संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १७९

मत्स्यपुराणम् - अध्यायः १७९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


भवमाहात्म्यवर्णनम् ।
ऋषय ऊचुः ।
श्रुतः पद्मोद्भवस्तात विस्तरेण त्वयेरितः ।
समासाद् भव माहात्म्यं भैरवस्य विधीयताम् ॥१॥

सूत उवाच ।
तस्यापि देवदेवस्य श्रृणुध्वं कर्म चोत्तमम् ।
आसीद्दैत्योऽन्धको नाम भिन्नाञ्जन चयोपमः ॥२॥

तपसा महतायुक्तो ह्यबध्यस्त्रिदिवौकसाम् ।
स कदाचित् महादेवं पार्वत्या सहितं प्रभुम् ॥३॥

क्रीडमानं तदा दृष्ट्वा हर्तुं देवीं प्रचक्रमे ।
तस्य युद्धं तदा घोरमभवत् सह शम्भुना ॥४॥

आवन्त्ये विषये घोरे महाकालवनं प्रति ।
तस्मिन्युद्धे तदा रुद्रश्चान्धकेनातिपीडितः ॥५॥

सुषुवे बाणमत्युग्र नाम्ना पाशुपतं हि तत् ।
रुद्रबाणविनिर्भेदाद्रुधिरादन्धकस्य तु ॥६॥

अन्धकाश्च समुत्पन्नाः शतशोऽथ सहस्रशः ।
तेषां विदार्यमाणानां रुधिरादपरे पुनः ॥७॥

बभूवुरन्धका घोरा यैर्व्याप्तमखिलं जगत् ।
एवं मायाविनं दृष्ट्वा तञ्च देवस्तदान्धकम् ॥८॥

पानार्थमन्धकास्रस्य सोऽसृजन्मातरस्तदा ।
माहेश्वरी तथाब्राह्मी कौमारी मालिनी तथा ॥९॥

सौपर्णी ह्यथ वायव्या शाक्री वै नैऋती तथा ।
सौरी सौम्या शिवा दूती चामुण्डा चाथ वारुणी ॥१०॥

वाराही नारसिंहीच वैष्णवीच चलच्छिखा ।
शतानन्दा भगानन्दा पिच्छिला भगमालिनी ॥११॥

बला चातिबला रक्ता सुरभी मुखमण्डिका ।
मातृनन्दा सुनन्दाच विडाली शकुनी तथा ॥१२॥

रेवतीच महारक्ता तथैव पिल पिच्छिका ।
जयाच विजया चैव जयन्ती चापराजिता ॥१३॥

काली चैव महाकाली दूती चैव तथैव च ।
सुभागा दुर्भगा चैव कराली नन्दिनी तथा ॥१४॥

अदितिश्च दितिश्चैव मारीवै मृत्युरेव च ।
कर्णमोटी तथा ग्राम्या उलूकीच घटोदरी ॥१५॥

कपाली वज्रहस्ता च पिशाची राक्षसी तथा ।
भुशुण्डी शाङ्करी चण्डा लाङ्गली कुटभी तथा ॥१६॥

खेटा सुलोचना धूम्रा एकवीरा करालिनी ।
विशालदंष्ट्रिणी श्यामा त्रिजटी कुक्कुटी तथा ॥१७॥

वैनायकी च वैताली उन्मत्तो दुम्वरी तथा ।
सिद्धिश्च लेलिहाना च केकरी गर्दभी तथा ॥१८॥

भ्रुकुटी बहुपुत्रीच प्रेतयाना विडम्बिनी ।
क्रौञ्चा शैलमुखी चैव विनता सुरमा दनुः ॥१९॥

उषा रम्भा मेनकाच सलिला चित्ररूपिणी ।
स्वाहा स्वधा वषट्कारा धृतिर्ज्येष्ठाकपर्दिनी ॥२०॥

माया विचित्ररूपा च कामरूपा च सङ्गमा ।
मुखेविला मङ्गला च महानासा महामुखी ॥२१॥

कुमारी रोचना भोमा सदाहा सा मदोद्धता ।
अलम्बाक्षी कालपर्णी कुम्भकर्णो महासुरी ॥२२॥

केशिनी शङ्किनी लम्बा पिङ्गला लोहितामुखी ।
घण्टारवाथ दंष्ट्राला रोचना काकजङ्घिका ॥२३॥

गोकर्णिकाच मुखिका महाग्रीवा महामुखी ।
उल्कामुखी धूमशिखा कम्पिनी परिकम्पिनी ॥२४॥

मोहना कम्पनाक्ष्वेला निर्भया बाहुशाहिनी ।
सर्पकर्णी तथैकाक्षी विशोका नन्दिनी तथा ॥२५॥

जोत्स्ना मुखी च रभसा निकुम्भा रक्तकम्पना ।
अविकारा महाचित्रा चन्द्रसेना मनोरमा ॥२६॥

अदर्शना हरत्पापा मातङ्गी लम्बमेखला ।
अवाला वञ्चना काली प्रमोदा लाङ्गलावती ॥२७॥

चित्ता चित्तजला कोणा शान्तिकाघविनाशिनी ।
लम्बस्तनी लम्बसटा विसटा वासचूर्णिनी ॥२८॥

स्खलन्ती दीर्घकेशीच सुचिरा सुन्दरी शुभा ।
अयोमुखी कटुमुखी क्रोधनीच तथाशनी ॥२९॥

कुटुम्बिका मुक्तिका च चन्द्रिका बलमोहिनी ।
सामान्या हासिनी लम्बा कोविदारी समासवी ॥३०॥

कङ्कुकर्णी महानादा महादेवी महोदरी ।
हुङ्कारी रुद्रसुसटा रुद्रेशी भूतडामरी ॥३१॥

पिण्डजिह्वा चलज्ज्वाला शिवा ज्वालामुखी तथा ।
एताश्चान्याश्च देवेशः सोऽसृजन्मातरस्तदा ॥३२॥

अन्धकानां महाघोराः पपुस्तद्रुधिरं तदा ।
ततोऽन्धकासृजः सर्वाः परां तृप्तिमुपागताः ॥३३॥

तासु तृप्तासु संभूता भूय एवान्धकप्रजाः ।
अर्दितस्तैर्महादेवः शूलमुद्गर पाणिभिः ॥३४॥

ततः स शङ्करो देवस्त्वन्धकै र्व्याकुलीकृतः ।
जगाम शरणं देवं वासुदेवमजं विभुम् ॥३५॥

ततस्तु भगवान् विष्णुः सृष्टवान् शुष्करेवतीम् ।
या पपौ सकलन्तेषामन्धकानामसृक् क्षणात् ॥३६॥

तथा तथाऽधिकं देवी संशुष्यति जनाधिप! ।
पीयमाने तथातेषामन्धकानां तथासृजि  ।
अन्धकास्तु क्षयन्नीताः सर्वं ते त्रिपुरारिणा ॥३७॥

मूलान्धकन्तु विक्रम्य तदा शर्वस्त्रिलोकधृक् ।
चकार वेगाच्छूलाग्रे स चतुष्टाव शङ्करम् ॥३८॥

अन्धकस्तु महावीर्यस्तस्य तुष्टोऽभवद् भवः ।
सामीप्यं प्रददौ नित्यं गणेशत्वं तथैव च ॥३९॥

ततो मातृगणाः सर्वे शङ्करं वाक्यमब्रुवन् ।
भगवन्! भक्षयिष्यामः स देवासुरमानुषान् ॥४०॥

त्वत्प्रसादाज्जगत् सर्वं तदनुज्ञातुमर्हसि ।
शङ्कर उवाच ।
भवतीभिः प्रजाः सर्वा रक्षणीया न संशयः ॥४१॥

तस्माद्घोरानभिप्रायान्मनः शीघ्रं निवर्त्यताम् ।
इत्येवं शङ्करेणोक्तमनादृत्य वचस्तदा॥४२॥

भक्षयामासुरत्युग्रास्त्रैलोक्यं सचराचरम् ।
त्रैलोक्ये भक्ष्यमाणे तु तदा मातृगणेन वै ॥४३॥

नृसिंहमूर्तिं देवेशं प्रदध्यौ भगवाञ्छिवः ।
अनादिनिधनं देवं सर्वलोक भवोद्भवम् ॥४४॥

दैत्येन्द्रवक्षोरुधिर चर्चिताग्र महानखम् ।
विद्युज्जिह्वं महादंष्ट्रं स्फुरत्केसरकण्टकम्॥
कल्पान्तमारुतक्षुब्धं सप्तपर्ण समस्वनम् ॥४५॥

वज्रतीक्ष्णनखं घोरमाकर्ण-व्यादिताननम् ।
मेरुशैलप्रतीकाशमुदयार्कसमेक्षणम् ॥४६॥

हिमाद्रिशिखराकारं चारुदंष्ट्रोज्वलाननम् ।
नखनिःसृतरोषाग्नि ज्वाला केसरमालिनम् ॥४७॥

वज्राङ्गदं सुमुकुटं हारकेयूरभूषणम् ।
श्रोणीसूत्रेण महता काञ्चनेन विराजितम् ॥४८॥

नीलोत्पलदलश्यामं वासोयुगविभूषणम् ।
तेजसाक्रान्तसकल ब्रह्माण्डागार सङ्कुलम् ॥४९॥

पवनं भ्राम्यमाणानां हुतहव्य-वहार्चिषाम् ।
आवर्तसदृशाकारैः संयुक्तं देहलोमजैः ॥५०॥

सर्वपुष्पविचित्राञ्च दारयन्तं महास्रजम् ।
स ध्यातमात्रो भगवान् प्रददौ तस्य दर्शनम् ॥५१॥

यादृशेनैवरूपेण ध्याते रुद्रेण धीमता ।
तादृशेनैव रूपेण दुर्निरीक्ष्येण दैवतैः ॥५२॥

प्रणिपत्य तु देवेशं तदा तुष्टाव शङ्करः ।
शङ्कर उवाच ।
नमस्तेऽतु जगन्नाथ! नरसिंह वपुर्धर! ॥५३॥

दैत्यनाथासृजापूर्ण! नखशक्ति विराजित! ।
ततः सकल संलग्ने हेमपिङ्गलविग्रह! ॥५४॥

नतोऽस्मि पद्मनाभ! त्वां सुरशक्र! जगद्गुरो! ।
कल्पान्ताम्भोदनिर्घोष! सूर्यकोटिसमप्रभ ॥५५॥

सहस्रयमसंक्रोध! सहस्रेन्द्रपराक्रम! ।
सहस्रधनदस्फीत! सहस्रवरुणात्मक! ॥५६॥

सहस्रकालरचित! सहस्रनियतेन्द्रिय! ।
सहस्रभूमिसद्धैर्य! सहस्रानन्त! मूर्तिमन्! ॥५७॥

सहस्रचन्द्रप्रतिम! सहस्रग्रहविक्रम! ।
सहस्ररुद्रतेजस्क! सहस्रब्रह्मसंस्तुत! ॥५८॥

सहस्रबाहुवर्गोग्र! सहस्रास्य निरीक्षण! ।
सहस्रयन्त्रमथन! सहस्रवधमोचन! ॥५९॥

अन्धकस्य विनाशाय याः सृष्टाः मातरो मया ।
अनादृत्य तु मद्वाक्यम् भक्षयन्त्यद्यताः प्रजाः ॥६०॥

कृत्वा ताश्च न शक्तोऽहं संहर्तुमपराजित! ।
स्वयङ्कृत्वा कथन्तासां विनाशमभिकारये ॥६१॥

एवमुक्तः स रुद्रेण नरसिंहवपुर्धरः ।
ससर्ज देवो जिह्वायास्तदावाणीश्वरीं हरिः ॥६२॥

हृदयाच्च तथा माया गुह्याच्च भवमालिनी ।
अस्थिभ्यश्च तथाकाली सृष्टा पूर्वं महात्मना ॥६३॥

यया तद्रुधिरम्पीतमन्धकानां महात्मनाम् ।
याचास्मिन्कथिता लोके नामतः शुष्करेवती ॥६४॥

द्वात्रिंशन्मातरः सृष्टा गात्रेभ्यश्चक्रिणा ततः ।
तासां नामानि वक्ष्यामि तानि मे गदतः श्रुणु ॥६५॥

सर्वास्तासु महाभागा घण्टाकर्णी तथैव च ।
त्रैलोक्यमोहिनी पुण्या सर्वसत्व वशङ्करी ॥६६॥

तथा च चक्रहृदया पञ्चमी व्योमचारिणी ।
शङ्खिनी लेखिनी चैव कालसङ्कर्षणी तथा ॥६७॥

इत्येतः पृष्ठगा राजन्! वागीशानुचराः स्मृताः ।
सङ्कर्षणी तथाश्वत्था वीजभावा पराजिता ॥६८॥

कल्याणी मधुदंष्ट्री च कमलोत्पल हस्तिका ।
इति देव्यष्टकं राजन्! मायानुचरमुच्यते ॥६९॥

अजिता सूक्ष्महृदया वृद्धा वेशाश्म दंशना ।
नृसिंसभैरवा बिल्वा गरुत्महृदया जया ॥७०॥

भवमालिन्यनुचरा इत्यष्टौ नृपमातरः ।
आकर्णनी सम्भटा च तथैवोत्तरमालिका ॥७१॥

ज्वालामुखी भीषणिका कामधेनुश्च बालिका ।
तथा पद्मकरा राजन्! रेवत्यनुचराः स्मृताः ॥७२॥

अष्टौ महाबलाः सर्वा देवगात्र समुद्भवाः ।
त्रैलोक्यसृष्टिसंहार समर्थाः सर्वदेवताः ॥७३॥

ताः सृष्टमात्रा देवेन क्रुद्धा मातृगणस्य तु ।
प्रधाविता महाराज! क्रोधविस्फारितेक्षणाः ॥७४॥

अविषह्य तमन्तासां दृष्टितेजः सुदारुणम् ।
तमेव शरणं प्राप्ता नृसिंहो वाक्यमब्रवीत् ॥७५॥

यथा मनुष्याः पशवः पालयन्ति चिरात् सुतान् ।
जयन्ति ते तथैवाशु यथा वै देवतागणः ॥७६॥

भवत्यस्तु तथालोकान्पालयन्तु मयेरिताः ।
मनुजैश्च तता देवैर्यजध्वं त्रिपुरान्तकम् ॥७७॥

नच बाधा प्रकर्तव्या ये भक्ता स्त्रिपुरान्तके ।
येच मां संस्मरन्तीह ते च रक्ष्याः सदा नराः ॥७८॥

बलिकर्म करिष्यन्ति युष्माकं ये सदा नराः ।
सर्वकामप्रदास्तेषां भविष्यध्वन्तथैव च ॥७९॥

उच्छासनादिकं ये च कथयन्ति मयेरितम् ।
ते च रक्ष्याः सदालोका रक्षितव्यं मदासनम् ॥८०॥

रौद्रीं चैव परां मूर्तिं महादेवः प्रदास्यति ।
युष्मन्मुख्या महादेव्यस्तदुक्तं परिरक्षय ॥८१॥

मया मातृगणः सृष्टो योऽयं विगतसाध्वसः ।
एष नित्यं विशालाक्ष्यो मयैव सह रंस्यते ॥८२॥

मया सार्द्धं तथा पूजां नरेभ्यश्चैव लप्स्यथ ।
पृथक् सुपूजिता लोकैः सर्वान् कामान् प्रदास्यथ ॥८३॥

शुष्कां संपूजयिष्यन्ति ये च पुत्रार्थिनो जनाः ।
तेषां पुत्रप्रदा देवी भविष्यन्ति न संशयः ॥८४॥

एवमुक्त्वा तु भगवान् सह मातृगणेन तु ।
ज्वाला मालाकुलवपुस्तत्रैवान्तरधीयत ॥८५॥

तत्र तीर्थं समुत्पन्नं कृतशौचेति यज्जगुः ।
तत्रापि पूर्वजो देवो जगदार्तिहरो हरः ॥८६॥

रौद्रस्य मातृवर्गस्य दत्त्वा रुद्रस्तु पार्थिव ।
रौद्रां दिव्यां तनुं तत्र मातृ मध्ये व्यवस्थितः ॥८७॥

सप्त ता मातरो देव्यः सार्द्धनारीनरः शिवः ।
निवेश्य रौद्रं तत् स्थानं तत्रैवान्तरधीयत ॥८८॥

स मातृवर्गस्य हरस्य मूर्तिर्यदा यदा याति च तत्समीपे ।
देवेश्वरस्यापि नृसिंहमूर्तेः पूजां विधत्ते त्रिपुरान्धकारिः ॥८९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP