मत्स्यपुराणम् - अध्यायः ८८
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
कार्पासपर्वतदानवर्णनम् ॥
कार्पासपर्वतस्तद्वद्विंशद्भारैरिहोत्तमः ।
दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः ॥
भारेणाल्पधनो दद्याद्वित्तशाठ्यविवर्जितः ॥१॥
धान्यपर्वतवत् सर्वमासाद्य मुनिपुङ्गव ।
प्रभातायान्तु शर्वर्यां दद्यादिदमुदीरयेत् ॥२॥
त्वमेवावरणं यस्माल्लोकानामिह सर्वदा ।
कार्पासाद्रे! नमस्तुभ्यमघौघध्वंसनो भव ॥३॥
इति कार्पासशैलेन्द्रं यो दद्याच्छर्व सन्निधौ ।
रुद्रलोके वसेत् कल्पं ततो राजा भवेदिह ॥४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP