मत्स्यपुराणम् - अध्यायः २८
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
शुक्रकृतदेवयानीसान्त्वनम् ।
शुक्र उवाच ।
यः परेषां नरो नित्यमतिवादां स्तितिक्षते ।
देवयानि! विजानीहि तेन सर्वमिदञ्जितम् ॥१॥
यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा ।
संयते त्यज्यते सद्भिर्नयो रश्मिषु लम्बते ॥२॥
यः समुत्पतितं क्रोधमक्रोधेन नियच्छति ।
देवयानि विजानीहि तेन सर्वमिदञ्जितम् ॥३॥
यः समुत्पतितं कोपं क्षमयैव निरस्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥४॥
यस्तु भावयते धर्मं योनिमात्रं तितिक्षति ।
यश्च तप्तो न तपति भृशं सोऽर्थस्य भाजनम् ॥५॥
यो यजेदश्वमेधेन मासि मासि शतं समाः ।
यस्तु कुप्येन्न सर्वस्य तयोरक्रोधनो वरः ॥६॥
ये कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः ।
नैतत् प्राज्ञस्तु कुर्वीत विदुस्तेन बलाबलम् ॥७॥
देवयान्युवाच ।
वेदाहन्तात! बालापि कार्याणान्तु गतागतम् ।
क्रोधे चैवातिवादे वा कार्यस्यापि बलाबले ॥८॥
शिष्यस्याशिष्यवृत्तं हि न क्षन्तव्यं बुभूषुणा ।
असत्संकीर्णवृत्तेषु वासो मम न रोचते ॥९॥
पुंसो ये नाभिनन्दन्ति वृत्तेनाभिजनेन च ।
न तेषु निवसेत् प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥१०॥
ये नैनमभिजानन्तु वृत्तेनाभिजनेन च ।
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥११॥
तन्मे मथ्नाति हृदयमग्निकल्पमिवारणिम् ।
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः ॥१२॥
नह्यतो दुष्करं मन्ये तात लोकेष्वपि त्रिषु ।
या सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥१३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP