संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ३९

मत्स्यपुराणम् - अध्यायः ३९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


ययात्यष्टकसम्वादवर्णनम्  ।

अष्टक उवाच  ।
यदा वसन्नन्दने कामरूपे संवत्सराणामयुतं शतानाम्  ।
किं कारणं कार्तयुगप्रधान हित्वा तद्वै वसुधामन्वपद्यः ॥१॥

ययातिरुवाच  ।
ज्ञाति सुहृत् स्वजनो यो यथेह क्षीणे वित्ते त्यज्यते मानवैर्हिः  ।
तथा स्वर्गे क्षीणपुण्यं मनुष्यन्त्यजन्ति सद्यः खेचरा देवसंघाः ॥२॥

अष्टक उवाच  ।
कथं तस्मिन् क्षीणपुण्या भवन्ति संमुह्यते मेऽत्रमनोऽतिमात्रम्  ।
किं विशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥३॥

ययातिरुवाच  ।
इमं भौमं नरकन्ते पतन्ति लालप्यमाना नरदेव!सर्वे  ।
ते कङ्कगोमायुपलाशनार्थं क्षितौ विवृद्धिं बहुधा प्रयान्ति ॥४॥

तस्मादेवं वर्जनीयं नरेन्द्र दुष्टं लोके गर्हणीयञ्च कर्म्म  ।
आख्यातं ते पार्थिव सर्वमेतत् भूयश्चेदानीं वद किन्ते वदामि ॥५॥

अष्टक उवाच  ।
यदा तु तांस्ते वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतङ्गाः  ।
कथं भवन्ति कथमा भवन्ति त्वत्तो भीमं नरकमहं श्रृणोमि ॥६॥

ययातिरुवाच  ।
ऊर्ध्वं देहा कर्म्मणो जृम्भमाणात् व्यक्तं पृथिव्यामनुसञ्चरन्ति  ।
इमं भौमं नरकन्ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान् ॥७॥

षष्टिं सहस्राणि पतन्ति व्योम्नि तथाशीतिञ्चैव तु वत्सराणाम्  ।
तान्वै तुदन्ते प्रपतन्तः प्रयातान् भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ॥८॥

अष्टक उवाच  ।
यदेतांस्ते संपततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः  ।
कथं भवन्ति कथमाभवन्ति कथं भूगर्बभूता भवन्ति ॥९॥

ययातिरुवाच  ।
असृग्रेतः पुष्परसानुयुक्तं अन्वेति सद्यः पुरुषेण सृष्टम्  ।
तद्वै तस्यारज आपद्यते च स गर्भभूतः समुपैति तत्र ॥१०॥

वनस्पतीनोषधींश्चाविशन्ति अपो वायुं पृथिवीञ्चान्तरिक्षम्  ।
चतुष्पदं द्विपदञ्चापि सर्व एवं भूता गर्भभूता भवन्ति ॥११॥

अन्यद्वपुर्विदधातीह गर्भे उताहो स्वित् स्वेन कामेन याति  ।
आपद्यमानो नरयोनिमेतामाचक्ष्व मे संशयात् पृच्छतस्त्वम् ॥१२॥

शरीरदेहादिसमुच्छ्रयञ्च चक्षुः श्रोत्रे लभते केन संज्ञाम्  ।
एतत् सर्वं तात आचक्ष्व पृष्टः क्षेत्रज्ञं त्वां मन्यमाना हि सर्वे ॥१३॥

ययातिरुवाच  ।
वायुः समुत्कर्षति गर्भयोनिमृतौ रेतः पुष्परसानुयुक्तम्  ।
स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम् ॥१४॥

स जायमानोऽथ गृहीतगात्रः संज्ञामधिष्ठाय ततो मनुष्यः  ।
स श्रोत्राभ्यां वेदयतीह शब्दं स वै रूपं पश्यति चक्षुषा च ॥१५॥

घ्राणेन गन्धं जिह्वयाथो रसञ्च त्वचा स्पर्शमनसा देवभावम्  ।
इत्यष्टके होपचितं हि विद्धि महात्मनः प्राणभृतः शरीरे ॥१६॥

अष्टक उवाच  ।
यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा  ।
अभावभूतः स विनाशमेत्य केनात्मानं चेतयते पुरस्तात् ॥१७॥

ययातिरुवाच  ।
हित्वा सोऽसून् सुप्तवन्निष्ठितत्वात् पुरोधाय सुकृतं दुष्कृतञ्च  ।
अन्यं योनिं पुण्यपापानुसारां हित्वा देहं भजते राजसिंह ॥१८॥

पुण्यां योनिं पुण्यकृतो विशन्ति पापां योनिं पापकृतो व्रजन्ति  ।
कीटाः पतङ्गाश्च भवन्ति पापान्न मे विवक्षास्ति महानुभाव ॥१९॥

चतुष्पदा द्विपदाः पक्षिणश्च तथा भूता गर्भभूता भवन्ति  ।
आख्यातमेतन्निखिलं हि सर्वं भूयस्तु किं पृच्छसि राजसिंह ॥२०॥

अष्टक उवाच  ।
किंस्वित् कृत्वा लभते तात संज्ञां मर्त्यः श्रेष्ठां तपसा विद्यया वा  ।
तन्मे पृष्टः शंस सर्वं यथावच्छुभान् लोकान् येन गच्छेत् क्रमेण ॥२१॥

ययातिरुवाच  ।
तपश्च दानञ्च शमो दमश्च ह्रीरार्जवं सर्वभूतानुकम्पा  ।
स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुसांम् ॥२२॥

सर्वाणि चैतानि यथोदितानि तपः प्रधानान्यभिमर्शकेन  ।
नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः ॥२३॥

अधीयानः पण्डितं मन्यमानो यो बिद्यया हन्ति यशः परस्य  ।
तस्यान्तवन्तः पुरुषस्य लोकानचास्य तद् ब्रह्मफलं ददाति ॥२४॥

चत्वारि कर्माणि भयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि  ।
मानाग्निहोत्रमुतमानमौनं मानेनाधीतमुतमानयज्ञः ॥२५॥

न मन्यमानो मुदमाददीत न सन्तापं प्राप्नुयाच्चावमानात्  ।
सन्तः सतः पूजयन्तीह लोके नासाधवः साधु बुद्धिं लभन्ते ॥२६॥

इति दद्यादिति यजेदित्यधीयीत मे श्रुतम्  ।
इत्येतान्यभयान्याहुस्तान्यवर्जानि नित्यशः ॥२७॥

येनाश्रयं वेदयन्ते पुराणां मनीषिणो मानसे मानयुक्तम्  ।
तन्निःश्रेयस्तेन संयोगमेत्य परां शान्तिं प्राप्नुयुः प्रेत्य चेह ॥२८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP