संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ६८

मत्स्यपुराणम् - अध्यायः ६८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


सप्तमीस्नपनव्रतकथनम् ।

नारद उवाच ।
किमुद्वेगाद्भुते कृत्यमलक्ष्मीः केन हन्यते ।
मृतवत्साभिषेकादि कार्येषु च किमिष्यते ॥१॥

श्रीभगवानुवाच ।
पुरा कृतानि पापानि फलन्त्यस्मिंस्तपोधन ।
रोगदौर्गत्यरूपेण तथैवेष्टवधेन च ॥२॥

तद्विगाताय वक्ष्यामि सदा कल्याणकारकम् ।
सप्तमीस्नपनं नाम जनपीडाविनाशनम् ॥३॥

शान्तये तत्र वक्ष्यामि मृतवत्‌साभिषेचनम् ।
एतदेवाद्भुतोद्वेग चित्तभ्रमविनाशनम् ॥४॥

भविष्यति च वाराहो यत्र कल्पस्तपोधन! ।
वैवस्वतश्च तत्रापि यदा तु मनुरुत्तमः ॥५॥

भविष्यति च तत्रैव पञ्चविंशतिमं यदा ।
कृतं नामयुगं तत्र हैहयान्वयवर्द्धनः ॥६॥

भविता नृपतिर्वीरः कृतवीर्यः प्रतापवान् ॥७॥

ससप्तद्वीपमखिलं पालयिष्यति भूतलम् ।
यावद्वर्षसहस्राणि सप्तसप्तति नारद! ॥८॥

जातमात्रञ्ज तस्यापि यावत् पुत्रशतं तथा ।
च्यवनस्यतु शपेन विनाशमुपयास्यति ॥९॥

सहस्रबाहुश्च यदा भविता तस्य वै सुतः ।
कुरङ्गनयनः श्रीमान् सम्भृतो नृपलक्षणैः ॥१०॥

कृतवीर्य्यस्तदाराध्य सहस्रांशुं दिवाकरम् ।
उपवासैर्व्रतैर्दिव्यैर्वेदसूक्तैश्च नारद! ॥
पुत्रस्य जीवनायालमेतत्‌ स्नानमवाप्स्यति ॥११॥

कृतवीर्य्येण वै पृष्ट इदं वक्ष्यति भास्करः ।
अशेषदुष्टशमनं सदा कल्मषनाशनम् ॥१२॥

सूर्य्य उवाच ।
अलं क्लेशेन महता पुत्रस्तव नराधिप! ।
भविष्यति चिरञ्जवो किन्तु कल्मषनाशनम् ॥१३॥

सप्तमी स्नपनं वक्ष्ये सर्वलोकहिताय वै ।
जातस्य मृतवत्सायाः सप्तमे मासि नारद! ॥
अथवा शुक्लसप्तम्यामेतत् सर्वं प्रशस्यते ॥१४॥

ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम् ।
बालस्य जन्मनक्षत्रं वर्जयेत्तां तिथिं बुधः ।
तद्वद्‌ वृद्धेतराणाञ्च कृत्यं स्यादितरेषु च ॥१५॥

गोमयेनानुलिप्तायां भूमावेकाग्निवत् तदा ।
तण्डुलैरक्तशालीयैश्चरुं गोक्षीरसंयुतम् ॥
निर्वपेत् सूर्य्यरुद्राभ्यां तन्मन्त्राभ्यां विधानतः ॥१६॥

कीर्तयेत् सूर्य्यदैवत्यं सप्तर्चिं च घृताहुतीः ।
जुहुयाद्रुद्रसूक्तेन तद्वद्रुद्राय नारद! ॥१७॥

होतव्याः समिधश्चात्र तथैवार्कपलाशयोः ।
यवकृष्णतिलैर्होमः कर्त्तव्योऽष्टशतं पुनः ॥१८॥

व्याहृतीभिस्तथाज्येन तथैवाष्टशतं पुनः ।
हुत्वा स्नानञ्च कर्तव्यं मङ्गलं येन धीमता ॥१९॥

विप्रेण वेदविदुषा विधिवद्दर्भपाणिना ।
स्थापयित्वा तु चतुरः कुम्भान्कोणेषु शोभनान् ॥२०॥

पञ्चमञ्च पुनर्मध्ये दध्यक्षतविभूषितम् ।
स्थापयेदव्रणं कुम्भं सप्तर्चेनाभिमन्त्रितम् ॥२१॥

सौरेण तीर्थतोयेन पूर्णं रत्नसमन्वितान् ।
सर्वान्सर्वौषधैर्युक्तान् पञ्चगव्यसमन्विताम् ॥
पञ्चरत्नफलैः पुष्पैर्वासोभिः परिवेष्टयेत् ॥२२॥

गजाश्वरथ्यावल्मीकात् सङ्गमाद्‌ध्रदगोकुलात् ।
संशुद्धां मृदमानीय सर्वेष्वेवविनिक्षिपेत् ॥२३॥

चतुर्ष्वपि च कुम्भेषु रत्नगर्भेषु मध्यमम् ।
गृहीत्वा ब्राह्मणस्तत्र सौरान्मन्त्रानुदीरयेत् ॥२४॥

नारीभिः सप्तसंख्याभिरव्यङ्गाङ्गीभिरत्र च ।
पूजिताभिर्यथाशक्त्या माल्यवस्त्रविभूषणैः
सविप्राभिश्च कर्त्तव्यं मृतवत्साभिषेचनम् ॥२५॥

दीर्घायुरस्तु बालोऽयं जीवत्पुत्रा च भामिनी ।
आदित्यश्चन्द्रमा सार्द्धं ग्रहनक्षत्रमण्डलैः ॥२६॥

सशक्रा लोकपाला वै ब्रह्मविष्णुमहेश्वराः ।
एते चान्ये च देवौघाः सदा पान्तु कुमारकम् ॥२७॥

मित्रोशनिर्वा हुतभुक् ये च बालग्रहाः क्वचित् ।
पीड़ां कुर्वन्तु बालस्य मम तुर्जनकस्य वै ॥२८॥

ततः शुक्लाम्बरधरा कुमारपतिसंयुता ।
सप्तकं पूजयेद्‌ भक्त्या स्त्रीणामथ गुरुं पुनः ॥२९॥

काञ्चनीञ्च ततः कुर्यात् ताम्रपात्रोपरि स्थिताम् ।
प्रतिमां धर्म्मराजस्य गुरवे विनिवेदयेत् ॥३०॥

वस्त्रकाञ्चनरत्नोघैर्भक्ष्यैः सघृतपायसैः ।
पूजयेद्‌ ब्राह्मणां स्तद्वत् वित्तशाठ्य विवर्जितः ॥३१॥

भुक्त्वा च गुरुणा चेयमुच्चार्या मन्त्रसन्ततिः ।
दीर्घायुरस्तु बालोऽयं यावद्वर्षशतं सुखी ॥३२॥

यत् किञ्चिदस्य दुरितं तत् क्षिप्तं वडवानले ।
ब्रह्मा रुद्रो वसुः स्कन्दो विष्णुः शक्रो हुताशनः ॥३३॥

रक्षन्तु सर्वे दुष्ठेभ्यो वरदाः सन्तु सर्वदा ।
एवमादीनि वाक्यानि वदन्तं पूजयेद्‌ गुरुम् ॥३४॥

शक्तितः कपिलां दद्यात् प्रणम्य च विसर्जयेत् ।
चरुञ्च पुत्रसहिता प्रणम्य रविशङ्करौ ॥३५॥

हुतशेषं तदाश्नीयादादित्याय नमोऽस्त्विति ।
इदमेवाद्भुतोद्वेग दुःस्वप्नेषु प्रशस्यते ॥३६॥

कर्तुर्जन्मदिनर्क्षञ्च त्यक्त्वा संपूजयेत् सदा ।
शान्त्यर्थं शुक्लसप्तम्यामेतत्कुर्वन्न सीदति ॥३७॥

सदानेन विधानेन दीर्घायुरभवन्नरः ।
सम्वत्सराणां प्रयुतं शशास पृथिवीमिमाम् ॥३८॥

पुण्यं पवित्रमायुष्यं सप्तमीस्नपनं रविः ।
कथयित्वा द्विजश्रेष्ठ! तर्त्रैवान्तरधीयत ॥३९॥

एतत् सर्वं समाख्यातं सप्तमी स्नानमुत्तमम् ।
सर्वदुष्टोपशमनं बालानां परमं हितम् ॥४०॥

आरोग्यं बास्करादिच्छेद्धनमिच्छेद्धुताशनात् ।
ईश्वराज्ज्ञानमिच्छेच्च मोक्षमिच्छेज्जनार्दनात् ॥४१॥

एतन्महापातकनाशनं स्यात्परं हितं बालविवर्द्धनञ्च ।
श्रृणोति यश्चैनमनन्यचेतास्तस्यापि सिद्धिं मुनयो वदन्ति ॥४२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP