मत्स्यपुराणम् - अध्यायः ३८
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
ययात्यष्टकसम्वादवर्णनम् ।
ययातिरुवाच ।
अहं ययातिर्नहुषस्य पुत्रः पूरो पिता सर्वभूतावमानात् ।
प्रभ्रंशितोऽहं सुरसिद्धलोकात् परिच्युतः प्रपताम्यल्पपुण्यः ॥१॥
अहं हि पूर्वो वयसा भवद्भ्य स्तेनाभिवादं भवतां प्रयुञ्जे ।
यो विद्यया तपसा जन्मना वा वृद्धः स वै सम्भवति द्विजानाम् ॥२॥
अष्टक उवाच ।
अवदीस्त्वं वयसास्मि वृद्ध इति वै राजन्नधिकः कथञ्चित् ।
यो वै विद्वांस्तपसा च वृद्धः स एव पूज्यो भवति द्विजानाम् ॥३॥
ययातिरुवाच ।
प्रतिकूलं कर्म्मणां पापमाहुस्तद्वर्तिनां प्रवणं पापलोकम् ।
सन्तो सतो नानुवर्तन्त ते वै यदात्मनैषां प्रतिकूलवादी ॥४॥
अभूद्धनं मे विपुलं महद्वै विचेष्टमानोऽधिगन्ता तदस्मि ।
एवं प्रधार्य्यात्महिते निविष्टो यो वर्तते सविजानाति धीरः ॥५॥
नानाभावा बहवो जीवलोके दैवाधीना नष्टचेष्टाधिकाराः ।
तत्तत् प्राप्य न विहन्येन धीरो दिष्टं बलीय इति मत्वात्मबुध्या ॥६॥
सुखं हि जन्तुर्यदिवापि दुःखं दैवाधीनं विन्दन्ति नात्मशक्त्या ।
तस्मादिष्टं बलवन्मन्यमानो न संज्वरेन्नापि हृष्येत् कदाचित् ॥७॥
भवेन मुह्याम्यष्टकाहं कदाचित् सन्तापो मे मानसो नास्ति कश्चित्
धाता यथा मां विदधाति लोके ध्रुवं तथाहं भवितेति मत्वा ॥८॥
संस्वेदजा ह्यण्डजा ह्युद्भिदश्च सरीसृपाः कृमयोऽप्यप्सु मत्स्याः ।
तथाश्मानस्तृणकाष्ठञ्च सर्वं दिष्टक्षये स्वां प्रकृतिं भजन्ते ॥९॥
अनित्यतां सुखदुःखस्य बुध्वा कस्मात्सन्तापमष्टकाहं भजेयम् ।
किं कुर्य्यां वै किञ्च कृत्वा न तप्ये तस्मात्सन्तापं वर्जयाम्यप्रमत्तः ॥१०॥
शौनक उवाच ।
एवं ब्रुवाणं नृपतिं ययातिमथाष्टकः पुनरेवान्वपृच्छत् ।
मातामहं सर्वगुणोपपन्नं यत्र स्थितं स्वर्गलोके यथावत् ॥११॥
अष्टक उवाच ।
ये ये लोकाः पार्थिवेन्द्रप्रधाना स्त्वया भुक्ता यञ्च कालं यथा च ।
तन्मे राजन् ब्रूहि सर्वं यथावत् क्षेत्रज्ञवद् भाषसे त्वं हि धर्मम् ॥१२॥
ययातिरुवाच ।
राजाहमासन्त्विह सार्वभौमस्ततो लोकान् महतश्चार्जयं वै ।
तत्राव संवर्षसहस्रमात्रं ततो लोकान् परमानभ्युपेतः ॥१३॥
ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनान्ताम् ।
अध्यावसं वर्षसहस्रमात्रं ततो लोकान् परमानभ्युपेतः ॥१४॥
ततो दिव्यमजरं प्राप्यलोकं प्रजापतेर्लोकपतेर्दुरापम् ।
तत्रावसं वर्षसहस्रमात्रं ततो लोकान् परमानभ्युपेतः ॥१५॥
देवस्य देवस्य निवेशने च विजित्य लोकान् न्यवसं यथेष्टम् ।
संपूज्यमानस्त्रिदशैः समस्तै स्तुल्य प्रभावद्युतिरीश्वराणाम् ॥१६॥
तथा वसन्नन्दनकामरूपी संवत्सराणामयुतं शतानाम् ।
सहाप्सरोभिर्विचरन् पुण्यगन्धान् पश्यन्नगान् पुष्पितांश्चारुरूपान् ॥१७॥
तत्र स्थितं मां देवसुखेषु सक्तं कालेऽतीते महति ततोऽतिमात्रम् ।
दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥१८॥
एतावन्मे विदितं राजसिंह ततो भ्रष्टोऽहं नन्दनात् क्षीणपुण्यः ।
वाचोऽश्रौषञ्चान्तरिक्षे सुराणामनुक्रोशाच्छोचतां मां नरेन्द्र ॥१९॥
अकस्माद्वै क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत् पुण्यकीर्त्तिः ।
तानब्रुवं पतमानस्तदाहं सतां मध्ये निपतेयं कथन्नु ॥२०॥
तैराख्यातां भवतां यज्ञभूमिं समीक्ष्य चैनामहमागतोऽस्मि ।
हविर्गन्धैर्दर्शितां यज्ञभूमिं धूमापाङ्गं परिगृह्य प्रतीताम् ॥२१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP