मत्स्यपुराणम् - अध्यायः १९४
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यवर्णनम् ।
मार्कण्डेय उवाच ।
ततो गच्छेत्तु राजेन्द्र! ह्यङ्कुशेखरमुत्तमम् ।
दर्शनात्तस्य देवस्य मुच्यते सर्वपातकैः ॥१
ततो गच्छेच्च राजेन्द्र! नर्मदेश्वरमुत्तमम् ।
तत्र स्नात्वा नरो राजन्! स्वर्गलोके महीयते ॥२
अश्वतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
सुभगो दर्शनीयश्च भोगवान् जायते नरः ॥३
पितामहं ततो गच्छेत् ब्रह्मणा निर्मितं पुरा ।
तत्र स्नात्वा नरो भक्त्या पितृपिण्डन्तु दापयेत् ॥४
तिलदर्भविमिश्रन्तु ह्युदकं तत्र दापयेत् ।
तस्य तीर्थप्रभावेण सर्वं भवति चाक्षयम् ॥५
सावित्री तीर्थमासाद्य यस्तु स्नानं समाचरेत् ।
विधूय सर्वपापानि ब्रह्मलोके महीयते ॥६
मनोहरं ततो गच्छेत् तीर्थं परमशोभनम् ।
तत्र स्नात्वा नरो राजन्! पितृलोके महीयते ॥७
ततो गच्छेत्तु राजेन्द्र! मानसं तीर्थमुत्तमम् ।
तत्र स्नात्वा नरो राजन्! रुद्रलोके महीयते ॥८
ततो गच्छेच्च राजेन्द्र! कुञ्जतीर्थमनुत्तमम् ।
विख्यातं त्रिषु लोकेषु सर्वपापप्रणाशनम् ॥९
यान्यान्कामयते कामान् पशुपुत्रधनानि च ।
प्राप्नुयात्तानि सर्वाणि तत्र स्नात्वा नराधिप ॥१०
ततो गच्छेत्तु राजेन्द्र! त्रिदशज्योति विश्रुतम् ।
यत्र ता ऋषिकन्यास्तु तपोऽतप्यन्त सुव्रताः ॥११
भर्ता भवतु सर्वासामीश्वरः प्रभुरव्ययः ।
प्रीतस्तासां महादेवो दण्डरूपधरो हरः ॥१२
विकृताननबीभत्सुर्व्रती तीर्थमुपागतः ।
तत्र कन्यां महाराज! वरयन् परमेश्वरः ॥१३
कन्यां ऋषेर्वरयतः कन्यादानं प्रदीयताम् ।
तीर्थं तत्र महाराज! ऋषिकन्येति विश्रुतम् ॥१४
तत्र स्नात्वा नरो राजन्! सर्वपापैः प्रमुच्यते ।
ततो गच्छेच्च राजेन्द्र! स्वर्णविन्दुत्विति स्मृतम् ॥१५
तत्र स्नात्वा नरो राजन्! दुर्गतिं न च पश्यति ।
अप्सरेशं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥१६
क्रीडते नागलोकस्थो ह्यप्सरैः सह मोदते ।
ततो गच्छेत्तु राजेन्द्र! नरकं तीर्थमुत्तमम् ॥१७
तत्र स्नात्वार्चयेद्देवं नरकं च न पश्यति ।
भारभूति ततो गच्छेदुपवासपरो जनः ॥१८
एतत्तीर्थं समासाद्य चावतारं तु शाम्भवम् ।
अर्चयित्वा विरूपाक्षं रुद्रलोके महीयते ॥१९
अस्मिस्तीर्थे नरः स्नात्वा भारभूतौ महात्मनः ।
यत्र तत्र मृतस्यापि ध्रुवं गाणेश्वरी गतिः ॥२०
कार्तिकस्य तु मासस्य ह्यर्चयित्वा महेश्वरम् ।
अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः ॥२१
दीपकानां शतं तत्र घृतपूर्णन्तु दापयेत् ।
विमानैः सूर्य्यसङ्काशैर्व्रजते यत्र शङ्करः ॥२२
वृषभं यः प्रयच्छेत्तु शङ्खकुन्देन्दुसप्रभम् ।
वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ॥२३
धेनुमेकान्तु यो दद्यात्तस्मिंस्तीर्थे नराधिप ।
पायसं मधुसंयुक्तं भक्ष्याणि विविधानि च ॥२४
यथाशक्त्या च राजेन्द्र! ब्राह्मणान् भोजयेत्ततः ।
तस्य तीर्थप्रभावेण सर्वं कोटिगुणं भवेत् ॥२५
नर्म्मदाया जलं पीत्वा ह्यर्चयित्वा वृषध्वजम् ।
दुर्गतिञ्च न पश्यति तस्मिंस्तीर्थे नराधिप! ॥२६
हंसयुक्तेन यानेन रुद्रलोकं स गच्छति ।
यावच्चन्द्रश्च सूर्यश्च हिमवांश्च महोदधिः ॥२७
गङ्गाद्याः सरितो यावत्तावत् स्वर्गे महीयते ।
अनाशकन्तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ॥२८
गर्भवासे तु राजेन्द्र! न पुनर्जायते पुमान् ।
ततो गच्छेत्तु राजेन्द्र! आषाढी तीर्थमुत्तमम् ॥२९
तत्र स्नात्वा नरो राजन्निन्द्रस्यार्द्धासनं लभेत् ।
स्त्रियास्तीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥३०
तत्रापि स्नातमात्रस्य ध्रुवं गाणेश्वरी गतिः ।
ऐरण्डीनर्म्मदायोश्च सङ्गमं लोकविश्रुतम् ॥३१
तच्च तीर्थं महापुण्यं सर्वपापप्रणाशनम् ।
उपवासपरो भूत्वा नित्यव्रतपरायणः ॥३२
तत्र स्नात्वा तु राजेन्द्र! मुच्यते ब्रह्महत्यया ।
ततो गच्छेच्च राजेन्द्र! नर्म्मदो दधिसङ्गमम् ॥३३
जामदग्न्यमिति ख्यातं सिद्धो यत्र जनार्दनः ।
यत्रेष्ट्वा बहुभिर्यज्ञैरिन्द्रो देवाधिपोऽभवत् ॥३४
तत्र स्नात्वा तु राजेन्द्र! नर्म्मदो दधिसङ्गमे ।
त्रिगुणं चाश्वमेधस्य फलं प्राप्नोति मानवः ॥३५
पश्चिमस्योदधेः सन्धौ स्वर्गद्वारविघट्टनम् ।
तत्र देवाः सगन्धर्वा ऋषयः सिद्धचारणाः ॥३६
आराधयन्ति देवेशं त्रिसन्ध्यं विमलेश्वरम् ।
तत्र स्नात्वा नरो राजन्! रुद्रलोके महीयते ॥३७
विमलेशं परं तीर्थं न भूतं न भविष्यति ।
तत्रोपवासं कृत्वा ये पश्यन्ति विमलेश्वरम् ॥३८
सप्तजन्मकृतं पापं हित्वा यान्त्यमरालयम् ।
ततो गच्छेत्तु राजेन्द्र! कौशिकी तीर्थमुत्तमम् ॥३९
तत्र स्नात्वा नरो राजन् उपवासपरायणः ।
उपोष्य रजनीमेकां नियतो नियताशनः ॥४०
एतत्तीर्थप्रभावेण मुच्यते ब्रह्महत्यया ।
सर्वतीर्थाभिषेकन्तु यः पश्येत् सागरेश्वरम् ॥४१
योजनाभ्यन्तरे तिष्ठन्नावर्त्ते संस्थितः शिवः ।
तं दृष्ट्वा सर्वतीर्थानि दृष्टान्येव न संशयः ॥४२
सर्वपापविनिर्मुक्तो यत्र रुद्रः स गच्छति ।
नर्म्मदासङ्गमं यावद् यावच्चामरकण्टकम् ॥४३
अत्रान्तरे महाराज! तीर्थकोट्यो दशस्मृताः ।
तीर्थात्तीर्थान्तरं यत्र ऋषिकोटि निषेवितम् ॥४४
साग्निहोत्रैस्तु विद्वद्भिः सर्वैर्ध्यानपरायणैः ।
सेवितानेन राजेन्द्र! त्वीप्सितार्थप्रदायिका ॥४५
यस्त्विदं वै पठेन्नित्यं शृणुयाद्वापि भावतः ।
तस्य तीर्थानि सर्वाणि ह्यभिषिञ्चन्ति पाण्डव! ॥४६
नर्म्मदा च सदा प्रीता भवेद्वै नात्र संश्यः ।
प्रीतस्तस्य भवेद्रुद्रो मार्कण्डेयो महामुनिः ॥४७
वन्ध्या चैव लभेत् पुत्रान् दुर्भगा सुभगा भवेत् ।
कन्या लभेत भर्तारं यश्च वाञ्छेत् तु यत् फलम् ॥४८
तदेव लभते सर्वं नात्र कार्या विचारणा ।
ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेत् ॥४९
वैश्यस्तु लभते लाभं शूद्रः प्राप्नोति सद्गतिम् ।
मूर्खस्तु लभते विद्यां त्रिसन्ध्यं यः पठेन्नरः ।
नरकञ्च न पश्येत्तु वियोगञ्च न गच्छति ॥५०
N/A
References : N/A
Last Updated : November 11, 2016
TOP