मत्स्यपुराणम् - अध्यायः २०९
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
सावित्र्युपाख्यानम् ।
सत्यवानुवाच ।
वनेऽस्मिन् शाद्वलाकीर्णे सहकारं मनोहरम् ।
नेत्रघ्राणसुखं पश्य वसन्तं रतिवर्धनम् ॥१॥
वनेऽप्यशोकं दृष्ट्वैनं रागवन्तं सुपुष्पितम् ।
वसन्तो हसतीवायं मामेवायतलोचने!॥२॥
दक्षिणे दक्षिणेनैतां पश्य रम्यां वनस्थलीम् ।
पुष्पितैः किंशुकैर्युक्तां ज्वलितानलसप्रभैः ॥३॥
सुगन्धिकुसुमामोदो वनराजिविनिर्गतः ।
करोति वायुर्दाक्षिण्यमावयोः कल्मनाशनम् ॥४॥
पश्चिमेन विशालाक्षि! कणिकारैः सुपुष्पितैः ।
काञ्चनेन विभात्येषा वनराजी मनोरमा ॥५॥
अतिमुक्तलताजालरुद्धमार्गा वनस्थली ।
रम्या सा चारुसर्वाङ्गी कुसुमोत्करभूषणा ॥६॥
मधुमत्तालि झङ्कार व्याजेन वरवर्णिनी ।
चापाकृष्टिं करोतीव कामः पार्श्वे जिघांसया ॥७॥
फलास्वादलसद्वक्त्र पुस्कोकिल विनादिता ।
विभाति चारुतिलका त्वमिवैषा वनस्थली ॥८॥
कोकिलश्चूतशिखरे मञ्जरीरेणुपिञ्जरः ।
गदितैर्व्यक्ततां याति कुलीनश्चेष्टितैरिव ॥९॥
पुष्परेणुविलिप्ताङ्गी प्रियामनु सरिद्वने ।
कुसुमं कुसुमं याति कूजन् कामी शिलीमुखः॥१० ॥
मञ्जरी सहकारस्य कान्तावच्चाग्रपीडिताम् ।
स्वदते बहुपुष्पेऽपि पुंस्कोकिलयुवा वने ॥११॥
काकः प्रसूतां वृक्षाग्रे स्वामेकाग्रेण चञ्चुना ।
काकीं सम्भावयत्येष पक्षाच्छादितपुत्रिकाम् ॥१२॥
शुभाङ्गनिम्नमासाद्य दयिता सहितो युवा ।
नाहारमपि चादत्ते कामाक्रान्तः कपिञ्जल ॥१३॥
कलविङ्कस्तु रमयन् प्रियोत्सङ्गं समास्थितः ।
मुहुर्मुहुर्विशालाक्षि! उत्कण्ठयति कामिनः ॥१४॥
वृक्षशाखां समारूढः शुकोऽयं सह भार्यया ।
करेण लम्बयन् शाखां करोति सफलं शिरः ॥१५॥
वनेऽत्र पिशितास्वाद तृप्तो निद्रामुपागतः ।
शेते सिंहयुवा कान्ता चरणान्तरगामिनी ॥१६॥
व्याघ्रयोर्मिथुनं पश्य शैलकन्दर संस्थितम् ।
ययोर्नेत्र प्रभालोके गुहाभिन्नेव लक्ष्यते ॥१७॥
अयं द्वीपी प्रियां लेढि जिह्वाग्रेण पुनः पुनः ।
प्रीतिमायाति च तया लिह्यमानः स्वकान्तया ॥१८॥
उत्सङ्गकृतमूर्धानं निद्रापहृतचेतसम् ।
जन्तूद्धरणतः कान्तं सुखयत्येव वानरी ॥१९॥
भूमौ निपतितां रामां मार्जारो दर्शितोदरीम् ।
नखैर्दन्तैर्दशत्येष न च पीडयते तथा ॥२०॥
शशकः शशकी चोभे संसुप्ते पीडिते इमे ।
संलोनगात्रचरणे कर्णैर्व्यक्तिमुपागते ॥२१॥
स्नात्वा सरसि पद्माढ्ये नागस्तु मदनप्रियः ।
सम्भावयति तन्वङ्गीमृणालकबलैः प्रियाम् ॥२२॥
कान्त प्रोथसमुत्थानैः कान्तमार्गानुगामिनी ।
करोति कवलं मस्तैर्वराही पोतकानुगा ॥२३॥
दृढाङ्गसन्धिर्महिषः कर्दमाक्ततनुर्वने ।
अनुव्रजति धावन्तीं प्रियबद्धचतुष्करः ॥२४॥
पश्य चार्वङ्गि! सारङ्गं त्वं कटाक्षविभावनैः ।
सभार्यं मां हि पश्यन्तं कौतूहल समन्वितम् ॥२५॥
पश्य पश्चिमपादेन रोही कण्डूयते मुखम् ।
स्नेहार्द्रभावात्कर्षन्ती भर्त्तारं श्रृङ्गकोटिना ॥२६॥
द्रागिमाञ्चमरीं पश्य सितबालामगच्छतीम् ।
अन्वास्ते चमरः कामी माञ्च पश्यति गर्वितः ॥२७॥
आतपे गवयं पश्य प्रकृष्टं भार्यया सह ।
रोमन्थनं प्रकुर्वाणं काकङ्ककुदि वारयन् ॥२८॥
पश्येमं भार्यया सार्द्धं न्यस्ताग्र चरणद्वयम् ।
विपुले बदरीस्कन्धे बदराशनकाम्यया ॥२९॥
हंसं सभार्यं सरसि विचरन्तं सुनिर्मलम् ।
सुमुक्तस्येन्दुबिम्बस्य पश्य वै श्रियमुद्वहन् ॥३०॥
सभार्यश्चक्रवाकोऽयं कमलाकरमध्यगः ।
करोति पद्मिनीं कान्तां सुपष्पामिव सुन्दरी ॥३१॥
मया फलोच्चयः सुभ्रु! त्वया पुष्पोच्चयः कृतः ।
इन्धनं न कृतं सुभ्रु! तत्करिष्यामि सांप्रतम् ॥३२॥
त्वमस्य सरसस्तीरे द्रुमच्छायां समाश्रिता ।
क्षणमात्रं प्रतीक्षस्व विश्रमस्व च भामिनि ॥३३॥
सावित्र्युवाच ।
एवमेतत्करिष्यामि मम दृष्टिपथस्त्वया ।
दूरं कान्त!न कर्तव्यो बिभेमि गहने वने ॥३४॥
मत्स्य उवाच ।
ततः स काष्ठानि चकार तस्मिन्वने तदा राजसुता समक्षम् ।
तस्या ह्यदूरे सरसस्तदानीं मेने च सा तं मृतमेव राजन् ॥३४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP