संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्| अध्यायः १८५ मत्स्यपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० मत्स्यपुराणम् - अध्यायः १८५ मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते. Tags : matsya puranpuranपुराणमत्स्य पुराणसंस्कृत अध्यायः १८५ Translation - भाषांतर वाराणसीमाहात्म्यम् ।सूत उवाच ।अविमुक्ते महापुण्ये आस्तिकाः शुभदर्शनाः ।विश्मयं परमं जग्मुर्हर्ष गद्गद निस्वनाः ॥१॥उचुस्ते हृष्टमनसः स्कन्दं धर्म्म विदां वरम् ।ब्रह्मणो देव! पौत्रस्त्वं ब्रह्मण्यो ब्रह्मणः प्रियः ॥२॥ब्राह्मणो ब्रह्म विद् ब्रह्मा ब्रह्मेन्द्रो ब्रह्मलोककृत् ।ब्रह्मकृद्ब्रह्मचारी त्वं ब्रह्मादिर्ब्रह्मवत्सलः ॥३॥ब्रह्मतुल्योद्भवकरो ब्रह्मतुल्य नमोऽस्तु ते ।ऋषयो भावितात्मानः श्रुत्वेदं पावनं महत् ॥४॥तत्वन्तु परमं ज्ञातं यज्ज्ञात्वाऽमृतमश्नुते ।स्वस्तितेऽस्तु गमिष्यामो भूर्लोकं शङ्करालयम् ॥५॥यत्रासौ सर्वभूतात्मा स्थाणुभूतः स्थितः प्रभुः ।सर्वलोक हितार्थाय तपस्युग्रे व्यवस्थितः ॥६॥संयोज्य योगेनात्मानं रौद्रीं तनुमुपाश्रितः ।गुह्यकैरात्मभूतस्तु आत्मतुल्य गुणैर्वृतः ॥७॥ततो ब्रह्मादिभिर्देवैः सिद्धैश्च परमर्षिभिः ।विज्ञप्तः परया भक्त्या त्वत्प्रसादाद् गणेश्वर! ॥८॥वक्तुमिच्छाम नियतमविमुक्ते सुनिश्चिताः ।एवं गुणे तथा मर्त्या ह्यविमुक्ते वसन्ति ये ॥९॥धर्मशीला जितक्रोधा निर्ममा नियतेन्द्रियाः ।ध्यान योगपराः सिद्धिं गच्छन्ति परमाव्ययाम् ॥१०॥योगिनो योगसिद्धाश्च योगमोक्षप्रदं विभुम् ।उपासन्ते भक्तियुक्ताः शान्ता योगगतिङ्गताः ॥११॥स्थानं गुह्यं श्मशानानां सर्वेषामेतदुच्यते ।न हि योगादृते मोक्षः प्राप्यते भुवि मानवैः ॥१२॥अविमुक्ते तु वसतां योगो मोक्षश्च सिध्यति ।अनेन जन्मनैवेह प्राप्यते गतिरुत्तमा ॥१३॥एक एव प्रभावोऽस्ति क्षेत्रस्य परमेश्वरि! ।एकेन जन्मना देवि! मोक्षं पश्यन्त्यनुत्तमम् ॥१४॥अविमुक्ते निवसता व्यासेनामिततेजसा ।नैव लब्धा क्वचिद्भिक्षा भ्रममाणेन यत्नतः ॥१५॥क्षुधाविष्टस्ततः क्रुद्धोऽचिन्तयत् छापमुत्तमम् ।दिनं दिनं प्रति व्यासः षण्मासं योऽवतिष्ठति ॥१६॥कथं ममेदं नगरं भिक्षादोषाद्धतन्त्विदम् ।विप्रो वा क्षत्रियो वापि विधवा ब्राह्मणी पिवा ॥१७॥संस्कृतासंस्कृता वापि परिपक्वाः कथन्नु मे ।न प्रयच्छन्ति वै लोका ब्राह्मणाश्चर्य कारकम् ॥१८॥एषां शापं प्रदास्यामि तीर्थस्य नगरस्य तु ।तीर्थञ्चातीर्थतां यातु नगरं शापयाम्यहम् ॥१९॥मा भूत्त्रिपुरुषी विद्या मा भूत्त्रिपुरुषं धनम् ।मा भूत् त्रिपुरुषं सव्यं व्यासो वाराणसीं शपन् ॥२०॥अविमुक्ते निवसतां जनानां पुण्यकर्मणाम् ।विघ्नं सृजामि सर्वेषां येन सिद्धिर्न विद्यते ॥२१॥व्यासचित्तं तदा ज्ञात्वा देवदेव उमापतिः ।भीतभीतस्तदा गौरीं तां प्रियां पर्य्यभाषत ॥२२॥श्रृणु देवि! वचो मह्यं यादृशं प्रत्युपस्थितम् ।कृष्णद्वैपायनः कोपाच्छापं दातुं समुद्यतः ॥२३॥देव्युवाच ।क्रिमर्थं शपते क्रुद्धो व्यासः केन प्रकोपितः ।किं कृतं भगवंस्तस्य येन शापं प्रयच्छति ॥२४॥देवदेव उवाच ।अनेन सुतपस्तप्तं बहून् वर्षगणान् प्रिये! ।मौनिना ध्यानयुक्तेन द्वादशाब्दान् वरानने ॥२५॥ततः क्षुधा सुसञ्जाता भिक्षामटितुमागतः ।नैवास्य केनचिद्भिक्षा ग्रासार्द्धमपि भामिनि ॥२६॥एवं भगवतः काल आसीत् षाण्मासिको मुनेः ।ततः क्रोधपरीतात्मा शापं दास्यति सोऽधुना ॥२७॥यावन्नेष शपेत्तावदुपायस्तत्र चिन्त्यताम् ।कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रिये ॥२८॥कोऽस्य शापान्न बिभेति ह्यपि साक्षात् पितामहः ।अदैवं दैवतं कुर्य्याद् दैवं चाप्यपदैवतम् ॥२९॥आवान्तु मानुषौ भूत्वा गृहस्थाविहवासिनौ ।तस्य तृप्तिकरीं भिक्षां प्रयच्छावो वरानने ॥३०॥एवमुक्त्वा ततो देवी देवेन शम्भुना तदा ।व्यासस्य दर्शनं दत्त्वा कृत्वा वेषन्तु मानुषम् ॥३१॥एह्येहि भगवन्! सद्यो भिक्षां ग्राहय सत्तम! ।अस्मद् गृहे कदाचित्त्वं नागतोऽसि महामुने! ॥३२॥एतच्छ्रुत्वा प्रीतमना भिक्षां ग्रहीतुमागतः ।भिक्षां दत्त्वा तु व्यासाय षड्रसाममृतोपमाम् ॥३३॥अनास्वादितपूर्वा सा भक्षिता मुनिना तदा ।भिक्षां व्यासस्ततो भुक्त्वा चिन्तयन्हृष्टमानसः ॥३४॥ववन्दे वरदं देवं देवीञ्च गिरिजां तदा ।व्यासः कमलपत्राक्ष इदं वचनमब्रवीत् ॥३५॥देवो देवी नदी गङ्गामिष्टमन्नं शुभा गतिः ।वाराणस्यां विशालाक्षि! वासः कस्य न रोचते ॥३६॥एवमुक्त्वा ततो व्यासो नगरीमवलोकयन् ।चिन्तयानस्ततो भिक्षां हृदयानन्दकारिणीम् ॥३७॥अपश्यत् पुरतो देवं देवीञ्च गिरिजां तदा ।गृहाङ्गणस्थितं व्यासं देवदेवोऽब्रवीदिदम् ॥३८॥इह क्षेत्रे न वस्तव्यं क्रोधनस्त्वं महामुने! ।एवं विस्मयमापन्नो देवं व्यासोऽब्रवीद्वचः ॥३९॥व्यास उवाच ।चतुर्दश्यामथाष्टम्यां प्रवेशं दातुमर्हसि ।एवमस्त्वित्यनुज्ञाय तत्रैवान्तरधीयत ॥४०॥न तद् गृहं न सा देवी न देवो ज्ञायते क्वचित् ।एवं त्रैलोक्यविख्यातः पुरा व्यासो महातपाः ॥४१॥ज्ञात्वा क्षेत्रगुणान् सर्वान् स्थितस्तस्यैव पार्श्वतः ।एवं व्यासं स्थितं ज्ञात्वा क्षेत्रं शंसन्ति पण्डिताः ॥४२॥अविमुक्तगुणानान्तु कः समर्थो वदिष्यति ।देवब्राह्मण-विद्विष्टा देवभक्तिविडम्बकाः ॥४३॥ब्रह्मघ्नाश्च कृतघ्नाश्च तथा नैष्कृतिकाश्च ये ।लोकद्विषो गुरुद्विषस्तीर्थायतन दूषकाः ॥४४॥सदा पापरताश्चैव ये चान्ये कुत्सिता भुवि ।तेषां नास्तीति वासो वै स्थितोऽसौ दण्डनायकः ॥४५॥रक्षणार्थं नियुक्तं वै दण्डनायकमुत्तमम् ।पूजयित्वा यथा शक्त्या गन्धपुष्पादि धूपकैः ॥४६॥नमस्कारं ततः कृत्वा नायकस्य तु मन्त्रवित् ।सर्ववर्णावृते क्षेत्रे नानाविध-सरीसृपे ॥४७॥ईश्वरानुगृहीता हि गतिं गाणेश्वरीं गताः ।नानारूपधरा दिव्या नानावेषधरास्तथा ॥४८॥सुरा वै ये तु सर्वे च तन्निष्ठास्तत्परायणाः ।यदिच्छन्ति परं स्थानमक्षयन्तदवाप्नुयुः ॥४९॥परं पुरं दैवपुराद्विशिष्यते तदुत्तरं ब्रह्मपुरात् पुरस्थितम् ।तपोबलादीश्वरयोगनिर्मितं न तत् समं ब्रह्मदिवौकसालयम् ।मनोरमं कामगमं ह्यनामयमतीत्य तेजांसि तपांसि योगवत् ॥५०॥अधिष्ठितस्तु तत्स्थाने देवदेवो विराजते ।तपांसि यानि तप्यन्ते व्रतानि नियमाश्च ये ॥५१॥सर्वतीर्थाभिषेकं तु सर्वदानफलानि च ।सर्वयज्ञेषु यत् पुण्यमविमुक्ते तदाप्नुयात्॥५२॥अतीतं वर्तमानञ्च ज्ञानादज्ञानतोऽपि वा ।सर्वं तस्य च यत् पापं क्षेत्रं दृष्ट्वा विनश्यति ॥५३॥शान्तैर्दान्तैस्तपस्तप्तं यत् किञ्चित् धर्मसंज्ञितम् ।सर्वं च तदवाप्नोति अविमुक्ते जितेन्द्रियः ॥५४॥अविमुक्तं समासाद्य लिङ्गमर्चयते नरः ।कल्पकोटिशतैश्चापि नास्ति तस्य पुनर्भवः ॥५५॥अमरा ह्यक्षयाश्चैव क्रीडन्ति भवसन्निधौ ।क्षेत्रतीर्थोपनिषदमविमुक्तं न संशयः ॥५६॥अविमुक्ते महादेवमर्चयन्ति स्तुवन्ति वै ।सर्वपापविनिर्मुक्तास्ते तिष्ठन्त्यजरामराः ॥५७॥सर्वकामाश्च ये यज्ञाः पुनरावृत्तिकाः स्मृताः ।अविमुक्ते मृता ये च सर्वे ते ह्यनिवर्तकाः ॥५८॥ग्रहनक्षत्रताराणां कालेन पतनाद्भयम् ।अविमुक्ते मृतानान्तु पतनं नैव विद्यते ॥५९॥कल्पकोटिसहस्रैस्तु कल्पकोटिशतैरपि ।न तेषां पुनरावृत्तिर्मृता ये क्षेत्र उत्तमे ॥६०॥संसारसागरे घोरे भ्रमन्तः कालपर्ययात् ।अविमुक्तं समासाद्य गच्छन्ति मणिकर्णिकाम् ॥६१॥ज्ञात्वा कलियुगं घोरं हाहा भूतमचेतनम् ।अविमुक्तं न मुञ्चन्ति कृतार्थास्ते नरा भुवि॥६२॥अविमुक्तं प्रविष्टस्तु यदि गच्छेत्ततः पुनः ।तदा हसन्ति भूतानि अन्योन्यं करताडनम् ॥६३॥कामक्रोधेन लोभेन ग्रस्ता ये भुवि मानवाः ।निष्क्रमन्ते नरा देवि! दण्डनायकमोहिताः ॥६४॥जपध्यानविहीनानां ज्ञानवर्जित चेतसाम् ।ततो दुःखहतानाञ्च गतिर्वाराणसी नृणाम्॥६५॥तीर्थानां पञ्चकं सारं विश्वेशानन्दकानने ।दशाश्वमेधं लोलार्कः केशवो बिन्दुमाधवः ॥६६॥पञ्चमी न महाश्रेष्ठा प्रोच्यते मणिकर्णिका ।एभिस्तु तीर्थवर्यैश्च वर्ण्यते ह्यविमुक्तकम् ॥६७॥एतद्वै कथितं सर्वं देव्यै देवेन भाषितम् ।अविमुक्तस्य क्षेत्रस्य तत् सर्वं कथितं द्विजाः ॥६८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP