मत्स्यपुराणम् - अध्यायः ३५
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
ययात्युपाख्यानम् ।
शौनक उवाच ।
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् ।
राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥१॥
उषित्वा वनवासं स ब्राह्मणैः सह संश्रितः ।
फलमूलाशनोदान्तो यथा स्वर्गमितो गतः ॥२॥
स गतः स्वर्गवासन्तु न्यवसन् मुदितः सुखी ।
कालस्य नातिमहतः पुनः शक्रेण पातितः ॥३॥
विवशः प्रच्युतः स्वर्गादप्राप्तो मेदिनी तलम् ।
स्थितश्चासीदन्तरीक्षे स तदेति श्रुतं मया ॥४॥
तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः ।
राज्ञा वसुमता सार्द्धमष्टकेन च वीर्य्यवान् ॥
प्रतर्दनेन शिबिना समेत्य किल संसदि ॥५॥
शतानीक उवाच ।
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः ।
कथमिन्द्रेण भगवन्! पातितो मेदिनीतले ॥६॥
सर्वमेदशेषेण श्रोतुमिच्छामि तत्वतः ।
कथ्यमानं त्वया विप्र! देवर्षिगणसन्निधौ ॥७॥
देवराजसमोह्यासीद्ययातिः पृथिवीपतिः ।
वर्द्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥८॥
तस्य विस्तीर्ण यशसः सत्यकीर्तेर्महात्मनः ।
श्रोतुमिच्छामि देवेश! दिवि चेह च सर्वशः ॥९॥
शौनक उवाच ।
हन्त ते कथयिष्यामि ययातेरुत्तमां कथाम् ।
दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ॥१०॥
ययाति र्नाहुषो राजा पूर्वं पुत्रं कनीयसम् ।
राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा ॥११॥
अन्तेषु स विनिक्षिप्य पुत्रान् यदु पुरोगमान् ।
फलमूलाशनो राजा वनेऽसौ न्यवसच्चिरम् ॥१२॥
स जितात्मा जितक्रोध स्तर्पयन् पितृदेवताः ।
अग्नींश्च विधिवज्जुह्वन् वानप्रस्थ विधानतः ॥१३॥
अतिथीन् पूजयन्नित्यं वन्येन हविषा विभुः ।
शिलोञ्छवृत्तिमास्थाय शेषान्न कृतभोजनः ॥१४॥
पूर्णं सहस्रं वर्षाणामेवं वृत्तिरभून्नृपः ।
अम्बुभक्षः स चाब्दास्त्रीनासीन्नियतवाङ्मनाः ॥१५॥
ततस्तु वायुभक्षोऽभूत्सम्वत्सरमतन्द्रितः ।
पञ्चाग्निमध्ये च तपस्तेपे सम्वत्सरं पुनः ॥१६॥
एक पादस्थितश्चासीत् षण्मासाननिलाशनः ।
पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्यरोदसी ॥१७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP