संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ७

मत्स्यपुराणम् - अध्यायः ७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


मरुद्‌गणोत्पत्तिकथने मदनद्वादशीव्रतकथनम् ।

ऋषय ऊचुः ।
दितेः पुत्राः कथं जाता मरुतो देववल्लभाः ।
देवैर्जग्मुश्च सापत्नैः कस्मात्ते सख्यमुत्तमम् ॥१॥

सूत उवाच ।
पुरा देवासुरे युद्धे हतेषु हरिणासुरैः ।
पुत्रा पौत्रेषु शोकार्त्ता गत्वा भूलोकमुत्तमम् ॥२॥

स्यमन्तपञ्चके क्षेत्रे सरस्वत्यास्तटे शुभे ।
भर्तुराराधनपरा तप उग्रं चचार ह ॥३॥

तदादितिर्दैत्यमाता ऋषिरूपेण सुव्रत! ।
फलाहारा तपस्तेपे कृच्छ्रं चान्द्रायणादिकम् ॥४॥

यावद्वर्षशतं साग्रं जाता शोकसमाकुला ।
ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत ॥५॥

कथयन्तु भवन्तो मे पुत्रशोकविनाशनम् ।
व्रतं सौभाग्यफलदमिह लोके परत्र च ॥६॥

ऊचु र्वसिष्ठप्रमुखा मदनद्वादशीव्रतम् ।
यस्याः प्रभावादभवत् सुतशोक विवर्जिताः ॥७॥

श्रोतुमिच्छामहे सूत! मदनद्वादशी व्रतम् ।
सुतानेकोनपञ्चाशद्येन लेभे दितिः पुनः ॥८॥

यद्वसिष्ठादिभिः पूर्वन्दितेः कथितमुत्तमम् ।
विस्तरेण तदेवेदं मत्सकाशान्निबोधत ॥९॥

चैत्रमासि सिते पक्षे द्वादश्यां नियतव्रतः ।
स्थापयेदव्रणं कुम्भं सित तण्डुल पूरितम् ॥१०॥

नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम् ।
सितवस्त्रयुगच्छन्नं सितचन्दन चर्चितम् ॥११॥

नानाभक्ष्यसमोपेतं सहिरण्यन्तु शक्तितः ।
ताम्रपात्रं गुड़ोपेतं तस्योपरि निवेशयेत् ॥१२॥

तस्मादुपरि कामन्तु कदलीदलसंस्थितम् ।
कुर्य्याद् भार्याद्वयोपेतं रतिं तस्य च वामतः ॥१३॥

गन्धं धूपं ततो दद्याद् गीतं वाद्यञ्च कारयेत् ।
तदभावे कथां कुर्य्यात् कामकेशवयोर्नरः ॥१४॥

कामनाम्नो हरेरर्चां स्नापयेद्‌ गन्धवारिणा ।
शुक्लपुष्पाक्षततिलैरर्चयेन्‌ मधुसूदनम् ॥१५॥

कामाय पादौ संपूज्य जङ्घे सौभाग्यदाय च ।
ऊरुस्मरायेति पुनर्मन्मथायेति वै कटिम् ॥१६॥

स्वच्छोदरायेत्युदरमनङ्गायेत्त्युरो हरेः ।
मुखं पद्ममुखायेति बाहू पञ्चशराय वै ॥१७॥

नमः सर्व्वात्मने मौलिमर्चयेदिति केशवम् ।
ततः प्रभाते तं कुम्भं ब्राह्मणाय निवेदयेत् ॥१८॥

ब्राह्मणान् भोजयेद् भक्त्या स्वयञ्चलवणादृते ।
भुक्त्वा तु दक्षिणां दद्यादिमं मन्त्रमुदीरयेत् ॥१९॥

अनेन विधिना सर्वं मासि मासि व्रतं चरेत् ।
उपवासी त्रयोदश्यामर्चयेद्विष्णुमव्ययम् ॥२०॥

फलमेकञ्च संप्राश्य द्वादश्यां भूतले स्वपेत् ।
ततस्त्रयोदशे मासि घृत धेनु समन्विताम् ॥२१॥

शय्यां दद्यादनङ्गाय सर्वापस्करसंयुताम् ।
काञ्चनं कामदेवञ्च शुक्लां गाञ्च पयस्विनीम् ॥२२॥

घासोभिर्द्विजदाम्पत्यं पूज्यं शक्त्या विभूषणैः ।
शय्या गन्धादिकं दद्यात्‌ प्रीयतामित्युदीरयेत् ॥२३॥

होमः शुक्लतिलैः कार्य्यः कामनामानि कीर्त्तयेत् ।
गव्येन हविषा तद्वत् पायसेन च धर्म्मवित् ॥२४॥

विप्रेभ्यो भोजनं दद्याद्वित्तशाठ्यं विवर्जयेत् ।
इक्षुदण्डानथो दद्यात् पुष्पमालाश्च शक्तितः ॥२५॥

यः कुर्याद्विधिनानेन मदनद्वादशीमिमाम् ।
स सर्वपापनिर्मुक्तः प्राप्नोति हरिसाम्यताम् ॥२६॥

इह लोके वरान् पुत्रान् सौभाग्यफलमश्नुते ।
यः स्मरः संस्मृतो विष्णुरानन्दात्मा महेश्वरः ॥२७॥

सुखार्थी कामरूपेण स्मरेदङ्गजमीश्वरम् ।
एतच्छ्रुत्वा चकारासौ दितिः सर्वमशेषतः ॥२८॥

कश्यपो व्रतमाहात्म्यादगत्य परया मुदा ।
चकार कर्कशां भूयो रूपयौवनशालिनीम् ॥२९॥

वरैराच्छन्दयामास सातु वव्रे ततो वरम् ।
पुत्रं शक्रवधार्थाय समर्थममितौजसम् ॥३०॥

वरयामि महात्मानं सर्वामरनिषूदनम् ।
उवाच कश्यपो वाक्यमिन्द्रहन्तारमूर्जितम् ॥३१॥

प्रदास्याम्यहमेवेह किं त्वेतत्‌ क्रियतां शुभे ।
आपस्तम्बः करोत्विष्टिं पुत्रीयामद्य सुव्रते ॥३२॥

विधास्यामि ततो गर्भमिन्द्रशत्रुनिषूदनम् ।
आपस्तम्बस्ततश्चक्र पुत्रेष्टिन्द्रविणाधिकाम् ॥३३॥

इन्द्रशत्रुर्भवस्वेति जुहाव च सविस्तरम् ।
देवा मुमुदिरे दैत्या विमुखा स्युश्च दानवाः ॥३४॥

दित्यां गर्भमथाधत्त कश्यपः प्राहतां पुनः ।
त्वया यत्नो विधातव्यो ह्यस्मिन्‌ गर्भे वरानने ॥३५॥

सम्वत्सरशतं त्वेकमस्मिन्नेव तपोवने ।
सन्ध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि! ॥३६॥

न स्थातव्यं न गन्तव्यं वृक्षमूलेषु सर्वदा ।
नोपस्करेषूपविशेन्मुसलोलूखलादिषु ॥३७॥

जले च नावगाहेत शून्यागारञ्च वर्जयेत् ।
वल्मीकायां न तिष्ठेत नचोद्विग्नमना भवेत् ॥३८॥

विलिखेन्न नखैर्भूमिन्नाङ्गारेण न भस्मना ।
न शयालुः सदा तिष्ठेद् व्यायामञ्च विवर्जयेत् ॥३९॥

न तुषांगारभस्मास्थिकपालिषु समाविशेत् ।
वर्जयेत्कलहं लोकैर्गात्रभंगं तथैव च ॥४०॥

न मुक्तकेशा तिष्ठेत नारुचिः स्यात् कदाचन ।
न सयीतोत्तरशिरा नचापरशिराः क्वचित् ॥४१॥

न वस्त्रहीना नोद्विग्ना नचार्द्रावरणा सती ।
नामंगल्यां वदेद्वाचं न च हास्याधिका भवेत् ॥४२॥

कुर्य्यात्तु गुरुशुश्रूषां नित्यं मांगल्य तत्परा ।
सर्व्यौषधीभिः कोणेन वारिणा स्नानमाचरेत् ॥४३॥

कृतरक्षा सुभूषा च वास्तु पूजन तत्परा ।
तिष्ठेत् प्रसन्नवदना भर्तुः प्रियहिते रता ॥४४॥

दानशीला तृतीयायां पार्वण्यं नक्तमाचरेत् ।
इति वृत्ताभवेन्नारी विशेषेणतु गर्भिणी ॥४५॥

यस्तुतस्या भवेत् पुत्रः शीलायुर्वृद्धिसंयुतः ।
अन्यथा गर्भपतनमवाप्नोति न संशयः ॥४६॥

तस्मात्‌ त्वमनयावृत्त्या गर्भेऽस्मिन्‌ यत्नमाचर ।
स्वस्त्यस्तु ते गमिष्यामि तथेत्युक्तस्तया पुनः ॥४७॥

पश्यतां सर्वभूतानां तत्रैवान्तरधीयत ।
ततः सा कश्यपोक्तेन विधिना समतिष्ठत ॥४८॥

अथ भीतस्तथेन्द्रोऽपि दितेः पार्श्वमुपागमत् ।
विहायदेवसदनं तच्छुश्रूषुरवस्थितः ॥४९॥

दितेश्छिद्रान्तरप्रेप्सुरभवत् पाकशासनः ।
विनीतोऽभवदव्यग्रः प्रशान्तवदनो बहिः ॥५०॥

अजानन् किल तत्‌ कार्य्यमात्मनः शुभमाचरन् ।
ततो वर्षशतान्ते सा न्यूनेतु दिवसैस्त्रिभिः ॥५१॥

मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसा ।
अकृत्वा पादयोः शौचं प्रसुप्ता मुक्तमूर्धजा ॥५२॥

निद्राभरसमाक्रान्ता दिवापरशिराः क्वचित् ।
ततस्तदन्तरं लब्ध्वा प्रविष्टस्तु शचीपतिः ॥५३॥

वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपः ।
ततः सप्तैव ते जाताः कुमाराः सूर्य्यवर्चसः ॥५४॥

रुदन्तः सप्तवेताला निषिद्धा गिरिदारिणा ।
भूयोऽपि रुदतश्चैतानेकैकं सप्तधा हरिः ॥५५॥

चिच्छेद वृत्रहन्ता वै पुनस्तदुदरे स्थितः ।
एवमेकोनपञ्चाशद् भूत्वा ते रुरुदुर्भृशम् ॥५६॥

इन्द्रो निवारयामास मा रोदीष्ट पुनः पुनः ।
ततः सचिन्तयामास किमेतदितिवृत्रहा ॥५७॥

धर्म्मस्य कस्य माहात्म्यात् पुनः सञ्जीवितास्त्वमी ।
विदित्वा ध्यानयोगेन मदन द्वादशी फलम् ॥५८॥

नूनमेतत् परिणतमधुना कृष्णपूजनात् ।
वज्रेणापि हताः सन्तो न विनाशमवाप्नुयुः ॥५९॥

एकोऽप्यनेकतामाप यस्मादुदरगोप्यलम् ।
अवध्या नूनमेते वै तस्माद्देवा भवन्त्विति ॥६०॥

यस्मान्मारुदतेत्युक्ता रुदन्तो गर्भसंस्थिताः ।
मरुतो नाम ते नाम्ना भवन्तु मखभागिनः ॥६१॥

ततः प्रसाद्य देवेशः क्षमस्वेति दितिं पुनः ।
अर्थशास्त्रं समास्थाय मयैतद्दुष्कृतं कृतम् ॥६२॥

कृत्वा मरुद्गणं देवैः समानममराधिपः ।
दितिं विमानमारोप्य ससुतामनयद्दिवम् ॥६३॥

यज्ञभागभुजो जाता मरुतस्ते ततो द्विजाः ।
न जग्मुरैक्यमसुरैरतस्ते सुरवल्लभाः ॥६४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP