मत्स्यपुराणम् - अध्यायः १६
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
श्राद्धप्रकरणम् ।
सूत उवाच ।
श्रुत्वैतत्सर्वमखिलं मनुः पप्रच्छ केशवम् ।
श्राद्धकालञ्च विविधं श्राद्धभेदं तथैव च ॥१॥
श्राद्धेषु भोजनीया ये ये च वर्ज्या द्विजातयः ।
कस्मिन्वासरभागेवा पितृभ्यः श्राद्धमाचरेत् ॥२॥
कस्मिन्दत्तं कथं याति श्राद्धन्तु मधुसूदन ।
विधिना केन कर्त्तव्यं कथं प्रीणाति तत्पितॄन् ॥३॥
मत्स्य उवाच ।
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।
पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन् ॥४॥
नित्यन्नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते ।
नित्यं तावत्प्रवक्ष्यामि अर्घ्यावाहनवर्जितम् ॥५॥
अदैवं तद्विजानीयात् पार्वणं पर्वसु स्मृतम् ।
पार्वणं त्रिविधं प्रोक्तं श्रृणु तावन्महीपते! ॥६॥
पार्वणे ये नियोज्यास्तु ताञ्छृणुष्व नराधिप! ॥
पञ्चाग्निः स्नातकश्चैव त्रिसुपर्णः षडङ्गवित् ।
श्रोत्रियः श्रोत्रियसुतो विधिवाक्यविशारदः ॥७॥
सर्वज्ञो वेदविन्मन्त्री ज्ञातवंशः कुलान्वितः ।
पुराणवेत्ता धर्म्मज्ञः स्वाध्यायजपतत्परः ॥८॥
शिवभक्तः पितृपरः सूर्य्यभक्तोऽथ वैष्णवः ॥९॥
ब्रह्मण्यो योगविच्छान्तो विजितात्मा च शीलवान् ।
भोजयेच्चापि दौहित्रं यत्नतः स्वसुहृद्गुरून् ॥१०॥
विद्यतिं मातुलं बन्धुमृत्विगाचार्यसोमपान् ।
यश्च व्याकुरुते वाक्यं यश्च मीमांसतेऽध्वरम् ॥११॥
सामस्वरविधिज्ञश्च पङ्क्तिपावनपावनः ।
सामगोब्रह्मचारी च वेदयुक्तोऽथ ब्रह्मवित् ॥१२॥
यत्रैते भुञ्जते श्राद्धे तदेव परमार्थवित् ।
एते भोज्याः प्रयत्नेन वर्जनीयान्निबोध मे ॥१३॥
पतितोऽभिशस्तः क्लीबश्च पिशुनव्यङ्गरोगिणः ।
कुनखीश्यावदन्तश्च कुण्डगोलाश्वपालकाः ॥१४॥
परिवित्तिर्नियुक्तात्मा प्रमत्तोन्मत्तदारुणाः ।
वैडाली वकवृत्तिश्च दम्भो देवलकादयः ॥१५॥
कृतध्नान्नास्तिकांस्तद्वन्म्लेच्छदेशनिवासिनः ।
त्रिशङ्कर्वर्वरद्राववीतद्रविडकोकणान् ॥१६॥
वर्जयेल्लिङ्गिनः सर्वान् श्राद्धकाले विशेषतः ।
पूर्वेद्युरपरेद्युर्वा विनीतात्मा निमन्त्रयेत् ॥१७॥
निमन्त्रितान् हि पितर उपतिष्ठन्ति तान् द्विजान् ।
वायुभूतानुगच्छन्ति तथासीनानुपासते ॥१८॥
दक्षिणं जानुमालभ्य त्वं मया तु निमन्त्रितः ।
एवं निमन्त्र्य नियमं श्रावयेत्पितृबान्धवान् ॥१९॥
अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः ।
भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा ॥२०॥
पितृयज्ञं विनिर्वर्त्य तर्पणाख्यन्तु योऽग्निमान् ।
पिण्डान्वाहार्यकं कुर्य्याच्छ्राद्धमिन्दुक्षये मुदा ॥२१॥
गोमयेनोपलिप्ते तु दक्षिणप्रवणे स्थले ।
श्राद्धं समाचरेद् भक्त्या गोष्ठे वा जलसन्निधौ ॥२२॥
अग्निमान्निर्वपेत्पित्र्यं चरुञ्चसाममुष्टिभिः ।
पितृभ्यो निर्वपामीति सर्वंदक्षिणतो न्यसेत् ॥२३॥
अभिधार्यं ततः कुर्य्यान्निर्वापत्रयमग्रतः ।
तेपि तस्यायताः कार्य्याश्चतुरङ्गुलविस्तृताः ॥२४॥
दर्व्वीत्रयन्तु कुर्व्वीत खादिरं रजतान्वितम् ।
रत्निमात्रं परिश्लक्ष्णं हस्ताकाराग्रमुत्तमम् ॥२५॥
उदपात्रञ्च कांस्यञ्च मेक्षणञ्चसमित्कुशान् ।
तिलाः पात्राणिसद्वासो गन्ध धूपानुलेपनम् ॥२६॥
आहरेदपसव्यन्तु सर्वं दक्षिणतः शनैः ।
एवमासाद्य तत्सर्वं भवनस्याग्रतो भुवि ॥२७॥
गोमयेनोपलिप्तायां गोमूत्रेण तु मण्डलम् ।
अक्षताभिः सपुष्पाभिस्तदभ्यर्च्यापसव्यवत् ॥२८॥
विप्राणां क्षालयेत्पादावभिनन्द्य पुनः पुनः ।
आसनेषूपक्लृप्तेषु दर्भवत्सु विधानवत् ॥२९॥
उपस्पृष्टोदकान्विप्रानुपवेश्यानुमन्त्रयेत् ।
द्वौ दैवे पितृकृत्ये त्रीनेकैकमुभयत्र च ॥३०॥
भोजयेदीश्वरोऽपीह न कुर्य्याद्विस्तरं बुधः ।
दैवपूर्वं नियोज्याथ विप्रानर्घ्यादिना बुधः ॥३१॥
अग्नौ कुर्यादनुज्ञातो विप्रे विप्रो यथाविधि ।
स्वगृह्योक्तविधानेन कांस्ये कृत्वा चरुं ततः ॥३२॥
अग्नीषोमयमाभ्यान्तु कुर्यादाप्यायनं बुधः ।
दक्षिनाग्नौ प्रतीते वा य एकाग्निर्द्विजोत्तमः ॥३३॥
यज्ञोपवीती निर्वर्त्य ततः पर्युक्षणादिकम् ।
प्राचीनावीतिना कार्यमतः सर्वं विजानता ॥३४॥
षट्चतस्माद्धविः शेषात् पिण्डा न् कृत्वा ततोदकम् ।
दद्यादुदकपात्रैस्तु सतिलं सव्यपाणिना ॥३५॥
जान्वाच्य सव्यं यत्नेन दर्भयुक्तो विमत्सरः ।
विधाय लेखा यत्नेन निर्वापेष्ववनेजनम् ॥३६॥
दक्षिणाभिमुखः कुर्य्यात्करे दर्वीं निधाय वै ।
निधाय पिण्डमेकैकं सर्वदर्भेष्वनुक्रमात् ॥३७॥
निनयेदथ दर्भेषु नामगोत्रानुकीर्तनैः ।
तेषु दर्भेषु तं हस्तं निमृज्याल्लोपभागिनाम् ॥३८॥
तथैव च ततः कुर्यात् पुनः प्रत्यवनेजनम् ।
षडप्येतान्नमस्कृत्य गन्ध धूपार्हणादिभिः ॥३९॥
एवमावाह्य तत् सर्वं वेदमन्त्रैर्यथोदितैः ।
एकाग्नेरेक एव स्यान्निर्वापोदर्विका तथा ॥४०॥
ततः कृत्वान्तरे दद्यात् पत्नीभ्योऽन्नं कुशेषु सः ।
तद्वत् पिण्डादिके कुर्यादावाहन विसर्जनम् ॥४१॥
ततो गृहीत्वा पिण्डेभ्यो मात्राः सर्वाः क्रमेण तु ।
तानेव विप्रान् प्रथमं प्राशयेद्यत्नतो नरः ॥४२॥
यस्मादन्नात् धृता मात्रा भक्षयन्ति द्विजातयः ।
अन्वाहार्यकमित्युक्तं तस्मात् तच्चन्द्रसंक्षये ॥४३॥
पूर्वं दत्त्वातु तद्धस्ते सपवित्रं तिलोदकम् ।
तत् पिण्डाग्रं प्रयच्छेत स्वधैषामस्त्विति ब्रुवन् ॥४४॥
वर्णयन् भोजयेदन्नं मिष्टं पूतञ्च सर्वदा ।
वर्जयेत् क्रोधपरतां स्मरन्नारायणं हरिम् ॥४५॥
तृप्तान् ज्ञात्वा ततः कुर्याद्विकिरन् सार्ववर्णिकम् ।
सोदकं चान्नमुद्वृत्य सलिलं प्रक्षिपेद् भुवि ॥४६॥
आचान्तेषु पुनर्दद्याज्जलपुष्पाक्षतोदकम् ।
स्वस्तिवाचनकं सर्वं पिण्डोपरि समाहरेत् ॥४७॥
देवायत्तं प्रकुर्वीत श्राद्धनाशोऽन्यथा भवेत् ।
विसृज्य ब्राह्मणांस्तद्वत् तेषां कृत्वा प्रदक्षिणम् ॥४८॥
दक्षिणां दिशमाकाङ्क्षन् पितॄन् याचेत मानवः ।
दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ॥४९॥
श्रद्धा च नो माव्यगमत् बहुदेयञ्च नोऽस्त्विति ।
अन्नञ्च नो बहुभवेदतिथींश्च लभामहे ॥५०॥
याचितारश्च नः सन्तु मा च याचिष्म कञ्चन ।
एतदस्त्विति तत् प्रोक्तमन्वाहार्यन्तु पार्वणम् ॥५१॥
यथेन्दुसंक्षये तद्वदन्यत्रापि निगद्यते ।
पिण्डांस्तुगोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ॥५२॥
विप्राग्रतो वा विकिरेद्वयोभिरभिवाशयेत् ।
पत्नी तु मध्यमं पिण्डं प्राशयेद्विनयान्विता ॥५३॥
आधत्त पितरो गर्भमत्र सन्तानवर्धनम् ।
तावदुच्छेषणं तिष्ठेद्यावद्विप्रा विसर्जिताः ॥५४॥
वैश्वदेवं ततः कुर्यान्निवृत्ते पितृकर्मणि ।
इष्टैः सह ततः शान्तो भुञ्जीत पितृसेवितम् ॥५५॥
पुनर्भोजनमध्वानं यानमायासमैथुनम् ।
श्राद्धकृच्छ्रादभुक् चैव सर्वमेतद्विवर्जयेत् ॥५६॥
स्वाध्यायं कलहं चैव दिवा स्वप्नञ्च सर्वदा ।
अनेन विधिना श्राद्धं निरद्वस्येह निर्वपेत् ॥५६॥
कन्याकुम्भवृषस्थेऽर्के कृष्णपक्षेषु सर्वदा ।
यत्र यत्र प्रदातव्यं सपिण्डीकरणात्परम् ।
तत्रानेन विधानेन देयमग्निमता सदा ॥५७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP