संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ७३

मत्स्यपुराणम् - अध्यायः ७३

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


शुक्रगुरुप्रशान्तिकथनम् ।

पिप्पलाद उवाच ।
अथातः श्रृणु भूपाल! प्रति शुक्रं प्रशान्तये ।
यत्रारम्भेऽवसाने च तथा शुक्रोदये त्विहा ॥१॥

राजतेवाथ सौवर्णे कांस्यपात्रेऽथ वा पुनः ।
शुक्लपुष्पाम्बरयुते सिततण्डुलपूरिते ॥२॥

विधाय राजतं शुक्रं शुचि मुक्ताफलान्वितम् ।
मन्त्रेणानेन तत्सर्वं सामगाय निवेदयेत् ॥३॥

नमस्ते सर्वलोकेश! नमस्ते भृगुनन्दन!
कवे! सर्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमोऽस्तु ते ॥४॥

एवमस्योदये कुर्वन् यात्रादिषु च भारत! ।
सर्वान् कामानवाप्नोति विष्णुलोकेमहीयते ॥५॥

यावच्छुकस्य न हृता पूजा सापाल्यकैः शुभैः ।
वटकैः पूरिकाभिश्च गोधूमैश्चणकैरपि ।
तावदन्नं नचाश्नीयात् त्रिभिः कामार्थसिद्धये ॥६॥

तद्वद्वाचस्पतेः पूजां प्रवक्ष्यामि युधिष्ठिर! ।
सुवर्णपात्रे सौवर्णममरेशपुरोहितम् ॥७॥

पीतपुष्पाम्बरयुतं कृत्वा स्नात्वाथ सर्षपैः ।
पलाशाश्वत्थयोगेन पञ्चगव्यजलेन च ॥८॥

पीताङ्गरागवसनो घृतहोमन्तु कारयेत् ।
प्रणम्य च गवा सार्द्धं ब्राह्मणाय निवेदयेत् ॥९॥

नमस्तेऽङ्गिरसान्नाथ! वाक्‌पते! च बृहस्पते! ।
क्रूरग्रहैः पीडितानाममृताय नमो नमः ॥१०॥

संक्रान्तावस्य कौन्तेय! यात्रास्वभ्युदयेषु च ।
कुर्वन्‌ बृहस्पतेः पूजां सर्वान्‌ कामान्‌ समश्नुते ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP