संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्| अध्यायः १६३ मत्स्यपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० मत्स्यपुराणम् - अध्यायः १६३ मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते. Tags : matsya puranpuranपुराणमत्स्य पुराणसंस्कृत अध्यायः १६३ Translation - भाषांतर अन्यदानवैः सह नरसिंहयुद्धम् । सूत उवाच । खराः खरमुखाश्चैव मकराशी विषाननाः । ईहामृगमुखाश्चान्ये वराह मुखसंस्थिताः ॥१बालसूर्यमुखाश्चान्ये धूमकेतु मुखास्तथा । अर्द्धचन्द्रार्धवक्त्राश्च अग्नि दीप्त मुखास्तथा ॥२हंसकुक्कुटवक्त्राश्च व्यादितास्या भयावहाः । सिंहास्या लेलिहानाश्च काकगृध्र मुखास्तथा ॥३द्विजिह्वका वक्त्रशीर्षास्तथोल्का मुखसंस्थिताः । महाग्राहमुकाश्चान्ये दानवा बलदर्पिताः ॥४शैलसंवर्ष्मणस्तस्य शरीरे शरवृष्टिभिः । अबध्यस्य मृगेन्द्रस्य न व्यथाञ्चक्रुराहवे ॥५एवं भूयोऽपरान् घोरानसृजन् दानवेश्वराः । मृगेन्द्रस्योपरि क्रुद्धा निश्वसन्त इवोरगाः ॥६ते दानवशरा घोरा दानवेन्द्रसमीरिताः । विलयं जग्मुराकाशे खद्योता इव पर्वते ॥७ततश्चक्राणि दिव्यानि दैत्याः क्रोधसमन्विताः । मृगेन्द्रायासृजन्नाशु ज्वलितानि समन्ततः ॥८तैरासीद्गगनं चक्रैः सम्पतद्भिरितस्ततः । युगान्ते सम्प्रकाशद्भिश्चन्द्रादित्य ग्रहैरिव ॥९तानि सर्वाणि चक्राणि मृगेन्द्रेण शमात्मना । ग्रस्तान्युदीर्णानि तदा पावकार्चिः समानि वै ॥१०तानि चक्राणि वदनं विशमानानि भान्ति वै । मेघोदरदरीष्वेव चन्द्रसूर्यग्रहा इव ॥११हिरण्यकशिपुर्दैत्यो भूयः प्रासृजदूर्जितम् । शक्तिं प्रज्वलितां घोरां धौतशस्त्रतड़ित्प्रभाम् ॥१२तामापतन्ती संप्रेक्ष्य मृगेन्द्रः शक्तिमुज्वलाम् । हुङ्कारेणैव रौद्रेण बभञ्ज भगवांस्तदा॥१३रराज भग्ना सा शक्तिर्मृगेन्द्रेण महीतले । स विस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता॥१४नाराचपङ्क्तिः सिंहस्य प्राप्ता रेजे विदूरतः । नीलोत्पलपलाशानां मालेवोज्ज्वल दर्शना ॥१५स गर्जित्वा यथान्यायं विक्रम्य च यथासुखम् । तत्सैन्यमपसारितवान् तृणाग्राणीव मारुतः ॥१६ततोऽश्मवर्षं दैत्येन्द्रा व्यसृजन्त नभोगताः । नगमात्रैः शिलाखण्डै र्गिरिशृङ्गैर्महाप्रभैः ॥१७तदश्मवर्षं सिंहस्य महन्मूर्द्धनि पातितम् । दिशो दश विकीर्णा वै खद्योतप्रकरा इव ॥१८तदाश्मौघैर्दैत्यगणाः पुनः सिंहमरिन्दमम् । छायायां चक्रिरे मेघा धाराभिरिव पर्वतम् ॥१९न च तं चालयामासुः दैत्यौघा देवसत्तमम् । भीमवेगोऽचलश्रेष्टं समुद्र इव मन्दरम् ॥२०ततोऽश्मवर्षे विहिते जलवर्षमनन्तरम् । धाराभिरक्षमात्राभिः प्रादुरासीत् समन्ततः ॥२१नभसः प्रच्युताधाराः तिग्मवेगाः समन्ततः । आवृत्य सर्वतो व्योम दिशश्चोपदिशस्तथा ॥२२धारा दिवि च सर्वत्र वसुधायाञ्च सर्वशः । न स्पृशन्ति च ता देवं निपतन्तोऽनिशं भुवि ॥२३बाह्यतो ववृषुर्वर्षं नोपरिष्टाच्च ववृषुः । मृगेन्द्र प्रतिरूपस्य स्थितस्य युधि मायया ॥२४हतेऽश्मवर्षे तुमुले जलवर्षे च शोषिते । सोऽसृजद्दानवो मायामग्निवायुसमीरिताम् ॥२५महेन्द्रस्तोयदैः सार्द्धं सहस्राक्षो महाद्युतिः । महता तोयवर्षेण शमयामास पावकम् ॥०२६तस्यां प्रतिहतायां तु मायायां युधि दानवः । असृजत् घोरसंकाशं तमस्तीव्रं समन्ततः ॥२७तमसा संवृते लोके दैत्येष्वात्तायुधेषु च । स्वतेजसा परिवृतो दिवाकर इवा बभौ ॥२८त्रिशाखां भ्रुकुटीञ्चास्य ददृशुर्दानवा रणे । ललाटस्थां त्रिशूलाङ्कां गङ्गां त्रिपथगामिव ॥२९ततः सर्वासु मायासु हतासु दितिनन्दनाः । हिरण्यकशिपुं दैत्यं विवर्णाः शरणं ययुः ॥३०ततः प्रज्वलितः क्रोधात् प्रदहन्निव तेजसा । तस्मिन् क्रुद्धे तु दैत्येन्द्रे तमो भूतमभूज्जगत् ॥३१आवहः प्रवहश्चैव विवहोऽथ ह्युदावहः । परावहः संवहश्च महाबलपराक्रमाः ॥३२तथा परिवहः श्रीमानुत्पातभयशंसनाः । इत्येवं क्षुभिताः सप्त मरुतो गगनेचराः ॥३३ये ग्रहाः सर्वलोकस्य क्षये प्रादुर्भवन्ति वै । ते सर्वे गगने दृष्टा व्यचरन्त यथासुखम् ॥३४अन्यङ्गते चाप्यचरन् मार्गं निशि निशाचरः । संग्रहः सहनक्षत्रैराकापतिररिन्दमः ॥३५विवर्णताञ्च भगवान् गतो दिवि दिवाकरः । कृष्णं कबन्धं च तथा लक्ष्यते सुमहद्दिवि ॥३६अमुञ्चच्चार्चिषां वृन्दं भूमिवृत्ति र्विभावसुः । गगनस्थश्च भगवानभीक्ष्णं परिदृश्यते ॥३७सप्त धूम्रनिभा घोराः सूर्य्या दिवि समुत्थिताः । सोमस्य गगनस्थस्य ग्रहास्तिष्ठन्ति शृङ्गगाः ॥३८वामेन दक्षिणे चैव स्थितौ शुक्रबृहस्पती । शनैश्चरो लोहिताङ्गो ज्वलनाङ्ग-समुद्यती ॥३९समं समधिरोहन्तः सर्वे ते गगनेचराः । शृङ्गाणि शनकैर्घोरा युगान्तावर्तिनो ग्रहाः ॥४०चन्द्रमाश्च सनक्षत्रैर्ग्रहैः सह तमोनुदः । चराचरविनाशाय रोहिणीं नाभ्यनन्दत ॥४१गृह्यते राहुणा चन्द्र उल्काभिरभिहन्यते । उल्काः प्रज्वलिताश्चन्द्रे विचरन्ति यथासुखम् ॥४२देवानामपि यो देवः सोऽप्यवर्षत शोणितम् । अपतन् गगनादुल्का विद्युद्रूपा महास्वनाः ॥४३अकाले च द्रुमाः सर्वे पुष्पन्ति च फलन्ति च । लताश्च सफलाः सर्वा ये चाहुर्दैत्यनाशनम् ॥४४फलैः फलान्यजायन्त पुष्पैः पुष्पं तथैव च । उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च ॥४५विक्रोशन्ति च गम्भीरा धूमयन्ति ज्वलन्ति च । प्रतिमाः सर्वदेवानां वेदयन्ति महद्भयम् ॥४६आरण्यैः सह संसृष्ट ग्राम्याश्च मृगपक्षिणः । चक्रुः सुभैरवं तत्र महायुद्धमुपस्थितम् ॥४७तद्यश्च प्रतिकूलानि वहन्ति कलुषोदकाः । न प्रकाशन्ति च दिशो रक्तरेणुसमाकुलाः ॥४८वानस्पत्यो न पूज्यन्ते पूजनार्हाः कथञ्चन । वायुवेगेन हन्यन्ते भज्यन्ते प्रणमन्ति च ॥४९यदा च सर्वभूतानां छाया न परिवर्तते । अपराह्णगते सूर्ये लोकानां युगसंक्षये ॥५०तदा हिरण्यकशिपो र्दैत्यस्योपरि वेश्मनः । भाण्डागारे युधागारे निविष्टमभवन्मधु ॥५१असुराणां विनाशाय सुराणां विजयाय च । दृश्यन्ते विविधोत्पाता घोरा घोरनिदर्शनाः ॥५२एते चान्ये च बहवो गोरोत्पाताः समुत्थिताः । दैत्येन्द्रस्य विनाशाय दृश्यन्ते कालनिर्मिताः ॥५३मेदिन्यां कम्पमानायां दैत्येन्द्रेण महात्मना । महीधरा नागगणा निपेतुरमितौजसः ॥५४विषज्वालाकुलैर्वक्त्रैर्विमुञ्चन्तो हुताशनम् । चतुःशीर्षाः पञ्चशीर्षाः सप्तशीर्षाश्च पन्नगाः ॥५५वासुकिस्तक्षकश्चैव कर्कोटक धनञ्जयौ । एलामुखः कालिकश्च महापद्मश्च वीर्यवान् ॥०५६सहस्रशीर्षा नागोवै हेमतालध्वजः प्रभुः । शेषोऽनन्तोमहाभागो दुष्प्रकम्प्यः प्रकम्पितः ॥५७दीप्तान्यन्तर्जलस्थानि पृथिवी धरणानि च । तदा क्रुद्धेन महता कम्पितानि समन्ततः ॥५८नागास्तेजोधराश्चापि पातालतलचारिणः । हिरण्यकशिपुर्दैत्यस्तदा संस्पृष्टवान् महीम् ॥५९सन्दष्टौष्टपुटः क्रोधाद्वाराह इव पूर्वजः । नदी भागीरथी चैव सरयूः कौशिकी तथा ॥६०यमुना त्वथ कावेरी कृष्णवेणी च निम्नगा । सुवेणा च महाभागा नदी गोदावरी तथा ॥६१चर्मण्वती च सिन्दुश्च तथा नदनदीपतिः । कमलप्रभवश्चैव शोणोमणि निभोदकः ॥६२नर्मदा शुभतोया च तथा वेत्रवती नदी । गोमती गोकुलाकीर्णा तथा पूर्वसरस्वती ॥६३मही कालमही चैव तमसा पुष्पवाहिनी । जम्बूद्वीपं रत्नवटं सर्वरत्नोपशोभितम् ॥६४सुवर्ण प्रकटञ्चैव सुवर्णाकरमण्डितम् । महानदञ्च लौहित्यं शैलकाननशोभितम् ॥६५पत्तनं कोशकरणं ऋषिवीर जनाकरम् । मागधाश्च महाग्रामा मुडाः शुङ्गास्तथैव च ॥६६सुह्मा मल्ला विदेहाश्च मालवाः काशिकोसलाः । भवनं वैनतेयस्य दैत्येन्द्रेणाभिकम्पितम् ॥६७कैलासशिखराकारं यत् कृतं विश्वकर्मणा । रक्ततोयो महाभीमो लौहित्यो नाम सागरः ॥६८उदयश्च महाशैल उच्छ्रितः शतयोजनम् । सुवर्णवेदिकः श्रीमान् मेघपङ्क्ति-निषेवितः ॥६९भ्राजमानोऽर्कसदृशै जातरूपमयैर्द्रुमैः । शालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः ॥७०अयोमुखश्च विख्यातः सर्वतो धातुमण्डितः । तमालवनगन्धश्च पर्वतो मलयः शुभः ॥७१सुराष्ट्राश्च सवाल्हीकाः शूराभीरास्तथैवच । भोजाः पाण्ड्याश्च वङ्गाश्च कलिङ्गस्ताम्रलिप्तकाः ॥७२तथैवोड्राश्च पौण्ड्राश्च वामचूडाः सकेरलाः । क्षोभितास्तेन दैत्येन सदेवाश्चाप्सरोगणाः ॥७३अगस्त्यभवनञ्चैव यदगम्यङ्कृतं पुरा । सिद्धचारणसङ्घैश्च विप्रकीर्णं मनोहरम् ॥७४विचित्रनानाविहगं सुपुष्पितमहाद्रुमम् । जातरूपमयैः श्रृङ्गैर्गगनं विलिखन्निव ॥७५चन्द्रसूर्यांशुसङ्काशैः सागराम्बु समावृतैःविद्युत्त्वान् सर्वः श्रीमानायतः शतयोजनम् ॥७६विद्युतां यत्र सङ्घाता निपात्यन्ते नगोत्तमे । ऋषभः पर्वतश्चैव श्रीमान् वृषभसंज्ञितः ॥७७कुञ्चरः पर्वतः श्रीमानगस्त्यस्य गृहं शुभम् । विशालाक्षश्च दुर्धर्षः सर्पाणामालयः पुरी ॥७८तथा भोगवतीचापि दैत्येन्द्रेणाभिकम्पिताः । महासेनो गिरिश्चैव पारियात्रश्च पर्वतः ॥७९चक्रवांश्च गिरिश्रेष्ठो वाराहश्चैव पर्वतः । प्राग्ज्योतिष परञ्चापि जातरूपमयं शुभम् ॥८०यस्मिन्वसति दुष्टात्मा नरको नाम दानवः । विशालाक्षश्च दुर्द्धर्षो मेघगम्भीरनिस्वनः ॥८१षष्टिस्तत्र सहस्राणि पर्वतानां द्विजोत्तमाः । तरुणादित्यसङ्काशो मेरुस्तत्र महागिरिः ॥८२यक्षराक्षसगन्धर्वैः नित्यं सेवितकन्दरः । हेमगर्भो महाशैलस्तथा हेमसखो-गिरिः ॥८३कैलासश्चैव शैलेन्द्रो दानवेन्द्रेण कम्पिताः । हेमपुष्परसक्षेत्रं तेन वैखानसं सरः ॥८४कम्पितं मानसञ्चैव हंसकारण्डवाकुलम् । त्रिशृङ्गपर्वतश्चैव कुमारी च सरिद्वरा ॥८५तुषारचय-सञ्छन्ना मन्दरश्चापि पर्वतः । उशीरबिन्दुश्च गिरिश्चन्द्रप्रस्थः तथाद्रिराट् ॥८६प्रजापतिगिरिश्चैव तथा पुष्करपर्वतः । देवाभ्रपर्वतश्चैव यथावै रेणुको गिरिः ॥८७क्रौञ्चः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः । एते चान्ये च गिरयो देशा जनपदास्तथा ॥८८नद्यः ससागराः सर्वाः सोऽकम्पयत दानवः । कपिलश्च महीपुत्रो व्याघ्रवांश्चैव कम्पितः ॥८९खेचराश्च सतीपुत्राः पातालतलवासिनः । गणस्तथा परो रौद्रो मेघनामाङ्कुशायुधः ॥९०ऊर्ध्वगो भीमवेगश्च सर्व एवाभिकम्पिताः । गदी शूली करालश्च हिरण्यकशिपुस्तदा ॥९१जीमूतघनसङ्काशो जीमूतघननिस्वनः । जीमूतघननिर्घोषो जीमूत इव वेगवान् ॥९२देवारिर्दितिजो वीरो नृसिंहं समुपाद्रवत् । समुत्पत्य ततस्तीक्ष्णैर्मृगेन्द्रेण महानखैः ॥९३तदोङ्कारसहायेन विदार्य निहतो युधि । मही च कालश्च वशी नभश्च ग्रहाश्च सूर्यश्च दिशश्च सर्वाः । नद्यश्च च शैलाश्च महार्णवाश्च गताः प्रसादन्दितिपुत्रनाशात् ॥९४ततः प्रमुदिता देवा ऋषयश्च तपोधनाः । तुष्टुवुर्नामभिर्दिव्यै रादिदेवं सनातनम् ॥९५यत्त्वया विहितं देव! नारसिंहमिदं वपुः । एतदेवार्चयिष्यन्ति परावरविदो जनाः ॥९६ब्रह्मोवाच । भवान् ब्रह्मा च रुद्रश्च महोन्द्रो देवसत्तमाः! । भवान् कर्ता विकर्ता च लोकानां प्रभवाप्ययः ॥९७पराञ्च सिद्धाञ्च परञ्च देवं परञ्च मन्त्रं परमं हविश्च । परञ्च धर्मं परमञ्च विश्वं त्वामाहुरग्र्य्रं पुरुषं पुराणम् ॥९८परं शरीरं परमञ्च ब्रह्म परञ्च योगं परमाञ्च वाणीम् । परं रहस्यं परमाङ्गतिञ्च त्वामाहुरग्र्य्रं पुरुषं पुराणम् ॥९९एवं परस्यापि परं पदं यत् परं परस्यापि परञ्च देवम् । परं परस्यापि परञ्च भूतन्त्वामाहुरग्र्य्रं पुरुषं पुराणम् ॥१००परं परस्यापि परं निधानं परं परस्यापि परं पवित्रम् । परं परस्यापि परं च दान्तन्त्वामाहुरग्र्य्रं पुरुषं पुराणम् ॥१०१एवमुक्त्वा तु भगवान् सर्वलोकपितामहः । स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः ॥१०२तप्तो नदत्सु तूर्येषु नृत्यन्तीष्वत्सरः सु च । क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः ॥१०३नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमत् । पौराणां रूपमास्थाय प्रययौ गरुडध्वजः ॥१०४अष्टचक्रेण यानेन भूतयुक्तेन भास्वता । अव्यक्त-प्रकृतिर्देवः स्वस्थानं गतवान् प्रभुः ॥१०५ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP