मत्स्यपुराणम् - अध्यायः ६०
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
सौभाग्यशयनव्रतकथनम् ।
मत्स्य उवाच ।
तथैवान्यत् प्रवक्ष्यामि सर्वकामफलप्रदम् ।
सौभाग्यशयनं नाम यत्पुराणविदो विदुः ॥१॥
पुरा दग्धेषु लोकेषु भूर्भुवः स्वर्महादिषु ।
सौभाग्यं सर्वभूतानामेकस्थमभवत्तदा ॥
वैकुण्ठं स्वर्गमासाद्य विष्णोर्वक्षस्थलस्थितम् ॥२॥
ततः कालेन महता पुनः सर्गविधौ नृप! ।
अहङ्कारावृते लोके प्रधानपुरुषान्विते ॥३॥
स्पर्धायाञ्च प्रवृत्तायां कमलासनकृष्णयोः ।
लिङ्गाकारा समुद्भूता वह्नेर्ज्वालातिभीषणा ॥
तयाभितप्तस्य हरेर्वक्षसस्तद्विनिः सृतम् ॥४॥
वक्षस्थलं समाश्रित्य विष्णोः सौभाग्यमास्थितम् ।
रसरूपन्ततो यावत् प्राप्नोति वसुधातलम् ॥५॥
उत्क्षिप्तमन्तरिक्षे तद् ब्रह्मपुत्रेण धीमता ।
दक्षेण पीतमात्रन्तद्रूपलावण्यकारकम् ॥६॥
बलं तेजो महज्जातं दक्षस्य परमेष्ठिनः ।
शेषं यदपतद् भूमावष्टधा समजायत ॥७॥
ततो जनानां सञ्जाताः सप्तसौभाग्यदायकाः ।
इक्षवोरसराजाश्च निष्पावाजाजिधान्यकम् ॥८॥
विकारवच्च गोक्षीरं कुसुम्भं कुंकुमं तथा ।
लवणं चाष्टमन्तद्वत् सौभाग्याष्टकमुच्यते ॥९॥
पीतं यत् ब्रह्मपुत्रेण योगज्ञानविदा पुनः ।
दुहिता साऽभवत्तस्य या सतीत्यभिधीयते ॥१०॥
लोकानतीत्य लालित्यात् ललिता तेन चोच्यते ।
त्रैलोक्यसुन्दरीमेनामुपयेमे पिनाकधृक् ॥११॥
या देवी सौभाग्यमयी भुक्तिमुक्तिफलप्रदा ।
तामाराध्य पुमान् भक्त्या नारी वा किन्नविन्दति ॥१२॥
मनुरुवाच ।
कथमाराधनं तस्या जगद्वात्र्या जनार्दन! ।
तद्विधानं जगन्नाथ! तत् सर्वञ्च वदस्व मे ॥१३॥
वसन्तमासमासाद्य तृतीयायां जनप्रिय! ।
शुक्लपक्षस्य पूर्वाह्णे तिलैः स्नानं समाचरेत् ॥१४॥
तस्मिन्नहनि सा देवी किल विश्वात्मना सती ।
पाणिग्रहणकैर्मन्त्रैरवसद्वरवर्णिनी ॥१५॥
तया सहैव देवेशं तृतीयायामथार्चयेत् ।
फलैर्नानाविधैर्धूपैर्दीपनैवैद्यसंयुतैः ॥१६॥
प्रतिमां पञ्चगव्येन तथा गन्धोदकेन तु ।
स्नापयित्वाऽर्चयेत् गौरीमिन्दुशेखरसंयुताम् ॥१७॥
नमोऽस्तु पाटलायै तु पादौ देव्याः शिवस्य तु ।
शिवायेति च संकीर्त्य जयायै गुल्फयोर्द्वयोः ॥१८॥
त्रिगुणायेति रुद्राय भवान्यै जङ्घयोर्युगम् ।
शिवां रुद्रेश्वरायै च विजयायेति जानुनी ॥
सङ्कीर्त्य हरिकेशाय तथोरू वरदे नमः ॥१९॥
ईशायै च कटिं देव्याः शङ्करायेति शङ्करम् ।
कुक्षिद्वयञ्च कोटव्यै शूलिने शूलपाणये ॥२०॥
मङ्गलायै नमस्तुभ्यमुदरं चाभि पूजयेत् ।
सर्वात्मने नमो रुद्रमीशान्यै च कुचद्वयम् ॥२१॥
शिवं वेदात्मने तद्वद्रुद्राण्यै कण्ठमर्चयेत् ।
त्रिपुरघ्नाय विश्वेशमनन्तायै करद्वयम् ॥२२॥
त्रिलोचनाय च हरं बाहुकालानलप्रिये ।
सौभाग्यभावनायेति भूषणानि सदार्चयेत् ।
स्वाहा स्वधायै च मुखमीश्वरायेति शूलिनम् ॥२३॥
अशोकमधुवासिन्यै पूज्यावोष्ठौ च भूतिदौ ।
स्थाणवे तु हरं तद्वद्धास्यं चन्द्रमुखप्रिये ॥२४॥
नमोऽर्द्धनारीशहरमसिताङ्गीति नासिकाम् ।
नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ ॥२५॥
शर्वाय पुरहन्तारं वासव्यै तु तथालकान् ।
नमः श्रीकण्ठनाथायै शिवकेशांस्ततोऽर्चयेत् ॥
भीमोग्रसमरूपिण्यै शिरः सर्व्वात्मने नमः ॥२६॥
शिवमभ्यर्च्य विधिवत् सौभाग्याष्टकमग्रतः ।
स्थापयेद् घृतनिष्पाव कुसुम्भक्षीरजीरकान् ॥२७॥
रसराजञ्च लवणं कस्तुम्वरुमथाष्टकम् ।
दत्तं सौभाग्यमित्यस्मात् सौभाग्याष्टकमित्यतः ॥२८॥
एवं निवेद्य तत्सर्वमग्रतः शिवयोः पुनः ।
रात्रौ श्रृङ्गोदकं प्राश्य तद्वद् भूमावरिन्दम! ॥२९॥
पुनः प्रभाते तु तथा कृतस्नानजपः शुचिः ।
संपूज्य द्विजदाम्पत्यं वस्त्रमाल्यविभूषणैः ॥३०॥
सौभाग्याष्टकसंयुक्तं सुवर्णचरणद्वयम् ।
प्रीयतामत्र ललिता ब्राह्मणाय निवेदयेत् ॥३१॥
एवं सम्वत्सरं यावत् तृतीयायां सदा मनो! ।
कर्त्तव्यं विघिवद् भक्त्या सर्वसौभाग्यमीप्सुभिः ॥३२॥
प्राशने दानमन्त्रे च विशेषोऽयन्निबोध मे ।
श्रृङ्गोदकञ्चैत्रमासे वैशाखे गोमयं पुनः ॥३३॥
ज्येष्ठे मन्दारकुसुमं बिल्वपत्रं शुचौ स्मृतम् ।
श्रावणे दधि सम्प्राश्यं नभस्ये च कुशोदकम् ॥३४॥
क्षीरमाश्वयुजे मासि कार्तिके पृषदाज्यकम् ।
मार्गे मासे तु गोमूत्रं पौषे संप्राशयेद् घृतम् ॥३५॥
माघे कृष्णतिलं तद्वत् पञ्चगव्यञ्च फाल्गुने ।
ललिता विजया भद्रा भवानी कुमुदा शिवा ॥३६॥
वासुदेवी तथा गौरी मङ्गला कमलासती ।
उमा च दानकाले तु प्रीयतामिति कीर्तयेत् ॥३७॥
मल्लिकाशोककमलं कदम्बोत्पलमालतीः ।
कुब्जकं करवीरञ्च बाणमम्लानकुङ्कुमम् ॥३८॥
सिन्दुवारञ्च सर्वेषु मासेषु क्रमशः स्मृतम् ।
जपाकुसुम्भकुसुमं मालती शतपत्रिका ॥३९॥
यथालाभं प्रशस्तानि करवीरञ्च सर्वदा ।
एवं सम्वत्सरं यावदुपोष्य विधिवन्नरः ॥४०॥
स्त्रीभक्ता वा कुमारी वा शिवमभ्यर्च्य भक्तितः ।
व्रतान्ते शयनं दद्यात् सर्वोपस्करसंयुतम् ॥४१॥
उमा महेश्वरं हैमं वृषभञ्च गवा सह ।
स्थापयित्वाऽथ शयने ब्राह्मणाय निवेदयेत् ॥४२॥
अन्यान्यपि यथाशक्त्या मिथुनान्यम्वरादिभिः ।
धान्यालङ्कारगोदानैरभ्यर्चेद्वन सञ्चयैः ॥
वित्तशाठ्येन रहितः पूजयेत् गतविस्मयः ॥४३॥
एवं करोति यः सम्यक् सौभाग्यशयनव्रतम् ।
सर्वान् कामानवाप्नोति पदमत्यन्तमश्नुते
फलस्यैकस्य त्यागेन व्रतमेतत् समाचरेत् ॥४४॥
य इच्छन् कीर्तिमाप्नोति प्रतिमासं नराधिपः ।
सौभाग्यारोग्यरूपायुर्वस्त्रालङ्कारभूषणैः ।
न वियुक्तो भवेद्राजन्! नवार्बुदशतत्रयम् ॥४५॥
यस्तु द्वादश वर्षाणि सौभाग्यशयनव्रतम् ।
करोति सप्त चाष्टौ वा श्रीकण्ठभवनेऽमरैः ॥
पूज्यमानो वसेत् सम्यक् यावत्कल्पायुतत्रयम् ॥४६॥
नारी वा कुरुते वापि कुमारी वा नरेश्वर! ।
सापि तत् फलमाप्नोति देव्यनुग्रहलालिता ॥४७॥
श्रृणुयादपि यश्चैव प्रदद्यादथवा मतिम् ।
सोऽपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत् ॥४८॥
इदमिह मदनेन पूर्वमिष्टं शतधनुषा कृतवीर्यसूनुना च ।
कृतमथ वरुणेन नन्दिना वा किमु जननाथ ततो यदुद्भवः स्यात् ॥४९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP