मत्स्यपुराणम् - अध्यायः ११३
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
द्वीपसमुद्रपर्वतानां वर्णनम् ।
ऋषय ऊचुः ।
कति द्वीपाः समुद्रा वा पर्वता वा कति प्रभो! ।
कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः ॥१॥
महाभूमिप्रमाणञ्च लोकालोकस्तथैव च ।
पर्याप्तिं परिमाणञ्च गतिश्चन्द्रार्कयोस्तथा ॥२॥
एतद् ब्रवीहि नः सर्वं विस्तरेण यथार्थवित् ।
त्वदुक्तमेतत् सकलं श्रोतुमिच्छामहे वयम् ॥३॥
सूत उवाच ।
द्वीपभेदसहस्राणि सप्तचान्तर्गतानिच ।
न शक्यन्ते क्रमेणेह वक्तुं वै सकलं जगत् ॥४॥
सप्तैव तु प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह ।
तेषां मनुष्यतर्केण प्रमाणानि प्रचक्षते ॥५॥
अचिन्त्याः खलु ये भावास्तांस्तु तर्केण साधयेत् ।
प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् ॥६॥
सप्तवर्षाणि वक्ष्यामि जम्बूद्वीपं यथाविधम् ।
विस्तरं मण्डलं यच्च योजनैस्तं निबोधत ॥७॥
योजनानां सहस्राणि शतं द्वीपस्य विस्तरः ।
नानाजनपदाकीर्णं पुरैश्च विवधैः शुभैः ॥८॥
सिद्धचारणसंकीर्णं पर्वतैरुपशोभितम् ।
सर्वधातुपिनद्धैस्तैः शिलाजालसमुद्गतैः ॥९॥
पर्वतप्रसवाभिश्च नदीभिस्तु समन्ततः ।
प्रागायता महापार्श्वाः षडिमे वर्षपर्वताः ॥१०॥
अवगाह्य ह्युभयतः समुद्रौ पूर्वपश्चिमौ ।
हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान् ॥११॥
चातुर्वर्ण्यस्तु सौवर्णोमेरुश्चोल्वमयः स्मृतः ।
चतुर्विंशत्सहस्राणि विस्तीर्णश्च चतुर्दिशम् ॥१२॥
वृत्ताकृतिप्रमाणश्च चतुरस्रः समाहितः ।
नानावर्णैः समः पाश्वैः प्रजापतिगुणान्वितः ॥१३॥
नाभिबन्धनसम्भूतो ब्रह्मणो व्यक्तजन्मनः ।
पर्वतः श्वेतवर्णस्तु ब्राह्मण्यं तस्य तेन वै ॥१४॥
पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते ।
भृङ्गिपत्रनिभश्चैव पश्चिमेन समन्वितः ॥
तेनास्य शूद्रता सिद्धा मेरोर्नामार्थकर्म्मतः ॥१५॥
पार्श्वमुत्तरतस्तस्य रक्तवर्णं स्वभावतः ।
तेनास्य क्षत्रभावः स्यादितिवर्णाः प्रकीर्त्तिताः ॥१६॥
नलश्च वैढूर्यमयः श्वेतः पीतो हिरण्मयः ।
मयूरबर्हवर्णश्च शातकौम्भः स श्रृङ्गवान् ॥१७॥
एते पर्वतराजानः सिद्धचारणसेविताः ।
तेषामन्तरविष्कम्भो नवसाहस्रमुच्यते ॥१८॥
मध्ये त्विलावृतं नाम महामेरोः समन्ततः ।
चतुर्विशत्सहस्राणि विस्तीर्णो योजनैः समः ॥१९॥
मध्ये तस्य महामेरुर्विधूम इव पावकः ।
वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम् ॥२०॥
वर्षाणि यानि सप्तात्र तेषां वा वर्षपर्वताः ।
द्वे द्वे सहस्रे विस्तीर्णा योजनैर्दक्षिणोत्तरम् ॥२१॥
जम्बूद्वीपस्य विस्तारस्तेषामायाम उच्यते ।
नीलश्च निषधश्चैव तेषां हीनाश्च ये परे ॥२२॥
श्वेतश्च हेमकूटश्च हिमवान् श्रृङ्गवांश्च यः ।
जम्बूद्वीपप्रमाणेन ऋषभः परिकीर्त्यते ॥२३॥
तस्माद्द्वादशभागेन हेमकूटोऽपि हीयते ।
हिमवान् विंशभागेन तस्मादेव प्रहीयते ॥
अष्टाशीतिसहस्राणि हेमकूटो महागिरिः ॥२४॥
अशीतिर्हिमवांश्चैल आयतः पूर्वपश्चिमे! ।
द्वीपस्य मण्डलीभावाद्ध्रासवृद्धी प्रकीर्त्तिते ॥२५॥
वर्षाणां पर्वतानाञ्च यथाभेदं तथोत्तरम् ।
तेषां मध्ये जनपदास्तानि वर्षाणि सप्त वै ॥२६॥
प्रपातविषमेस्तैस्तु पर्वतैरावृतानि तु ।
सप्त तानि नदीभेदैरगम्यानि परस्परम् ॥२७॥
वसन्ति तेषु सत्वानि नानाजातीनि सर्वशः ।
इमं हैमवतं वर्षं भारतं नाम विश्रुतम् ॥२८॥
हेमकूटं परं तस्मान्नाम्ना किं पुरुषं स्मृतम् ।
हेमकूटाच्च निषधं हरिवर्षं तदुच्यते ॥२९॥
हरिवर्षात्परञ्चापि मेरोस्तु तदिलावृतम् ।
इलावृतात्परं नीलं रम्यकं नाम विश्रुतम् ॥३०॥
रम्यकादपरं श्वेतं विश्रुतं तद्धिरण्यकम् ।
हिरण्यकात्परञ्चैव श्रृङ्गशाकं कुरं स्मृतम् ॥३१॥
धनुः संस्थे तु विज्ञेयो देवर्षे! दक्षिणोत्तरे ।
दीर्घाणि तस्य चत्वारि मध्यमं तदिलावृतम् ॥३२॥
पूर्वतो निषधस्येदं वेद्यर्द्धं दक्षिणं स्मृतम् ।
परन्त्विलावृतं पश्चाद्वेद्यर्द्धन्तु तदुत्तरम् ॥३३॥
तयोर्मध्ये तु विज्ञेयो मेरुर्यत्र त्विलावृतम् ।
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥३४॥
उद्गायतो महाशैलो माल्यवान् नाम पर्वतः ।
द्वात्रिंशता सहस्रेण प्रतीच्यां सागरानुगः ॥३५॥
माल्यवान् वै सहस्रैक आनील निषधायतः ।
द्वात्रिंशत्त्वेवमप्युक्तः पर्वतो गन्धमादनः ॥३६॥
परिमण्डलयोर्मध्ये मेरुः कनकपर्वतः ।
चातुर्वर्ण्यसमोवर्णश्चतुरस्रः समुच्छ्रिता ॥३७॥
नानावर्णः सपार्श्वेषु पूर्वान्ते श्वेत उच्यते ।
पीतन्तु दक्षिणं तस्य भृङ्गिपत्रनिभम्परम् ।
उत्तरं तस्य रक्तं वा इति वर्णसमन्वितः ॥३८॥
मेरुस्तु शुशुभे दिव्यो राजवत्स तु वेष्टितः ।
आदित्यतरुणाभासो विधूम इव पावकः ॥३९॥
योजनानां सहस्राणि चतुराशीति उच्छ्रितः ।
प्रविष्टः षोड़शाधस्तादष्टाविंशतिविस्तृतः ॥४०॥
विस्तराद्द्विगुणश्चास्य परीणाहः समन्ततः ।
स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः ॥४१॥
भुवनैरावृतः सर्वैर्जातरूपपरिष्कृतैः ।
तत्र देवगणाश्चैव गन्धर्वासुरराक्षसाः ॥
शैलराजे प्रमोदन्ते सर्वतोऽप्सरसाङ्गणैः ॥४२॥
स तु मेरुः परिवृतो भुवनैर्भूतभावनैः ।
यस्येमे चतुरो देशा नानापार्श्वेषु संस्थिताः ॥४३॥
भद्राश्वं भारतञ्चैव केतुमालञ्च पश्चिमे ।
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥४४॥
विष्कम्भपर्वतास्तद्वन्मन्दरो गन्धमादनः ।
विपुलश्च सुपार्श्वश्च सर्वरत्नविभूषितः ॥४५॥
अरुणोदं मानसञ्च सितोदं भद्रसंज्ञितम् ।
तेषामुपरि चत्वारि सरांसि च वनानि च ॥४६॥
तथा भद्रकदम्बस्तु पर्वते गन्धमादने ।
जम्बूवृक्षस्तथाश्वत्थो विपुलोऽथ वटः परम् ॥४७॥
गन्धमादनपार्श्वे तु पश्चिमेऽमरगण्डिकः ।
द्वात्रिंशति सहस्राणि योजनैः सर्वतः समः ॥४८॥
तत्र ते शुभकर्माणः केतुमालाः परिश्रुताः ।
तत्र कालानलाः सर्वे महासत्वा महाबलाः ॥४९॥
स्त्रियश्चोत्पलवर्णाभाः सुन्दर्यः प्रियदर्शनाः ।
तत्र दिव्यो महावृक्षः पनसः पत्रभासुरः ॥५०॥
तस्य पीत्वा फलरसं संजीवन्ति समायुतम् ।
तस्य माल्यवतः पार्श्वे पूर्वे पूर्वातुगण्डिका
द्वात्रिंशच्च सहस्राणि तत्राणि शतमुच्यते ॥५१॥
भद्रश्च तत्र विज्ञेयो नित्यं मुदितमानसः ।
भद्रमालवनं तत्र कालाम्रश्च महाद्रुमः ॥५२॥
तत्र ते पुरुषाः श्वेता महासत्वा महाबलाः ।
स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः ॥५३॥
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः ।
चन्द्रशीतलगात्राश्च स्त्रियोह्युत्पलगन्धिकाः ॥५४॥
दशवर्षसहस्राणि आयुस्तेषामनामयम् ।
कालाम्रस्य रसं पीत्वा ते सर्वे स्थिरयौवनाः ॥५५॥
सूत उवाच ।
इत्युक्तवान् ऋषीन् ब्रह्मा वर्षाणि च निसर्गतः ।
पूर्वं ममानुग्रहकृद्भूयः किं वर्णयामि वः ॥५६॥
एकाहाज्जायते युग्मं समञ्चैव विवर्द्धते ।
समं रूपं च शीलञ्च समञ्चैव म्रियन्ति वै ॥५७॥
ऋषय ऊचुः ।
पूर्वापरौ समाख्यातौ यौ देशौ तौ त्वया मुने! ।
उत्तराणाञ्च वर्षाणां पर्वतानाञ्च सर्वशः ॥५८॥
आख्याहिनो यथातथ्यं ये च पर्वतवासिनः ।
एवमुक्तस्तु ऋषिभिस्तेभ्यस्त्वाख्यातवान् पुनः ॥५९॥
सूत उवाच ।
श्रृणुध्वं यानि वर्षाणि पूर्वोक्तानि च वै मया ।
दक्षिणेन तु नीलस्य निषधस्योत्तरेणतु ॥६०॥
वर्षं रमणकं नाम जायन्ते यत्र वै प्रजाः ।
रतिप्रधाना विमला जायन्ते यत्र मानवाः ॥
शुक्लाभिजनसम्पन्नाः सर्वे ते प्रियदर्शनाः ॥६१॥
तत्रापि च महावृक्षो न्यग्रोधो रोहिणो महान् ।
तस्यापि ते फलरसं पिबन्तो वर्तयन्ति हि ॥६२॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
जीवन्ति ते महाभागाः सदा हृष्टा नरोत्तमाः ॥६३॥
उत्तरेण तु श्वेतस्य पार्श्वे श्रृङ्गस्य दक्षिणे ।
वर्षं हिरण्वतं नाम यत्र हैरण्वती नदी ॥६४॥
महाबला महासत्वा नित्यं मुदितमानसाः ।
शुक्लाभिजनसम्पन्नाः सर्वे च प्रियदर्शनाः ॥६५॥
एकादशसहस्राणि वर्षाणां ते नरोत्तमाः ।
आयुः प्रमाणां जीवन्ति शतानि दशपञ्च च ॥६६॥
तस्मिन् वर्षे महावृक्षौ लिकुचः पत्रसंश्रयः ।
तस्य पीत्वा फलरसं तत्र जीवन्ति मानवाः ॥६७॥
श्रृङ्गसाह्वस्य श्रृह्गाणि त्रीणि तानि महान्ति वै ।
एकं मणियुतं तत्र एकन्तु कनकान्वितम् ॥
सर्वरत्नमयं चैकं भुवनैरुपशोभितम् ॥६८॥
उत्तरे चास्य श्रृङ्गस्य समुद्रान्ते च दक्षिणे ।
कुरवस्तत्रतद्वर्षं पुण्यं सिद्धनिषेवितम् ॥६९॥
तत्र वृक्षा मधुफला दिव्यामृतमयापगाः ।
वस्त्राणि ते प्रसूयन्ते फलैश्चाभरणानि च ॥७०॥
सर्वकामप्रदातारः केचिद् वृक्षा मनोरमाः ।
अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः ॥
ये रक्षन्ति सदा क्षीरं षट्पञ्चामृतोपमम् ॥७१॥
सर्वा मणिमयी भूमिः सूक्ष्मा काञ्चनबालुका ।
सर्वत्र सुखसंस्पर्शा निःशब्दाः पवनाः शुभाः ॥७२॥
देवलोकच्युतास्तत्र जायन्ते मानवाः शुभाः ।
शुक्लाभिजनसम्पन्नाः सर्वे ते स्थिरयौवनाः ॥७३॥
मिथुनानि प्रजायन्ते स्त्रियश्चाप्सरसोपमाः ।
तेषान्ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतोपमम् ॥७४॥
एकाहाज्जायते युग्मं समञ्चैव विवर्द्धते ।
समं रूपं च शीलञ्च समञ्चैव म्रियन्ति वै ॥७५॥
एकैकमनुरक्ताश्च चक्रवाकमिव ध्रुवम् ।
अनामया ह्यशोकाश्च नित्यं मुदितमानसाः ॥७६॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
जीवन्ति च महासत्वा न चान्या स्त्री प्रवर्त्तते ॥७७॥
सूत उवाच ।
एवमेव निसर्गो वै वर्षाणां भारते युगे ।
द्रृष्टः परमधर्मज्ञाः किम्भूयः कथयामि वः ॥७८॥
आख्यातास्त्वेवमृषयः सूतपुत्रेण धीमता ।
उत्तरश्रवणे भूयः पप्रच्छ्रुः सूतनन्दनम् ॥७९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP