मत्स्यपुराणम् - अध्यायः १३२
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
दानवानामुपद्रवं दृष्ट्वा देवैः ब्रह्मसमीपे गमनम् ।
सूत उवाच ।
अशीलेषु प्रदुष्टेषु दानवेषु दुरात्मसु ।
लोकेषूत्साद्यमानेषु तपोधनवनेषु च ॥१॥
सिंहनादे व्योमगानान्तेषु भीतेषु जन्तुषु ।
त्रैलोक्ये भयसंमूढ़े तमोन्धत्वमुपागते ॥२॥
आदित्या वसवः साध्याः पितरो मरुताङ्गणाः ।
भीताः शरणमाजग्युर्ब्रह्माणं प्रपितामहम् ॥३॥
ते तं स्वर्णोत्पलासीनं ब्रह्माणं समुपागताः ।
नेमुरूचुश्च सहिताः पञ्चास्यं चतुराननम् ॥४॥
वरगुप्तास्तवैवेह दानवास्त्रिपुरालयाः ।
बाधन्तेऽस्मान्यथाप्रेष्याननुशाधि ततोऽनघ! ॥५॥
मेधागमे यथा हंसा मृगाः सिंहभयादिव ।
दानवानां भयात्तद्वद्बभ्राम प्रपितामहः ॥६॥
पुत्राणां नामधेयानि कलत्राणां तथैव च ।
दानवैर्भ्राम्यमाणानां विस्तृतानि ततोऽनघ ॥७॥
देववेश्मप्रभङ्गाश्च आश्रमभ्रंशनानि च ।
दानवैर्लोभमोहान्धैः क्रियन्ते च भ्रमन्ति च ॥८॥
यदि न त्रायसे लोकं दानवैर्विद्रुतं द्रुतम् ।
धर्षेणानेन निर्देवं निर्मनुष्याश्रमं जगत् ॥९॥
इत्येवं त्रिदशैरुक्तः पद्मयोनिः पितामहः ।
प्रत्याह त्रिदशान् सेन्द्रानिन्दुतुल्याननः प्रभुः ॥१०॥
मयस्य यो वरो दत्तो मया मतिमताम्वराः! ।
तस्यान्त एष संप्राप्तो यः पुरोक्तो मया सुराः ॥११॥
तच्च तेषामधिष्ठानं त्रिपुरं त्रिदशर्षभाः ।
एतेषु पातमोक्षेण हन्तव्यं नेषुवृष्टिभिः ॥१२॥
भवताञ्च न पश्यामि कमप्यत्र सुरर्षभाः ।
यस्तु चैकप्रहारेण पुरं हन्यात् सदानवम् ॥१३॥
त्रिपुरं नाल्पवीर्येण शक्यं हन्तुं शरेण तु ।
एकं मुक्त्वा महादेवं महेशानं प्रजापतिम् ॥१४॥
ते यूयं यदि अन्ये च क्रतुविध्वंसकं हरम् ।
याचामः सहिता देवं त्रिपुरं स हनिष्यति ॥१५॥
कृतः पुराणां विष्कम्भो योजनानां शतं शतम् ।
यथा चैकप्रहारेण हन्यते वैभवेन तु ।
पुष्पयोगेन युक्तानि तानि चैकक्षणेन तु ॥१६॥
ततो देवैश्च संप्रोक्तो यास्याम इति दुःखितैः ।
पितामहश्च तै सार्द्धं भवसंसदमागतः ॥१७॥
तं भवं भूतभव्येशं गिरिशं शूलपाणिनम् ।
पश्यन्ति चोमया सार्द्धन्नन्दिना च महात्मना ॥१८॥
अग्निवर्णमजन्देवमग्निकुण्डनिभेक्षणम् ।
अग्न्यादित्यसहस्राभमग्निवर्णविभूषितम् ॥१९॥
चन्द्रावयवलक्ष्माणं चन्द्रसौम्यवराननम् ।
आगम्य तमजन्देवमथ तं नीललोहितम् ॥२०॥
स्तुवन्तो वरदं शम्भुं गोपात पार्वतीपतिम् ॥२१॥
देवा ऊचुः ।
नमो भगवतेशाय रुद्राय वरदाय च ।
पशूनाम्पतये नित्यमुग्राय च कपर्दिने ॥२२॥
महादेवाय भीमाय त्र्यम्बकाय च शान्तये ।
ईशानाय भयघ्नाय नमस्त्वन्धकघातिने ॥२३॥
नीलग्रीवाय भीमाय वेधसे वेधसास्तुते ।
कुमारशत्रुनिघ्नाय कुमारजनकाय च ॥२४॥
विलोहिताय धूम्राय वराय क्रथनाय च ।
नित्यं नीलशिखण्डाय शूलिने दिव्यशायिने ॥२५॥
उरगाय त्रिनेत्राय हिरण्यवसुरेतसे ।
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥२६॥
वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे ।
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥२७॥
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ।
नमोऽस्तु दिव्यरूपाय प्रभवे दिव्यशम्भवे ॥२८॥
अभिगम्याय काम्याय स्तुत्यायार्च्याय सर्वदा ।
भक्तानुकम्पिने नित्यं दिशते यन्मनोगतम् ॥२९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP