मत्स्यपुराणम् - अध्यायः १७६
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
देवासुरसंग्रामवर्णनम् ।
मत्स्य उवाच ।
एवमस्त्विति संहृष्टः शक्रस्त्रिदशवर्धनः ।
सन्दिदेशाग्रतः सोमं युद्धाय शिशिरायुधम् ॥१॥
गच्छ सोम! सहायत्वं कुरुपाशधरस्य वै ।
असुराणां विनाशाय जयार्थञ्च दिवौकसाम् ॥२॥
त्वं मत्तः प्रतिवीर्यश्च ज्योतिषाञ्चेश्वरेश्वरः ।
त्वन्मयं सर्वलोकेषु रसं रसविदो विदुः॥३॥
क्षयवृद्धी तव व्यक्ते सागरस्येव मण्डले ।
परिवर्त्तस्यहोरात्रं कालं जगति योजयन्॥४॥
लोकच्छायामयः लक्ष्म तवाङ्कः शशसन्निभः ।
न विदुः सोमदेवापि ये च नक्षत्रयोनयः ॥५॥
त्वमादित्यपथादूर्ध्वं ज्योतिषां चोपरि स्थितः ।
तमः प्रोत्सार्य सहसा भासयस्यखिलं जगत् ॥६॥
अधिकृत्कालयोगात्मा इष्टो यज्ञस्य सोऽव्ययः ।
औषधीशः क्रियायोनिरब्जयोनिरनुष्णभाः ॥७॥
शीतांशुरमृताधार श्चपलः श्वेतवाहनः ।
त्वं कान्तिः कान्तिवपुषा त्वं सोमः सोमपायिनाम् ॥८॥
सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वमृक्षराट् ।
तद्गच्छत्वं महासेन! वरुणेन वरूथिना
शमयत्वासुरीं मायां यया दह्याम संयुगे ॥९॥
सोम उवाच ।
यन्मां वदसि युद्धार्थे देवराज! वरप्रद! ।
एवं वर्षामि शिशिरन्दैत्यमायापकर्षणम् ॥१०॥
एतान् मच्छीतनिर्दग्धान् पश्य स्वहिमवेष्टितान् ।
विमायान् विमदांश्चैव दैत्यसिंहान्महाहवे ॥११॥
तेषां हिमकरोत्सृष्टाः सपाशा हिमवृष्टयः ।
वेष्टयन्तिस्म तान् घोरान्दैत्यान् मेघगणा इव ॥१२॥
तौ पाशशीतांशुधरौ वरुणेन्दू महाबलौ ।
जघ्नतुर्हिमपातैश्च पाशपातैश्च दानवान् ॥१३॥
द्वावम्बुनाथौ समरे तौ पाश हिमयोधिनौ ।
मृधे चेरतुरम्भोभिः क्षुब्धाविव महार्णवौ ॥१४॥
ताभ्यामाप्लावितं सैन्यं तद्दानवमदृश्यत ।
शमयामासतुर्मायां देवौ दैत्येन्द्र निर्मिताम् ॥१५॥
शीतांशुजालनिर्दग्धाः पाशैश्च स्पन्दिता रणे ।
न शेकुश्चलितुं दैत्या विशिरस्का इवाद्रयः ॥१६॥
शीतांशु निहतास्ते तु दैत्यास्तोय हिमार्दिताः ।
हिमाप्लावित सर्वाङ्गा निरूष्माण इवाग्नयः ॥१७॥
तेषान्तु दिवि दैत्यानां विपरीत प्रभाणि वै ।
विमाननि विचित्राणि प्रपतन्त्युत्पतन्ति च ॥१८॥
तान् पाशहस्तग्रथितां श्छादितां श्छीतरश्मिभिः ।
मयो ददर्श मायावी दानवान्दिवि दानवः ॥१९॥
स शिलाजालविततां खङ्गचर्माट्ट हासिनीम् ।
पादपोत्कटकूटाग्रां कन्दराकीर्ण काननाम् ॥२०॥
स शिलाजालविततां खङ्गचर्माट्टहासिनीम् ।
पादपोत्कटकूटाग्रां कन्दराकीर्ण काननाम् ॥२१॥
सिंहव्याघ्रगणाकीर्णां नदद्भिर्गज यूथपैः ।
ईहामृगगणाकीर्णां पवनाघूर्णितद्रुमाम् ॥२२॥
निर्मितां स्वेन यत्नेन कूजितां दिवि कामगाम् ।
प्रथितां पार्वतीमायामसृजत्ससमन्ततः ॥२३॥
सासिशब्दैः शिलावर्षैः सम्पतद्भिश्च पादपैः ।
जघान देवसङ्घांश्च दानवांश्चाप्यजीवयत् ॥२४॥
नैशाकरी वारुणी च मायेऽन्तर्दधतुस्ततः ।
असिभिश्चायसगणै किरन् देवगणान् रणे ॥२५॥
शाश्मयन्त्रायुध घना द्रुमपर्वतसङ्कटा ।
अभवत् घोरसञ्चार्या पृथिवी पर्वतैरिव ॥२६॥
अश्मना प्रहताः केचित् शिलाभिः शकलीकृताः ।
नानिरुद्धो द्रुमगणै देवोऽदृश्यत कश्चन ॥२७॥
तदपध्वस्त धनुषं भग्न प्रहरणाविलम् ।
निष्प्रयत्नं सुरानीकं वर्जयित्वा गदाधरम् ॥२८॥
स हि युद्धगतः श्रीमानीशानोऽश्म व्यकम्पत ।
सहिष्णुत्वाज्जगत्स्वामी न चुक्रोध गदाधरः ॥२९॥
कालज्ञः कालमेघाभः समीक्षत् कालमाहवे ।
देवासुरविमर्दन्तु द्रष्टुकामस्तदा हरिः ॥३०॥
ततो भगवता दृष्टौ रणे पावकमारूतौ ।
चोदितौ विष्णुवाक्येन तौ मायामपकर्षताम् ॥३१॥
ताभ्यामुद्भ्रान्त वेगाभ्यां प्रवृद्धाभ्यां महाहवे ।
दग्धा सा पार्वती माया भस्मीभूता ननाश ह ॥३२॥
सोऽनिलोऽनलसंयुक्तः सोऽनलश्चानिलाकुलः ।
दैत्यसेनां ददहतुर्युगान्तेष्विवमूर्च्छितौ ॥३३॥
वायुः प्रधावितस्तत्र पश्चादग्निस्तु मारुतम् ।
चेरतुर्दानवानीके क्रीडन्तावनिलानलौ॥३४॥
भस्मावयवभूतेषु प्रपतत्सूत्पतत्सु च ।
दानवानां विमानेषु निपतत्सु समन्ततः ॥३५॥
वातस्कन्धापविद्धेषु कृतकर्म्मणि पावके ।
मया वधे निवृत्ते तु स्तूयमाने गदाधरे ॥३६॥
निष्प्रयत्नेषु दैत्येषु त्रैलोक्ये मुक्तबन्धने ।
संप्रहृष्टेषु देवेषु साधु साध्विति सर्वशः ॥३७॥
जये दशशताक्षस्य दैत्यानाञ्च पराजये ।
दिक्षु सर्वासु शुद्धासु प्रवृत्ते धर्म्मविस्तरे ॥३८॥
अपावृते चन्द्रमसि स्वस्थानस्थे दिवाकरे ।
प्रकृतिस्थेषु लोकेषु त्रिषु चारित्रबन्धुषु॥३९॥
यजमानेषु भूतेषु प्रशान्तेषु च पाप्मसु ।
अभिन्नबन्धेन मृत्यौ हूयमाने हुताशने ॥४०॥
यज्ञशोभिषु देवेषु स्वर्गार्थं दर्शयत्सु च ।
लोकपालेषु सर्वेषु दिक्षु संयानवर्तिषु ॥४१॥
भावे तपसि सिद्धानामभावे पापकर्म्मणाम् ।
देवपक्षे प्रमुदिते दैत्यपक्षे विषीदति ॥४२॥
त्रिपादविग्रहे धर्मे अधर्मे पादविग्रहे ।
अपावृत्ते महाद्वारे वर्त्तमाने च सत्पथे ॥४३॥
लोके प्रवृत्ते धर्मेषु सुधर्मेष्वाश्रमेषु च ।
प्रजारक्षणयुक्तेषु भ्राजमानेषु राजसु ॥४४॥
प्रशान्तकल्मषे लोके शान्ते तमसि दानवे ।
अग्निमारुतयोस्तत्र वृत्ते संग्राम कर्म्मणि ॥४५॥
तन्मया विपुला लोकास्ताभ्यां तज्जय कृत्क्रिया ।
पूर्वदेवभयं श्रुत्वा मारुताग्नि कृतं महत् ॥४६॥
कालनेमीति विख्यातो दानवः प्रत्यदृश्यत ।
भास्कराकारमुकुटः शिञ्जिता भरणाङ्गदः ॥४७॥
बाहुभिस्तुलयन् व्योम क्षिपन् पद्भ्यां महीधरान् ।
ईरयन्मुखनिश्वासैर्वृष्टियुक्तान् बलाहकान् ॥४८॥
तिर्यगायतरक्ताक्षं मन्दरोदग्र वर्चसम् ।
दिधक्षन्तमिवायान्तं सर्वान् देवगणान् मृधे ॥४९॥
तर्जयन्तं सुरगणां श्छादयन्तं दिशो दश ।
संवर्तकाले तृषितं दृष्टं मृत्युमिवोत्थितम् ॥५०॥
सुतलेनोच्छ्रयवता विपुलाङ्गुलि पर्वणा ।
लम्बाभरणपूर्णेन किञ्चिच्चलित कर्म्मणा ॥५१॥
उच्छ्रितेनाग्रहस्तेन दक्षिणेन वपुष्मता ।
दानवान् देवनिहतानुत्तिष्ठध्वमिति ब्रुवन् ॥५२॥
तं कालनेमिं समरे द्विषतां कालचेष्टितम् ।
वीक्षन्ते स्म सुराः सर्वे भयवित्रस्तलोचनाः ॥५३॥
तं वीक्षन्तिस्म भूतानि क्रमन्तं कालनेमिनम् ।
त्रिविक्रमाधिकमतं नारायणमिवापरम् ॥५४॥
सोऽत्युच्छ्रयपुरः पादमारुता घूर्णिताम्बरः ।
प्रक्रामन्नसुरो युद्धे त्रासयामास देवताः ॥५५॥
समयेनासुरेन्द्रेण परिष्वक्तस्ततो रणे ।
कालनेमिर्बभौ दैत्यः स विष्णुरिव मन्दरः ॥५६॥
अथ विव्यथिरे देवाः सर्वे शक्रपुरोगमा ।
कालनेमिं समायान्तं दृष्ट्वा कालमिवापरम्॥५७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP