संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २५

मत्स्यपुराणम् - अध्यायः २५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


ययातिचरित्रम् ।

ऋषय ऊचुः ।
किमर्थं पौरवो वंशः श्रेष्ठत्वं प्राप भूतले ।
ज्येष्ठस्यापि यदोर्वंशः किमर्थं ह्रीयते श्रिया ॥१॥

अन्यद् ययातिचरितं सूत! विस्तरतो वद ।
यस्मात्तत्पुण्यमायुष्यमभिनन्द्यं सुरैरपि ॥२॥

सूत उवाच ।
एतदेव पुरा पृष्टः शतानीकेन शौनकः ।
पुण्यं पवित्रमायुष्यं ययाति चरितं महत् ॥३॥

शतानीक उवाच ।
ययातिः पूर्वजोऽस्माकं दशामो यः प्रजापते ।
कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥४॥

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।
आनुपूर्व्याच्च मे शंस पूरोर्वंश धरान्नृपान् ॥५॥

शौनक उवाच ।
ययातिरासीद्राजर्षि र्देवराज समद्युतिः ।
तं शुक्रवृषपर्वाणौ वव्राथे वै यथा पुरा ॥६॥

तत्तेऽहं सम्प्रवक्ष्यामि पृच्छतो राजसत्तम ।
देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ॥७॥

सुराणमसुराणाञ्च समजायत वै मिथः ।
ऐश्वर्यं प्रतिसङ्घर्षं स्त्रैलोक्ये सचराचरे ॥८॥

जिगीषया ततो देव बब्रुराङ्गिरसं मुनिम् ।
पौरोहित्ये च यज्ञार्थे काव्यं तूशनसं परे ॥९॥

ब्राह्मणौ तावुभौ नित्यमन्योन्यं स्पर्धिनौ भृशम् ।
तत्र देवा निजघ्नुर्यान् दानवान् युधिसङ्गतान् ॥१०॥

तान् पुनर्जीवयामास काव्यो विद्या बलाश्रयात् ।
ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान् ॥११॥

असुरास्तु निजघ्नुर्या सुरान् समरमूर्द्धनि ।
न तान्‌ संजीवयामास बृहस्पतिरुदारधीः ॥१२॥

न हि वेदसतां विद्यां यां काव्यो वेद वीर्य्यवान् ।
संजीवनीन्ततो देवा विषादमगमन् परम् ॥१३॥

अथ देवा भयोद्विग्नाः काव्यादुशनसस्तदा ।
ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ॥१४॥

भजमानान् भजस्वास्मान् कुरु साहाय्यमुत्तमम् ।
यासौ विद्या निवसति ब्रह्मणे मिततेजसि ॥१५॥

शुक्रे तामाहर क्षिप्रं भागभाग्नो भविष्यसि ।
वृषपर्वणः समीपेऽसौ शक्यो द्रष्टुं त्वया द्विजः ॥१६॥

रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ।
तमाराधयितुं शक्तो नान्यः कश्चिद्रृते त्वया ॥१७॥

देवयानी च दयिता सुता तस्य महात्मनः ।
तामाराधयितुं शक्तो नान्यः कश्चन विद्यते ॥१८॥

शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च ।
देवयान्यान्तु तुष्टायां विद्यान्तां प्राप्स्यसि ध्रुवम् ॥१९॥

तदा हि प्रेषितो देवैः समीपे वृषपर्वणः ।
तथेत्युक्त्वा तु स प्रायाद्‌ बृहस्पतिसुतः कचः ॥२०॥

स गत्वा त्वरितो राजन्! देवैः संपूजितः कचः ।
असुरेन्द्रपुरे शुक्रं प्रणम्येदमुवाच ह ॥२१॥

ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्‌ बृहस्पते ।
नाम्ना कचेति विख्यातं शिष्यं गृह्णातु मां भवान् ॥२२॥

ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरो ।
अनुमन्यस्व मां ब्रह्मन्! सहस्र परिवत्सरान् ॥२३॥

शुक्र उवाच ।
कच! सुस्वागतन्तेऽस्तु प्रतिगृह्णामि ते वचः ।
अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ॥२४॥

शौनक उवाच ।
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्‌ व्रतम् ।
आदिष्टं कविपुत्रेण शुक्रेणोशनसावयम् ॥२५॥

व्रतञ्च व्रतकालञ्च यथोक्तं प्रत्यगृह्णत ।
आराधयन्नुपाध्यायं देवयानीञ्च भारत ॥२६॥

संशीलयन् देवायनीं कन्यां संप्राप्तयौवनाम् ।
पुष्पैः फलैः प्रेषणैश्च तोषयामास भार्गवीम् ॥२७॥

देवयान्यपि तं विप्रं नियमव्रतचारिणम् ।
अनुयायन्ती ललना रहः पर्यचरत्तदा ॥२८॥

पञ्चवर्ष शतान्येवं कचस्य चरतो भृशम् ।
तत्तत्तीव्रं व्रतं बुध्वा दानवास्तं ततः कचम् ॥२९॥

गारक्षन्तं वने द्रृष्ट्वा रहस्येनममर्षिताः ।
जघ्नुर्बृहस्पते र्द्वेषान्निजरक्षार्थमेव च ॥३०॥

हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् ।
ततो गावो निवृत्तास्ता अगोपाः खनिवेशनम् ॥३१॥

ता द्रृष्ट्वा रहितागास्तु कचेनाभ्यागता वनात् ।
उवाच वचनं काले देवयान्यथ भार्गवम् ॥३२॥

हुतञ्चैवाग्निहोत्रन्ते सूर्यश्चास्तङ्गतः प्रभो ।
अगोपाश्चागतागावः कचस्तात! न द्रृश्यते ॥३३॥

व्यक्तं हतो धृतो वापि कचस्तात! भविष्यति ।
तं विना नैव जीवामि वचः सत्यं ब्रवीम्यहम् ॥३४॥

शुक्र उवाच ।
अथैह्येहीति शब्देन मृतं सञ्जीवयाम्यहम् ।
ततः स़ञ्जीवनीं विद्यां प्रयुक्त्वा कचमाह्वयत ॥३५॥

आहूतः प्राद्रवद् दूरात् कचः शुक्रं ननाम सः ।
ततोऽहमितिचाचख्यौ राक्षसै र्धिषणात्मजः ॥३६॥

स पुनर्देवयान्युक्तः पुष्पाहारे यद्रृच्छया ।
वनं ययौ कचो विप्रः पठन्‌ ब्रह्म च शाश्वतम् ॥३७॥

वने पुष्पाणि चिन्वन्तं दद्रृशुर्दानवाश्च तम् ।
ततो द्वितीये तं हत्वा पुनः कृत्वा च चूर्णवत् ॥३८॥

प्रायच्छन् ब्राह्मणायैव सुरायामसुरास्तदा ॥३९॥

देवयान्यथ भुयोऽपि पितरं वाक्यमब्रवीत् ।
पुष्पाहारप्रेषणकृत् कचस्तात! न द्रृश्यते ॥४०॥

व्यक्तं हतो मृतोवापि कचस्तात! भविष्यति ।
तं विना नैव जीवामि वचः सत्यं ब्रवीमि ते ॥४१॥

शुक्र उवाच ।
बृहस्पतेः सुतः पुत्रि! कचः प्रेतगतिं गतः ।
विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् ॥४२॥

मैनं शुचो मा रुद देवयानि! न त्वाद्रृशी मर्त्यमनु प्रशोचेत् ।
यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्रा देवा वसवोऽश्विनौ च ॥४३॥

सुरद्विषश्चैव जगच्च सर्वमुपस्थितं मत्तपसः प्रभावात् ।
अशक्योऽयं जीवयितुं द्विजातिः सञ्जीवितो यो वध्यते चैव भूयः ॥४४॥

देवयान्युवाच ।
यस्याङ्गिरा वृद्धमतः पितामहो बृहस्पतिश्चापि पिता तपोनिधिः ।
ऋषेः सुपुत्रन्तमथापि पौत्रं कथं न शोचेयमहन्नरुन्द्याम् ॥४५॥

स ब्रह्मचारी च तपोधनश्च सहोत्थितः कर्मसु चैव दक्षः ।
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात! कचोभिरूपः ॥४६॥

शौनक उवाच ।
सत्वेवमुक्तो देवयान्या महर्षिः संरम्भेण व्याजहाराथ काव्यः ।
असंशयं मामसुरा द्विषन्ति ये मे शिष्यानागतान् सूदयन्ति ॥४७॥

अब्राह्मणं कर्तुमिच्छन्ति रौद्रा एभिर्व्यर्थं प्रस्तुतो दानवैर्हि ।
तत्कर्म्मणाप्यस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम् ॥४८॥

स तेनपृष्टो विद्यया चोपहूतो शनैर्वाचं जठरे व्याजहार ।
तमब्रवीत्केन चेहोपनीतो ममोदरे तिष्ठसि ब्रूहि वत्स! ॥४९॥

कच उवाच ।
भवत्प्रसादान्न जहाति मां स्मृतिः सर्वं स्मरेयं यच्च यथा च वृत्तम् ।
नत्वेवं स्यात्तपसः क्षमो मे ततः क्लेशं घोरतरं स्मरामि ॥५०॥

असुरैः सुरायां भवतोऽस्मि दत्तो हत्वा दग्धा चूर्णयित्वा च काव्य! ।
ब्राह्मीं मायान्त्वासुरीं त्वत्र माया त्वयि स्थिते कथमेवाभिबाधते ॥५१॥

शुक्र उवाच ।
किं ते प्रियं करवाण्यद्य वत्से! विनैव मे जीवितं स्यात् कचस्य ।
नान्यत्र कुक्षेर्मम भेदनाच्च द्रृश्येत् कचो मद्गतो देवयानि! ॥५२॥

देवयान्युवाच ।
द्वौ मां शोकावग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः ।
कचस्य नाशे मम नास्ति शर्म तवोपघाते जीवितुं नास्मि शक्ता ॥५३॥

शुक्र उवाच ।
संसिद्धरूपोऽसि बृहस्पतेः सुत! यत्त्वां भक्तं भजते देवयानी ।
विद्यामिमां प्राप्नुहि जीवनीं त्वं न चेदिन्द्रः कचरूपी त्वमद्य ॥५४॥

न निवर्तेत पुनर्जीवन् कश्चिदन्यो ममोदरात् ।
ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ॥५५॥

पुत्रो भूत्वा निष्क्रमस्वोदरान् मे भित्वा कुक्षिञ्जीवय मां च तात! ।
अवेक्ष्येऽथो धर्म्मवतीमवेक्षां गुरोः सकाशात्प्राप्य विद्यां स विद्याः ॥५६॥

शौनक उवाच ।
गुरोः सकाशात् समवाप्य विद्यां भित्वा कुक्षिन्निर्विचक्राम विप्रः ।
प्रालेयाद्रेः शुक्लमुद्भिद्य श्रृङ्गं रात्र्यागमे पौर्णमास्यामिवेन्दुः ॥५७॥

द्रृष्ट्वा च तं पतितं वेदराशिमुत्थापयामास ततः कचोऽपि ।
विद्यां सिद्धांन्तामवाप्याभिवाद्यः ततः कचस्तं गुरुमित्युवाच ॥५८॥

निधिं निधीनां वरदं वराणां येनाद्रियन्ते गुरुमर्चनीयम् ।
प्रालेयाद्रि प्रोज्वलभालसंस्थं पापान् लोकांस्ते व्रजन्त्यप्रतिष्ठाः ॥५९॥

शौनक उवाच ।
सुरापानाद्‌ वञ्चनात्प्रापयित्वा संज्ञा नाशञ्चेतसश्चापि घोरम् ।
द्रृष्ट्वा कचञ्चापि तथाभिरूपं पीतं तथा सुरया मोहितेन ॥६०॥

स मन्युरुत्थाय महानुभावस्तदोशना विप्र हितं चिकीर्षुः ।
काव्यः स्वयं वाक्यमिदं जगाद सुरापानां प्रत्यसौ जातशङ्कः ॥६१॥

शुक्र उवाच ।
यो ब्राह्मणोऽद्य प्रभृतीह कश्चिन्मोहात् सुरा पास्यति मन्दबुद्धिः ।
अपेतधर्मा ब्रह्महा चैव स स्यादस्मिन् लोके गर्हितः स्यात्परे च ॥६२॥

मया चेमां विप्र धर्मोक्त सीमां मर्यादां वै स्थापितां सर्वलोके ।
सन्तो विप्राः शुश्रुवांसो गुरूणां देवा दैत्याश्चोप श्रृण्वन्तु सर्वे ॥६३॥

शौनक उवाच ।
इतीदमुक्त्वा स महाप्रभावस्तपोनिधीनां निधिरप्रमेयः ।
तान्दानवांश्चैव निगूढ़बुद्धीनिदं समाहूय वचोऽभ्युवाच ॥६४॥

शुक्र उवाच ।
आचक्षाणो दानवा बालिशास्थ शिष्यः कचोवत्स्यति मत्समीपे ।
सञ्जीवनीं प्राप्यविद्यां ममायं तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः ॥६५॥

शौनक उवाच ।
गुरोरुष्य सकाशे च दशवर्षशतानि सः ।
अनुज्ञातः कचोगन्तुमियेष त्रिदशालयम् ॥६६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP