संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १८२

मत्स्यपुराणम् - अध्यायः १८२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


वारणसीमाहात्म्यम् ।
सूत उवाच ।
कैलासपृष्ठमासीनं स्कन्दं ब्रह्म विदाम्वरम् ।
पृच्छन्ति ऋषयः सर्वे सनकाद्या स्तपोधना ॥१॥

तथा राजर्षयः सर्वे ये भक्तास्तु महेश्वरे ।
ब्रूहि त्वं स्कन्द! भूलोके यत्र नित्यं भवः स्थितः ॥२॥

स्कन्द उवाच ।
महात्मा सर्वभूतात्मा देवदेवः सनातनः ।
घोररूपं समास्थाय दुष्करं देवदानवैः ॥३॥

आभूतसम्प्लवं यावत् स्थाणु भूतस्थितः प्रभुः ।
गुह्यानां परमं गुह्यमविमुक्तमिति स्मृतम् ॥४॥

अविमुक्ते सदा सिद्धिर्यत्र नित्यं व्यवस्थितः ।
अस्य क्षेत्रस्य माहात्म्यं यदुक्तंत्वीश्वरेण तु ॥५॥

स्थानान्तरं पवित्रञ्च तीर्थमायतनं तथा ।
श्मशान संस्थितं वेश्म दिव्यमन्तर्हितञ्च यत् ॥६॥

भूलोकेनैव संयुक्तमन्तरिक्षे शिवालयम् ।
अयुक्तास्तु न पश्यन्ति युक्ताः पश्यन्ति चेतसा ॥७॥

ब्रह्मचर्यव्रतोपेताः सिद्धा वेदान्तकोविदाः ।
आदेहपतनाद्यावत् तत्क्षेत्रं यो न मुञ्चति ॥८॥

ब्रह्मचर्यव्रतैः सम्यक् सम्यगिष्टं मुखैर्भवेत् ।
अपापात्मागतिः सर्वा यातूक्ता च क्रियावताम् ॥९॥

यस्तत्र निवसेद्विप्रो संयुक्तात्मा समाहितः ।
त्रिकालमपि भुञ्जानो वायुभक्षसमो भवेत् ॥१०॥

निमेषमात्रमपि यो ह्यविमुक्ते तु भक्तिमान् ।
ब्रह्मचर्यसमायुक्तः परमं प्राप्नुयात्तपः ॥११॥

यत्र मासं वसेद्धीरोः लघ्वाहारो जितेन्द्रियः ।
सम्यक् तेन व्रतं चीर्णं दिव्यं पाशुपतं महत् ॥१२॥

जन्ममृत्युभयन्तीर्त्वा स याति परमाङ्गतिम् ।
नैश्रेयसीं गतिं पुण्यां तथा योग गतिं व्रजेत् ॥१३॥

न हि योगगतिर्दिव्या जन्मान्तर शतैरपि ।
तस्य क्षेत्रस्य माहात्म्यात् ब्रह्महत्या निवर्तते ॥१४॥

ब्रह्महा योऽभिगच्छेत्तु अविमुक्तं कदाचन ।
तस्य क्षेत्रस्य माहात्म्यात् ब्रह्महत्या निवर्तते ॥१५॥

आदेह पतनाद्यावत् क्षेत्रं यो न विमुञ्चति ।
न केवलं ब्रह्महत्या प्राक्कृता च निवर्तते ॥१६॥


प्राप्य विश्वेश्वरं देवं न सा भूयोऽभिजायते ।
अनन्यमानसोभूत्वा यो विमुक्तं न मुञ्चति ॥१७॥

तस्य दैवः सदा तुष्टः सर्वान् कामान् प्रयच्छति ।
द्वारं यत् साङ्ख्ययोगानां स तत्र वसति प्रभुः ॥१८॥

सगणो हि भवो देवो भक्तानामनुकम्पया ।
अविमुक्तं परं क्षेत्रमविमुक्ते परा गतिः॥१९॥

अविमुक्ते परा सिद्धिरविमुक्ते परं पदम् ।
अविमुक्तं निषेवेत देवर्षिगणसेवितम् ॥२०॥

यदीच्छेन्मानवो धीमान् न पुनर्जायते क्वचित् ।
मेरोः शक्तो गुणान्वक्तुं द्वीपानाञ्च तथैव च ॥२१॥

समुद्राणाञ्च सर्वेषां नाविमुक्तस्य शक्यते ।
अन्तकाले मनुष्याणां छिद्यमानेषु मर्मसु ॥२२॥

वायुना प्रेर्यमाणानां स्मृतिर्नैवोपजायते ।
अविमुक्ते ह्यन्तकाले भक्तानामीश्वरः स्वयम् ॥२३॥

कर्मभिः प्रेर्यमाणानां कर्णजापं प्रयच्छति ।
मणिकर्ण्यां त्यजन्देहं गतिमिष्टां व्रजेन्नरः ॥२४॥

ईश्वरप्रेरितो याति दुष्प्रापमकृतात्मभिः ।
अशाश्वतमिदं ज्ञात्वा मानुषं बहुकिल्बिषम् ॥२५॥

अविमुक्तं निषेवेत संसारभयमोचनम् ।
योगक्षेमप्रदं दिव्यं बहुविघ्नविनाशनम् ॥२६॥

स्वघ्नैश्चालोड्यमानोऽपि यो विमुक्तं न मुञ्चति ।
स मुञ्चति जरा मृत्युं जन्म चैतदशाश्वतम्
अविमुक्ते प्रसादात्तु शिवसायुज्यमाप्नुयात् ॥२७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP