मत्स्यपुराणम् - अध्यायः १५१
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
तारकासुरोपाख्याने देवासुरयुद्धे ग्रसनवधवर्णनम् ।
सूत उवाच ।
तं दृष्ट्वा दानवाः क्रुद्दाश्चेरुः स्वैस्वैः बलैर्वृताः ।
सरघा इव माक्षीकहरणे सर्वतो दिशम् ॥१॥
कृष्णचामरजालाढ्ये सुधा विरचिताङ्कुरे ।
चित्रपञ्चपताके तु प्रभिन्न करटामुखे ॥२॥
पर्वताभे गजे भीमे मदस्राविणि दुर्द्धरे ।
आरुह्याजौ निमिर्दैत्यो हरिं प्रत्युद्ययौ बली ॥३॥
तस्यासन् दानवा रौद्रा गजस्य पदरक्षिणः ।
सप्तविंशतिसाहस्राः किरीटकवचोज्वलाः ॥४॥
अश्वारूढ़श्च मथनो जम्भकश्चोष्ट्रवाहनः ।
शुम्भोऽपि विपुलं मेषं समारुह्याव्रजद्रणम् ॥५॥
अपरे दानवेन्द्रास्तु मत्ता नानास्त्रपाणयः ।
आजघ्नुः समरे क्रुद्धा विष्णुमक्लिष्टकारिणम् ॥६॥
परिधेण निमिर्दैत्यो मथनो मुद्गरेण तु ।
शुम्भः शूलेन तीक्ष्णेन प्रासेन ग्रसनस्तथा ॥७॥
चक्रेण महिषः क्रुद्धो जम्भः शक्त्या महारणे ।
जघ्नुर्नारायणं सर्वे शेषास्तीक्ष्णैश्च मार्गणैः ॥८॥
तान्यस्त्रापि प्रयुक्तानि शरीरं विविशुर्हरेः ।
गुरूक्तानुपदिष्टान्वै सच्छिष्यस्य श्रुतानिव ॥९॥
असम्भ्रान्तो रणे विष्णुरथ जग्राह कार्मुकम् ।
शरांश्चाशी विषाकारान् तैलधौतानजिह्मगान् ॥१०॥
ततोऽभिसन्ध्य दैत्यांस्तानाकर्णाकृष्टकार्मुकः ।
अभ्यद्रवद्रणे क्रुद्धो दैत्यानीके तु पौरुषान् ॥११॥
निमिं विव्याध विंशत्या बाणानामग्निवर्चसाम् ।
मथनं दशभिर्बाणैः शुभ्रं पञ्चभिरेव च ॥१२॥
एकेन महिषं क्रुद्धो विव्याधोरसि पत्रिणा ।
जम्भं द्वादशभिस्तीक्ष्णैः सर्वांश्चैकैकशोऽष्टभिः ॥१३॥
तस्य तल्लाघवं दृष्ट्वा दानवाः क्रोधमूर्च्छिताः ।
नर्दमानाः प्रयत्नेन चक्रुरत्यद्भुतं रणम् ॥१४॥
चिच्छेदाथ धनुर्विष्णोर्निमिर्भल्लेन दानवः ।
सन्ध्यमानं शरं हस्ते चिच्छेद महिषासुरः ॥१५॥
पीड़यामास गरुड़ं जम्भस्तीक्ष्णैस्तु सायकैः ।
भुजं तस्याहनद्गाढ़ं शुम्भो भूधरसन्निभः ॥१६॥
छिन्ने धनुषि गोविन्दो गदां जग्राह भीषणाम् ।
तां प्राहिणोत् स वेगेन मथनाय महाहवे ॥१७॥
तामप्राप्तां निमिर्बाणैश्चिच्छेद तिलशो रणे ।
तां नाशमागतां दृष्ट्वा हीनाग्रे प्रार्थनामिव ॥१८॥
जग्राह मुद्गरं घोरं दिव्यरत्नपरिष्कृतम् ।
तं मुमोचाथ वेगेन निमिमुद्दिश्य दानवम् ॥१९॥
तमायान्तं वियत्येव त्रयो दैत्या न्यवारयन् ।
गदया जम्भदैत्यस्तु ग्रसनः पट्टिशेन तु ॥२०॥
शक्त्या च महिषो दैत्यः स्वपक्ष जयकाङ्क्षया ।
निराकृतं तमालेक्य दुर्जने प्रणयं यथा ॥२१॥
जग्राह शक्तिमुग्राग्रामष्टघण्टोत्कटस्वनाम् ।
जम्भाय तां समुद्दिश्य प्राहिणोद्रणभीषणः ॥२२॥
तामम्बरस्थां जग्राह गजो दानवनन्दनः ।
गृहीतां तां समालेक्य शिक्षामिव विवेकिभिः ॥२३॥
दृढं भारसहं सारमन्यदादाय कार्मुकम् ।
रौद्रास्तमभिसन्धाय तस्मिन् बाणं मुमोच ह ॥२४॥
ततोऽस्त्रतेजसा सर्वं व्याप्तं लोकं चराचरम् ।
ततो बाणमयं सर्वमाकाशं समदृश्यत ॥२५॥
भूर्दिशो विदिशश्चैव बाणजालमया बभुः ।
दृष्ट्वा तदस्त्रमाहात्म्यं सेनानीर्गसनोऽसुरः ॥२६॥
ब्राह्ममस्त्रञ्चचारासौ सर्वास्त्रं विनिवारणम् ।
तेन तत्प्रशमं यातं रौद्रास्त्रं लोकघस्मरम् ॥२७॥
अस्त्रे प्रतिहते तस्मिन् विष्णुर्दानवसूदनः ।
कालदण्डास्त्रमकरोत् सर्वलोकभयङ्करम् ॥२८॥
सन्धीयमाने तस्मिंस्तु मारुतः परुषो ववौ । ।
चकम्पे च मही देवी दैत्या भिन्नधियोऽभवन् ॥२९॥
तदस्त्रमुग्रं दृष्ट्वा तु दानवा युद्धदुर्मदाः ।
चक्रुरस्त्राणि दिव्यानि नानारूपाणि संयुगे ॥३०॥
नारायणास्त्रं ग्रसनो गृहीत्वा चक्रं निमिः स्वास्त्रवरं मुमोच ।
एकैकमस्त्रञ्च चकार जम्भस्तत्कालदण्डास्त्र निवारणाय ॥३१॥
यावन्न सन्धानदशां प्रयान्ति दैत्येश्वराश्चास्त्रनिवारणाय ।
तावत् क्षणेनैव जघान कोटीर्दैत्येश्वराणां सगजान् सहाश्वान् ॥३२॥
अनन्तरं शान्तमभूत्तदस्त्रं दैत्यास्त्रयोगेन तु कालदण्डम् ।
शान्तं तदालोक्य हरिः स्वशस्त्रं स्वविक्रमे मन्युपरीतमूर्तिः ॥३३॥
जग्राह चक्रं तपनायुताभमुग्रारमात्मानमिव द्वितीयम् ।
चिक्षेप सेनापतयेऽभिसन्ध्य कण्ठस्थलं वज्रकठोरमुग्रम् ॥३४॥
चक्रं तदाकाशगतं विलोक्य सर्वात्मना दैत्यवराः स्ववीर्य्यैः ।
नाशक्नुवन् वारयितुं प्रचण्डं दैवं यथा कर्म्म मुधा प्रपन्नम् ॥३५॥
तमप्रतर्क्यं जनयन्नजय्यं चक्रं पपात ग्रसनस्य कण्ठे ।
द्विधा तु कृत्वा ग्रसनस्य कण्ठं तद्रक्तधारारुणघोरनाभिः ।
जगाम भूयोऽपि जनार्दनस्य पाणिं प्रवृद्धानलतुल्यदीप्तिः ॥३६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP