मत्स्यपुराणम् - अध्यायः २९
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
शुक्रस्य क्रोधोत्पत्तिकथनम् ।
शौनक उवाच ।
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह ।
वृषपर्वाणमासीनमित्युवाचाविचारयन् ॥१॥
नाधर्मश्चरितो राजन्! सद्यः फलति गौरिव ।
शनैरावर्त्यमानस्तु मूलान्यपि निकृन्तति ॥२॥
यदि नात्मनि पुत्रेषु न चेत् पश्यति नप्तृषु ।
पापमाचरितं कर्म त्रिवर्गमतिवर्तते ॥3॥
फलत्येवं ध्रुवं पापं गुरुभुक्तमिवोदरे ।
यदा घातयसे विप्रं कच मां गिरसन्दता ॥४॥
अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ।
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम ॥५॥
वृषपर्वन्निबोधत्वं त्यक्ष्यामि त्वां सबान्धवम् ।
स्थातुं त्वद्विषये राजन्! न शक्नोमि त्वया सह ॥६॥
अद्यैवमभिजानामि दैत्यं मिथ्या प्रलापिनम् ।
यतस्त्वमात्मनोदीर्णां दुहितां किमुपेक्षसे ॥७॥
वृषपर्वोवच ।
नावद्यं न मृषावादं त्वयि जानामि भार्गव!
त्वयि सत्यञ्च धर्म्मञ्च तत्प्रसीदतु मां भवान् ॥८॥
अद्यास्मानपहायत्वमितो वास्यसि भार्गव! ।
समुद्रं संम्प्रवेश्यामि नान्यदस्ति परायणम् ॥९॥
शुक्र उवाच ।
समुद्रं प्रविशध्वं वा दिशो वा व्रजतासुराः ।
दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ॥१०॥
प्रसाद्यतां देवयानीं जीवितं यत्र मे स्थितम् ।
योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥११॥
वृषपर्वोवाच ।
यत्किञ्चिदसुरेन्द्राणां विद्यते वसु भार्गव! ।
भुवि हस्तिरथाश्वं वा तस्य त्वं मम चेश्वरः ॥१२॥
शुक्र उवाच ।
यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणां महासुर! ।
तस्येश्वरोऽस्मि यद्येतद्देवयानि! प्रसाद्यताम् ॥१3॥
शौनक उवाच ।
ततस्तु त्वरितः शुक्रस्तेन राज्ञा समं ययौ ।
उवाच चैनां सुभगे! प्रतिपन्नं वचस्तव ॥१४॥
देवयान्युवाच ।
यदित्वमीश्वरस्तात! राज्ञो वित्तस्य भार्गव ।
नाभिजानामि तत्तेऽहं राजा वदतु मां स्वयम् ॥१५॥
यं काममभिजानामि देवयानि! शुचिस्मिते ।
तत्तेऽहं संप्रदास्यामि यद्यपि स्यात् सुदुर्लभम् ॥१६॥
देवयान्युवाच ।
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये ।
अनुयास्यति मां तत्र यत्र दास्यति मे पिता ॥१७॥
वृषपर्वोवाच ।
उत्तिष्ठ धात्रि! गच्छ त्वं शर्मिष्ठां शीघ्रमानय ।
यं च कामयते कामं देवयानी करोतु तम् ॥१८॥
शौनक उवाच ।
ततो धात्री तत्र गत्वा शर्मिष्ठामिदमब्रवीत् ।
उत्तिष्ठ भद्रे! शर्मिष्ठे! ज्ञातीनां सुखमावह ॥१९॥
त्यजति ब्राह्मणः शिष्यान् देवयान्या प्रचोदितः ।
यं सा कामयते कामं सकार्योऽत्र त्वयानघे ॥
दासीत्वमभिजातासि देवयान्याः सुशोभने! ॥२०॥
शर्मिष्ठोवाच ।
यं च कामयते कामं करवाण्यहमद्य तम् ।
मागान्मन्युवशं शुक्रो देवयानी च मत्कृते ॥२१॥
शौनक उवाच ।
ततः कन्यासहस्रेण वृता शिविकया तदा ।
पितुर्निदेशात्त्वरिता निश्चक्राम पुरोत्तमात् ॥२२॥
शर्मिष्ठोवाच ।
अहं कन्यासहस्रेण दासी ते परिचारिका ।
ध्रुवं त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥२3॥
देवयान्युवाच ।
स्तुवतो दुहिता चाहं याचतः प्रतिगृह्णतः ।
स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥२४॥
शर्मिष्ठोवाच ।
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् ।
अनुयास्याम्यहं तत्र यत्र दास्यति ते पिता ॥२५॥
शौनक उवाच ।
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः ।
देवयानी नृपश्रेष्ठ! पितरं वाक्यमब्रवीत् ॥२६॥
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम ।
अमोघं तव विज्ञानमस्ति विद्याबलञ्च ते ॥२७॥
एवमुक्तो द्विजश्रेष्ठो दुहित्रा सुमहायशाः ।
प्रविवेशपुरं हृष्टः पूजितः सर्वदानवैः ॥२८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP