संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १३४

मत्स्यपुराणम् - अध्यायः १३४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


त्रिपुरे नारदागमनम् ।
सूत उवाच ।
पूज्यमाने रथे तस्मिन् लोकैर्देवे रथे स्थिते ।
प्रमथेषु नदत्सूग्रं प्रवदत्सु च साध्विति ॥१॥

ईश्वरस्वरघोषेण नर्दमाने महावृषे ।
जयत्सु विप्रेषु तथा गर्ज्जत्सु तुरगेषु च ॥२॥

रणाङ्गणात् समुत्पत्य देवर्षिर्नारदः प्रभुः ।
कान्त्या चन्द्रोपमस्तूर्णं त्रिपुरं पुरमागतः ॥३॥

औत्पातिकन्तु दैत्यानां त्रिपुरे वर्त्तते ध्रुवम् ।
नारदश्चात्र भगवान् प्रादुर्भूतस्तपोधनः ॥४॥

आगतं जलदाभासं समेताः सर्वदानवाः ।
उत्तस्थुर्नारदं द्रृष्ट्वा अभिवादनवादिनः ॥५॥

तमर्घ्येण च पाद्येन मधुपर्केण चेश्वराः ।
नारदं पूजयामासुर्ब्रह्माणमिव वासवः ॥६॥

तेषां स पूजां पूजार्हः प्रतिगृह्य तपोधनः ।
नारदः सुखमासीनः काञ्चने परमासने ॥७॥

मयस्तु सुखमासीने नारदे नारदोद्भवे ।
यथार्हं दानवैः सार्द्धमासीनो दानवाधिपः ॥८॥

आसीनं नारदं प्रेक्ष्य मयस्त्वथ महासुरः ।
अब्रवीद्वचनं तुष्टो हृष्टरोमाननेक्षणः ॥९॥

औत्पातिकं पुरेऽस्माकं यथा नान्यत्र कुत्रचित् ।
वर्त्तते वर्तमानज्ञ! वद त्वं हि च नारद! ॥१०॥

द्रृश्यन्ते भयदाः स्वप्ना भज्यन्ते च ध्वजाः परम् ।
विना च वायुना केतुः पतते च तथा भुवि ॥११॥

अट्टालकाश्च नृत्यन्ते सपताकाः सगोपुराः ।
हिंस हिंसेति श्रूयन्ते गिरश्च भयदाः पुरे ॥१२॥

नाहं बिभेमि देवानां सेन्द्राणामपि नारद!  ।
मुक्त्वैकवरदं स्थाणुं भक्ताभयकरं हरम् ॥१३॥

भगवन्नास्त्यविदितमुत्पातेषु तवानघ! ।
अनागतमतीतञ्च भवान् जानाति तत्त्वतः ॥१४॥

तदेतन्नोभयस्थानमुत्पाताभिनिवेदितम् ।
कथयस्व मुनिश्रेष्ठ! प्रपन्नस्य तु नारद! ॥१५॥

इत्युक्त्वा नारदस्तेन मयेनामयवर्जितः ।
नारद उवाच ।
श्रृणु दानव! तत्त्वेन भवन्त्यौत्पातिका यथा ॥१६॥

धर्मेति धारणे धातुर्माहात्म्ये चैव पठ्यते ।
धारणाच्च महत्त्वेन धर्म एव निरुच्यते ॥१७॥

स इष्टप्रापको धर्म आचार्यैरुपदिश्यते ।
इतरश्चानिष्टफल आचार्यैर्नोपदिश्यते ॥१८॥

उत्पथान् मार्गमागच्छेत् मार्गाच्चैव विमार्गताम् ।
विनाशस्तस्य निर्देश्य इति वेदविदो विदुः ॥१९॥

सस्वधर्म रथारूढ़ सहैभिर्मत्तदानवैः ।
अपकारिषु देवानां कुरुषे त्वं सहायताम् ॥२०॥

तदेतान्येवमादीनि उत्पातावेदितानि च ।
वैनाशिकानि द्रृश्यन्ते दानवानां तथैव च ॥२१॥

एष रुद्रः समास्थाय महालोकमयं रथम् ।
आयाति त्रिपुरं हन्तुं मय! त्वामसुरानपि ॥२२॥

सत्वं महौजसं नित्यं प्रपद्यस्व महेश्वरम् ।
यास्यसे सह पुत्रेण दानवैः सह मानद! ॥२३॥

इत्येवमावेद्य भयं दानवोपस्थितं महत् ।
दानवानां पुनर्देवो देवेशपदमागतः ॥२४॥

नारदे तु मुनौ याते मयो दानवनायकः ।
शूरसंमतमित्येवं दानवानाह दानवः ॥२५॥

शूराः स्थ जात पुत्राः स्थ कृतकृत्याः स्थ दानवाः ।
युध्यध्वं दैवतैः सार्द्धं कर्तव्यं चापिनो भयम् ॥२६॥

जित्वा वयं भविष्यामः सर्वेऽमरसभासदः ।
देवांश्च सेन्द्रकान् हत्वा लोकान् भोक्ष्या महेसुराः ॥२७॥

अट्टालकेषु च तथा तिष्ठध्वं शस्त्रपाणयः ।
दंशिता युद्धसज्जाश्च तिष्ठध्वं प्रोद्यतायुधाः ॥२८॥

पुराणि त्रीणि चैतानि यथा स्थानेषु दानवाः ।
तिष्ठध्वं लङ्घनीयानि भविष्यन्ति पुराणि च ॥२९॥

न भोगतास्तथा शूरा देवता विदिता हि वः ।
ताः प्रयत्नेन वार्याश्च विदार्याश्चैव सायकैः ॥३०॥

इति दनुतनयान्मयस्तथोक्वा सुरगणवारणवारणे वचांसि ।
युवतिजनविषण्ण मानसं तत् त्रिपुरपुरं सहसा विवेश राजा ॥३१॥

अथ रजतविशुद्धभावभावो भवमभिपूज्य दिगम्बरं सुगीर्भिः ।
शरणमुपजगाम देवदेवं मदनार्यन्धक यज्ञदेहघातम् ॥३२॥

मयमभयपदैषिणं प्रपन्नं न किल बुबोध तृतीयदीप्तनेत्रः ।
तदभिमतमदात्ततः शशाङ्की स च किल निर्भय एव दानवोऽभूत् ॥३३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP