तव्यं स्वराष्ट्रं परिरक्षता ।
मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया ॥४०॥
सोऽचिराद् भ्रश्यते राज्याज्जीविताच्च सबान्धवः ।
भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् ॥४१॥
तथा राष्ट्रं महाभाग! भृतं कर्मसहम्भवेत् ।
यो राष्ट्रमनुघृह्णाति राज्यं स परिरक्षति ॥४२॥
सञ्जातमुपजीवेत्तु विन्दते स महत्फलम् ।
गृह्याद्धिरण्यं धान्यञ्च महीं राजासु रक्षिताम् ॥४३॥
महता तु प्रयत्नेन स्वाराष्ट्रस्य च रक्षिता ।
नित्यं स्वेभ्यः परेभ्यश्च यथा माता यथा पिता ॥४४॥
गोपितानि सदा कुर्यात् संयतानीन्द्रियाणि च ।
अजस्रमुपयोक्तव्यं फलन्तेभ्यस्तथैव च ॥४५॥
सर्वं कर्मेदमायत्तं विधाने दैवमानुषे ।
तयोर्देवमचिन्त्यञ्च पौरुषे विद्यते क्रिया ॥४६॥
एवं महीं पालयतोऽस्य भर्तुर्लोकानुरागः परमो भवेत्तु ।
लोकानुरागप्रभवा च लक्ष्मीर्लक्ष्मीवतश्चापि परा च लक्ष्मीः ॥४७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP