मत्स्यपुराणम् - अध्यायः ४७
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
कृष्णसन्तानवर्णनम् ।
सूत उवाच ।
अथ देवो माहदेवः पूर्वं कृष्णः प्रजापतिः ।
विहारार्थं स देवेशो मानुषेष्विह जायते ॥१॥
देवक्यां वसुदेवस्य तपसा पुष्करेक्षणः ।
चतुर्बाहुस्तदा जातो दिव्यरूपो ज्वलन् श्रिया ॥२॥
श्रीवत्सलक्षणं देवं दृष्ट्वा दिव्यैश्च लक्षणैः ।
उवाच वसुदेवस्तं रूपं संहर वै प्रभो ॥३॥
भीतोऽहं देव! कंसस्य ततस्त्वेतद् ब्रवीमि ते ।
मम पुत्रा हतास्तेन ज्येष्ठास्ते भीमविक्रमाः ॥४॥
वसुदेववचः श्रुत्वा रूपं संहरतेऽच्युतः ।
अनुज्ञाप्य ततः शौरिं नन्दगोपगृहेऽनयत् ॥५॥
दत्वैनं नन्दगोपस्य रक्ष्यतामिति चाब्रवीत् ।
अतस्तु सर्वकल्याणं यादवानां भविष्यति ॥६॥
मुनय ऊचुः ।
क एष वसुदेवस्तु देवकी च यशस्विनी ।
नन्दगोपश्च कस्त्वेष यशोदा च महाव्रता ॥७॥
यो विष्णुं जनयामास यञ्च तातेत्यभाषत ।
या गर्भं जनयामास याचैनं त्वभ्यवर्द्धयत् ॥८॥
सूत उवाच ।
पुरुषः कश्यपस्त्वासीददितिस्तु प्रिया स्मृता ।
ब्रह्मणः कश्यपस्त्वांशः पृथिव्यास्त्वदितिस्तथा ॥९॥
अथ कामान् महाबाहुर्देवक्याः समपूरयत् ।
ते तया काङ्क्षिता नित्यमजातस्य महात्मनः ॥१०॥
सोऽवतीर्णो महीं देवः प्रविष्टो मानुषीं तनुम् ।
मोहयन् सर्वभूतानि योगात्मा योगमायया ॥११॥
नष्टे धर्मे तथा जज्ञे विष्णुर्वृष्णिकुले प्रभुः ।
कर्तुं धर्म्मस्य संस्थानं असुराणां प्रणाशनम् ॥१२॥
रुक्मिणी सत्यभामा च सत्यानाग्नजिती तथा ।
सुभामा च तथा शैव्या गान्धारी लक्ष्मणा तथा ॥१३॥
मित्रविन्दा च कालिन्दी देवी जाम्बवती तथा ।
सुशूला च तथा माद्री कौशल्या विजया तथा ॥
एवमादीनि देवीनां सहस्राणि च षोड़श ॥१४॥
रुक्मिणी जनयामास पुत्रं रणविशारदम् ।
चारुदेष्णं रणे शूरं प्रद्युम्नञ्च महाबलम् ॥१५॥
सुचारुं भद्रचारुं च सुदेष्णं भद्रमेव च ।
परशुञ्चारु गुप्तञ्च चारुभद्रं सुचारुकम् ॥
चारुहासं कनिष्ठञ्च कन्यां चारुमतीं तथा ॥१६॥
जज्ञिरे सत्यभामायां भानुर्भ्रमरतेक्षणः ।
रोहितो दीप्तिमांश्चैव ताम्रश्चक्रो जलन्धमः ॥१७॥
चतस्रो जज्ञिरे तेषां स्वसारस्तु यवीयसीः ।
जाम्बवत्याः सुतो जज्ञे साम्बः समिति शोभनः ॥१८॥
मित्रवान् मित्रविन्दश्च मित्रविन्दावसङ्गना ।
मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजा हि सा ॥१९॥
एवमादीनि पुत्राणां सहस्राणि निबोधत ।
अशीतिश्च सहस्राणि वासुदेव सुतास्तथा ॥
लक्षमेकं तथा प्रोक्तं पुत्राणाञ्च द्विजोत्तमाः ॥२९॥
उपासङ्गस्य तु सुतौ वज्रः संक्षिप्त एव च ।
भूरीन्द्रसेनो भूरिश्च गवेषण सुतावुभौ ॥२१॥
प्रद्युम्नस्य तु दायादो वैदर्भ्यां बुद्धिसत्तमः ।
अनिरुद्धो रणे रुद्धः जज्ञेऽस्य मृगकेतनः ॥२२॥
काश्यां सुपार्श्वतनया साम्बाल्लेभे तरस्विनः ।
सत्यप्रकृतयो देवाः पञ्चवीराः प्रकीर्तिताः ॥२३॥
तिस्रः कोट्यः प्रवीराणां यादवानां महात्मनाम् ।
षष्ठिः शतसहस्राणि वीर्यवन्तो माहबलाः ॥
देवांशाः सर्व एवेह उत्पन्नास्ते महौजसः ॥२४॥
देवासुरे हता ये च असुरा ये महाबलाः ।
इहोत्पन्ना मनुष्येषु बाधन्ते सर्वमानवान् ॥२५॥
तेषामुत्सादनार्थाय उत्पन्नो यादवे कुले ।
कुलानां शतमेकञ्च यादवानां महात्मनाम् ॥२६॥
सर्वमेतत् कुलं यावद्वर्तते वैष्णवे कुले ।
विष्णुस्तेषां प्रणेता च प्रभुत्वे च व्यवस्थितः ॥
निदेशस्थायिनस्तस्य कथ्यन्ते सर्वयादवाः ॥२७॥
ऋषय ऊचुः ।
सप्तर्षयः कुबेरश्च यक्षो माणिचरस्तथा ।
शालकिर्नारदश्चैव सिद्दो धन्वन्तरिस्तथा ॥२८॥
आदिदेवस्तथा विष्णुरेभिस्तु सहदैवतैः ।
किमर्थं सङ्घशो भूताः स्मृताः सम्भूतयः कति ॥२९॥
भविष्याः कति चैवान्ये प्रादुर्भावा महात्मनः ।
ब्रह्मक्षत्रेषु शान्तेषु किमर्थमिह जायते ॥३०॥
यदर्थमिह सम्भूतो विष्णुर्वृष्ण्यन्धकोत्तमः ।
पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम् ॥३१॥
सूत उवाच ।
त्यज्य दिव्यान्तनुं विष्णुर्मानुषेष्विह जायते ।
युगेत्वथ परावृत्ते काले प्रशिथिले प्रभुः ॥३२॥
देवासुरविमर्देषु जायते हरिरीश्वरः ।
हिरण्यकशिपौ दैत्ये त्रैलोक्यं प्राक् प्रशासति ॥३३॥
बलिनाधिष्ठिते चैव पुरा लोकत्रये क्रमात् ।
सख्यमासीत्परम् एकं देवानामसुरैः सह ॥३४॥
युगाख्या सुरसंपूर्ण ह्यासीदत्याकुलं जगत् ।
निदेशस्थायनश्चापि तयो र्देवासुराः समम् ॥३५॥
मृधो बलिविमर्दाय संप्रवृद्धः सुदारुणः ।
देवानामसुराणां च घोरः क्षयकरो महान् ॥३६॥
कर्तुं धर्म्मव्यवस्थानं जायते मानुषेष्विह ।
भृगोः शापनिमित्तन्तु देवासुरकृते तदा ॥३७॥
मुनय ऊचुः ।
कथं देवासुरकृते व्यापारं प्राप्तवान् स्वतः ।
देवासुरं यथावृत्तं तन्नः प्रब्रूहि पृच्छताम् ॥३८॥
सूत उवाच ।
तेषां तदा निमित्तं ते संग्रामास्तु सुदारुणाः ।
वराहाद्या दशद्वौ च शण्डामर्कान्तरे स्मृताः ॥३९॥
नामतस्तु समासेन श्रृणुतैषां विवक्षतः ।
प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः ॥४०॥
तृतीयस्तु वराहश्च चतुर्थोऽमृतमन्थनः ।
संग्रामः पञ्चमश्चैव सञ्जातस्तारकामयः ॥४१॥
षष्ठो ह्याडीवकाख्यस्तु सप्तमस्त्रैपुरस्तथा ।
अन्धकाख्योऽष्टमस्तेषां नवमो वृत्रघातकः ॥४२॥
धात्रश्च दशमश्चैव ततो हालाहलः स्मृतः
प्रथितो द्वादशस्तेषां घोरः कोलाहलस्तथा ॥४३॥
हिरण्यकशिपुर्दैत्यो नारसिंहेन पातितः ।
वामनेन बलिर्बद्ध स्त्रैलोक्याक्रमणे पुरा ॥४४॥
हिरण्याक्षो हतो द्वन्द्वे प्रतिघाते तु दैवतैः ।
दंष्ट्रयातु वराहेण समुद्रस्तु द्विधाकृतः ॥४५॥
प्रह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने ।
विरोचनस्तु प्राह्लादि र्नित्यमिन्द्रवधोद्यतः ॥४६॥
इन्द्रेणैव तु विक्रम्य निहतस्तारकामये ।
अशक्नुवन् स देवानां सर्वं सोढुं सदैवतम् ॥४७॥
निहताः दानवाः सर्वे त्रैलोक्ये त्र्यम्बकेण तु ।
असुराश्च पिशाचाश्च दानवाश्चान्धकाहते ॥४८॥
हता देवमनुष्ये स्वे पितृभिश्चैव सर्वशः ।
संपृक्तो दानवैर्वृत्रो घोरो हालाहले हतः ॥४९॥
तदा विष्णुसहायेन महेन्द्रेण निवर्तितः ।
हतो ध्वजे महेन्द्रेण मायाच्छन्नस्तु योगवित् ॥
ध्वजलक्षणमाविश्य विप्रचित्तिः सहानुजः ॥५०॥
दैत्यांश्च दानवांश्चैव संयतान् किल संयुतान् ।
जयन् कोलाहले सर्वान् देवैः परवृतो वृषा ॥
यज्ञस्यावभृथे दृश्यौ शण्डामर्कौ तु दैवतैः ॥५१॥
एते देवासुरे वृत्ताः संग्रामा द्वादशैव तु
देवासुरक्षयकराः प्रजानान्तु हिताय वै ॥५२॥
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ ।
द्विसप्तति तथाऽन्यानि नियुतान्यधिकानि च
अशीतिञ्च सहस्राणि त्रैलोक्यैश्वर्यताङ्गतः ॥५३॥
पर्यायेण तु राजाऽभूद् बलिवर्षायुतं पुनः ।
षष्टिवर्षसहस्राणि नियुतानि च विंशतिः ॥५४॥
बले राज्याधिकारस्तु यावत्कालं बभूव ह ।
तावत्कालन्तु प्रह्लादो निवृत्तोह्यसुरैः सह ॥५५॥
इन्द्रास्त्रयस्ते विज्ञेया असुराणां महौजसः ।
दैत्यसंस्थमिदं सर्वमासीद्दशयुगं पुनः ॥५६॥
त्रैलोक्यमिदमव्यग्रं महेन्द्रेणानुपाल्यते ।
असपत्नमिदं सर्वमासीद्दशयुगं पुनः ॥५७॥
प्रह्लादस्य हते तस्मिन् त्रैलोक्ये कालपर्ययात् ।
पर्यायेणतु संप्राप्ते त्रैलोक्यं पाकशासने ॥
ततोऽसुरान् परित्यज्य शुक्रो देवा न गच्छत ॥५८॥
यज्ञे देवानथगतान् दितिजाः काव्यमाह्वयन् ।
किं त्वं नो मिषतां राज्यं त्यक्त्वा यज्ञं पुनर्गतः ॥५९॥
स्थातुं न शक्नुमो ह्यत्र प्रविशामो रसातलम् ।
एवमुक्तोऽब्रवीद्दैत्यान् विषण्णान् सान्त्वयन् गिरा ॥६०॥
मा भैष्ट धारयिष्यामि तेजसा स्वेनवोऽसुराः ॥
मन्त्राश्चैवोषधीश्चैव रसां वसु च यत्परम् ॥६१॥
कृत्स्नानि मयि तिष्ठन्ति पादस्तेषां सुरेषु वै ।
तत्सर्वं वः प्रदास्यामि युष्मदर्थे धृता मया ॥६२॥
ततो देवास्तु तान् दृष्ट्वा वृतान् काव्येन धीमता ।
संमन्त्रयन्ति देवा वै संविज्ञास्तु जिघृक्षया ॥६३॥
काव्यो ह्येष इदं सर्वं व्यावर्तयति नो बलात् ।
साधु गच्छामहे तूर्णं यावन्नाध्यापयिष्यति ॥६४॥
प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे ।
ततो देवास्तु संरब्धा दानवानुपसृत्य ह ॥६५॥
ततस्ते बध्यमानस्तु काव्यमेवाभिदुद्रुवुः ।
ततः काव्यस्तु तान् द्रृष्ट्वा तूर्णं देवैरभिद्रुतान् ॥६६॥
रक्षां काव्येन संहृत्य देवास्तेऽप्यसुरार्दिताः ।
काव्यं द्रृष्ट्वा स्थितं देवा निःशङ्कमसुराञ्जहुः ॥६७॥
ततः काव्योऽनुचिन्त्याथ ब्रह्मणो वचनं हितम् ।
तानुवाच ततः काव्यः पूर्ववृत्तमनुस्मरन् ॥६८॥
त्रैलोक्यं वो हृतं सर्वं वामनेन त्रिभिः क्रमैः ।
बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः ॥६९॥
महासुरा द्वादशसु संग्रामेषु सुरैर्हताः ।
तैस्तैरुपायैर्भूयिष्ठं निहता वः प्रधानतः ॥७०॥
किञ्चिच्छिष्टास्तु यूयं वै युद्धं मास्त्विति मे मतम् ।
नीतयो वोऽभिधास्यामि तिष्ठत्वं कालपर्ययात् ॥७१॥
यास्याम्यहं महादेवं मन्त्रार्थं विजयावहम् ।
अप्रतीपांस्ततो मन्त्रान् देवात् प्राप्य महेश्वरात् ॥७२॥
युध्यामहे पुनर्देवां स्ततः प्राप्स्यथ वै जयम् ॥७३॥
ततस्ते कृतसंवादा देवानूचु स्तदा सुराः ।
न्यस्तशस्त्रा वयं सर्वे निःसन्नाहा रथैर्विना ॥७४॥
वयं तपश्चरिष्यामः संवृता वल्कलैर्वने ।
प्रह्लादस्य वचः श्रुत्वा सत्याभिव्याहृतन् तु तत् ॥७५॥
ततो देवान्यवर्तन्त विज्वरामुदिताश्च ते ।
न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदासुरा ॥७६॥
ततस्तानब्रवीत् काव्यः कञ्चित्कालमुपास्यथ ।
निरुत्सिक्तास्तपोयुक्ताः कालं कार्यार्थसाधकम् ॥७७॥
पितुर्मर्माश्रमस्था वै मां प्रतीक्षथ दानवाः ।
तत्संदिश्यासुरान् काव्यो महादेवं प्रपद्यत ॥७८॥
शुक्र उवाच ।
मन्त्रानिच्छाम्यहं देव! ये न सन्ति बृहस्पतौ ।
पराभवाय देवानामसुराणां जयाय च ॥७९॥
एवमुक्तोऽब्रवीद् देवो व्रतं त्वञ्चर भार्गव!
पूर्णं वर्षसहस्रं तु कणधूममवाक्शिराः ॥
यदि पास्यसि भद्रं ते ततो मन्त्रानवाप्स्यसि ॥८०॥
तथेतिसमनुज्ञाप्य शुक्रस्तु भृगुनन्दनः ।
पादौ संस्पृश्य देवस्य बाढमित्यब्रवीद्वचः ।
व्रतं चराम्यहं देव! त्वयाऽऽदिष्टोऽद्य वै प्रभो! ॥८१॥
तताऽनुसृष्टो देवेन कुण्डधारोऽस्य धूमकृत् ।
तदा तस्मिन् गते शुक्र ह्यसुराणां हिताय वै ॥
मन्त्रार्थं तत्र वसति ब्रह्मचर्यं महेश्वरे ॥८२॥
तद्बुद्ध्वा नीतिपूर्वं तु राज्ये न्यस्ते तदासुरैः ।
अस्मिंच्छिद्रे तदामर्षाद्देवास्तान्समुपाद्रवन् ॥८३॥
दंशिताः सायुधाः सर्वे बृहस्पतिपुरः सराः ।
द्रृष्टाऽसुरगणादेवान् प्रगृहीतायुधान् पुनः ।
उत्पेतुः सहसा ते वै सन्त्रस्तास्तान् वचोऽब्रुवन् ॥८४॥
न्यस्ते शस्त्रभये दत्ते आचार्ये व्रतमास्थिते ।
दत्त्वा भवन्तो ह्यभयं संप्राप्ता नो जिघांसया ॥८५॥
अनाचार्यावयं देवा! स्त्यक्तशस्त्र स्त्ववस्थिताः ।
चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः ॥८६॥
रणे विजेतुं देवांश्च न शक्ष्यामः कथञ्चन ।
अयुद्धेन प्रपत्स्यामः शरणं काव्यमातरम् ॥८७॥
यापयामः कृच्छ्रमिदं यावदभ्येति नो गुरुः ।
निवृत्ते च तथा शुक्रे योत्स्यामो दंशितायुधाः ॥८८॥
एव मुक्त्वा सुराऽन्योन्यं शरणं काव्यमातरम् ।
प्रापद्यन्त ततो भीतास्तेभ्योऽदादभयन्तु सा ॥८९॥
न भेत्तव्यं न भेत्तव्यं भयन्त्यजत ।
दानवाः! मत्सन्निधौ वर्ततां को न भीर्भवितुमर्हति ॥९०॥
तया चाभ्युपपन्नांस्तान् द्रृष्ट्वा देवास्ततोऽसुरान् ।
अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम् ॥९१॥
ततस्तान् बाध्यमानांस्तु देवैद्रृष्ट्वासुरांस्तदा ।
देवी क्रुद्धाऽब्रवीद्देवानिन्द्रान्वः करोम्यहम् ॥९२॥
संभृत्य सर्वसम्भारानिन्द्रं साभ्यचरत्तदा ।
तस्तम्भ देवी बलवद्योगयुक्ता तपोधना ॥९३॥
ततस्तं स्तम्भितं द्रृष्टा इन्द्रं देवाश्च मूकवत् ।
प्राद्रवन्त ततोभीता इन्द्रं द्रृष्ट्वा वशीकृतम् ॥९४॥
गतेषु सुरसङ्घेषु शक्रं विष्णुरभाषत ।
मां त्वं प्रविश भद्रं ते नयिष्ये त्वां सुरोत्तम! ॥९५॥
एवमुक्तस्ततो विष्णुं प्रविवेश पुरन्दरः ।
विष्णुना रक्षितं द्रृष्ट्वा देवी क्रुद्धा वचोऽब्रवीत् ॥९६॥
एषा त्वां विष्णुना सार्धन्दहामि मघवन्! बलात् ।
मिषतां सर्वभूतानां द्रृश्यतां मे तपोबलम् ॥९७॥
दयाऽभिभूतौ तौ देवाविन्द्रविष्णू बभूवतुः ।
कथं मुच्येऽवसहितौ विष्णुरिन्द्रमभाषत ॥९८॥
इन्द्रोऽब्रवीज्जहि ह्येनां यावन्नौ न दहेत् प्रभो! ।
विशेषेणाभिभूतोऽस्मि त्वत्तोऽहञ्जहि मा चिरम् ॥९९॥
ततः समीक्ष्य विष्णुस्तां स्त्रीवधे कृच्छ्रमास्थितः ।
अभिध्याय ततश्चक्रमापदुद्धरणे तु तत् ॥१००॥
ततस्तु त्वरया युक्तः शीघ्रकारी भयान्वितः ।
ज्ञात्वा विष्णुस्ततस्तस्याः क्रूरन्देव्याश्चिकीर्षितम् ॥१०१॥
क्रुद्धः स्वमस्त्रमादाय शिरश्चिच्छेद वै भिया ।
तं दृष्ट्वा स्त्रीवधंघोरं चुक्रोध भृगुरीश्वरः ।
ततोऽभिशप्तो भृगुणा विष्णुर्भार्यावधेतदा ॥१०२॥
यस्मात्ते जानतो धर्ममवध्या स्त्री निषूदिता ।
तस्मात्त्वं सप्तकृत्वेह मानुषेषूपपत्स्यसि ॥१०३॥
ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः ।
लोकस्यच हितार्थाय जायते मानुषेष्विह ॥१०४॥
अनुव्याहृत्य विष्णुं स तदादाय शिरस्त्वरन् ।
समानीयततः कायमसौ गृह्येदमब्रवीत् ॥१०५॥
एषात्वंविष्णुनादेवि! हतासञ्जीवयाम्यहम् ।
ततस्तांयोज्यशिरसा अभिजीवेतिसोऽब्रवीत् ॥१०६॥
यदि कृत्स्नो मया धर्मो ज्ञायते चरितोऽपिवा ।
तेन सत्येन जीवस्व यदि सत्यं वदाम्यहम् ॥१०७॥
ततस्तांप्रोक्ष्यशीताभिरद्भिर्जीवेतिसोऽब्रवीत् ।
ततोऽभिव्याहृतेतस्य देवीसञ्जवितातदा ॥१०८॥
ततस्तां सर्वभूतानिदृष्ट्वा सुप्तोत्थितामिव ।
साधु साध्विति चक्रुस्ते वचसा सर्वतोदिशम् ॥१०९॥
एवं प्रत्याहृता तेन देवीसा भृगुणातदा ।
मिषतां देवतानां हि तदद्भुतमिवाभवत् ॥११०॥
असंभ्रान्तेन भृगुणा पत्नी सञ्जीविता पुनः ।
द्रृष्ट्वा चेन्द्रो नालभत शर्म काव्यभयात् पुनः ॥१११॥
प्रजागरे ततश्चेन्द्रो जयन्तीमिदमब्रवीत् ॥११२॥
सञ्चिन्त्यमतिमान्वाक्यं स्वांकन्यांपाकशासनः ।
एषकाव्योह्यमित्राय व्रतञ्चरतिदारुणम् ॥
तेनाहं व्याकुलः पुत्रि! कृतो मतिमताभृशम् ॥११३॥
गच्छ संसाधयस्वैनं श्रमापनयनैः शुभैः ।
तैस्तैर्मनोऽनुकूलैश्च ह्युपचारैरतन्द्रिता ॥११४॥
काव्यमाराधयस्वैनं यथा तुष्येत स द्विजः ।
गच्छ त्वं तस्य दत्तासि प्रयत्नंकुरुमत्कृते ॥११५॥
एवमुक्त्वा जयन्ती सा वचः संगृह्य वै पितुः ।
अगच्छद्यत्र घोरं स तप आरभ्यतिष्ठति ॥११६॥
तंद्रृष्ट्वा तु पिबन्तं सा कणधूममवाङ्मुखम् ।
यक्षेण पात्यमानञ्चकुण्ड धारेण पातितम् ॥११७॥
द्रृष्ट्वाच तं पात्यमानं देवी काव्यमवस्थितम् ।
स्वरूपध्यानशाम्यन्तं दुर्बलं भूतिमास्थिदम् ॥
पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा ॥११८॥
गीर्भिश्चैवानुकूलाभिः स्तुवतीवल्गुभाषिणी ।
गात्रसंवाहनैः कालेसेवमानात्वचः सुखैः ॥
व्रतचर्य्यानुकूलाभिरुवास बहुलाः समाः ॥११९॥
पूर्णे धूमव्रते तस्मिन् घोरे वर्षसहस्रके ।
वरेण च्छन्दयामास काव्यं प्रीतो भवस्तदा ॥१२०॥
एतद्व्रतं त्वयैकेन चीर्णं नान्येन केनचित् ।
तस्माद्वै तपसा बुद्ध्या श्रुतेनच बलेन च ॥१२१॥
तेजसाचसुरान्सर्वांस्त्वमेकोऽभिभविष्यसि ।
यच्चाभिलषितंब्रह्मन्! विद्यतेभृगुनन्दन! ॥१२२॥
प्रपत्स्यसेतुतत्सर्वं नानुवाच्यंतुकस्यचित् ।
सर्वाभिभावी तेनत्वं भविष्यसि द्विजोत्तम! ॥१२३॥
एतान्दत्त्वा वरांस्तस्मै भार्गवाय भवः पुनः ।
प्रजेशत्वं धनेशत्वमबध्यत्वञ्च वै ददौ ॥१२४॥
एतान् लब्ध्वा वरान् काव्यः सम्प्रहृष्टतनूरुहः ।
हर्षात् प्रादुर्भवन्तन्तुदिव्यस्तोत्रंमहेश्वरम् ।
तथा तिर्यक्स्थितश्चैव तुष्टुवे नीललोहितम् ॥१२५॥
शुक्र उवाच ।
नमोऽस्तुशितिकण्ठाय कनिष्ठायसुवर्चसे ।
लेलिहानाय काव्याय वत्सरायान्धसः पते ॥१२६॥
कपर्दिने करालाय हर्यक्ष्णे वरदाय च ।
संस्तुताय सुतीर्थाय देवदेवाय रंहसे ॥१२७॥
उष्णीषिणे सुवक्त्राय बहुरूपाय वेधसे ।
वसुरेताय रुद्राय तपसे चित्रवाससे ॥१२८॥
ह्रस्वाय मुक्तकेशाय सेनान्यै रोहिताय च ।
कवये राजवृक्षाय तक्षकक्रीडनाय च ॥१२९॥
सहस्रशिरसे चैव सहस्राक्षाय मीढुषे ।
वराय भव्यरूपाय श्वेताय पुरुषाय च ॥१३०॥
गिरशाय नमोऽर्काय बलिने आज्यपाय च ।
सुतृप्ताय सुवस्त्राय धन्विने भार्गवाय च ॥१३१॥
निषङ्गिणे च ताराय स्वक्षाय क्षपणाय च ।
ताम्रायचैव भीमाय उग्राय च शिवाय च ॥१३२॥
महादेवाय शर्वाय विश्वरूपशिवाय च ।
हिरण्याय वरिष्ठाय ज्येष्ठाय मध्यमाय च ॥१३३॥
वास्तोष्पते पिनाकाय मुक्तये केवलाय च ।
मृगव्याधाय दक्षाय स्थाणवे भाषणाय च ॥१३४॥
बहुनेत्राय धुर्य्याय त्रिनेत्रायेश्वराय च ।
कपालिने च वीराय मृत्यवे त्र्यम्बकाय च ॥१३५॥
बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च ।
पिनाकिने चेषुमते चित्राय रोहिताय च ॥१३६॥
दुन्दुभ्यायैकपादाय अजाय बुद्धिदाय च ।
आरण्याय गृहस्थाय यतये ब्रह्मचारिणे ॥१३७॥
साङ्ख्याय चैव योगाय व्यापिने दीक्षिताय च ।
अनाहताय शर्व्वाय भव्येशाय यमायच ॥१३८॥
रोधसे चेकितानाय ब्रह्मिष्ठाय महर्षये ।
चतुष्पदाय मेध्याय रक्षिणे शीघ्रगाय च ॥१३९॥
शिखण्डिने करालाय दंष्ट्रिणे विश्ववेधसे ।
भास्वराय प्रतीताय सुदीप्ताय सुमेधसे ॥१४०॥
क्रूरायाविकृतायैव भीषणाय शिवाय च ।
सौम्याय चैव मुख्याय दार्मिकाय शुभायच ॥१४१॥
अबध्यायामृतायैव नित्याय शाश्वताय च ।
व्यापृताय विशिष्टाय भरताय च साक्षिणे ॥१४२॥
क्षेम्याय सहमानाय सत्याय चामृताय च ।
कर्त्रे परशवे चैव शूलिने दिव्यचक्षुषे ॥१४३॥
सोमपायाज्यपायैव धूमपायोष्मपाय च ।
शुचये परिधानाय सद्योजाताय मृत्यवे ॥१४४॥
पिशिताशाय सर्व्वाय मेघाय विद्युताय च ।
व्यावृत्ताय वरिष्ठाय भरितायतरक्षवे ॥१४५॥
त्रिपुरघ्नाय तीर्थायावक्राय रोमशाय च ।
तिग्मायुधाय व्याख्याय सुसिद्धाय पुलस्तये ॥१४६॥
रोचमानाय चण्डाय स्फीताय ऋषभायच ।
व्रतिने युञ्जमानाय शुचये चोर्ध्वरेतसे ॥१४७॥
असुरघ्नाय स्वाघ्नाय मृत्युघ्ने यज्ञियाय च ।
कृशानवे प्रचेताय वह्नये निर्मलाय च ॥१४८॥
रक्षोघ्नाय पशुघ्नाया विघ्नाय श्वसिताय च ।
विभ्रान्ताय महान्ताय अत्यन्तं दुर्गमाय च ॥१४९॥
कृष्णाय च जयन्ताय लोकानामीश्वराय च ।
अनाश्रिताय वेध्याय समत्वाधिष्ठितायच ॥१५०॥
हिरण्यबाहवे चैव व्याप्ताय च महाय च ।
कुकर्म्मणे प्रसह्याय चेशानाय सुचक्षुषे ॥१५१॥
क्षिप्रेषवे सदश्वाय शिवाय मोक्षदाय च ।
कपिलाय पिशङ्गाय महादेवाय धीमते ॥१५२॥
महाकायाय दीप्ताय रोदनाय सहाय च ।
दृढधन्विने कवचिने रथिने च वरूथिने ॥१५३॥
भृगुनाथाय शुक्राय गह्वनिष्ठाय वेधसे ।
\अमोघाय प्रशान्ताय सुमेधाय वृषाय च ॥१५४॥
प्रणवे ऋग्यजुः साम्ने स्वाहायच स्वधाय च ।
वषट्कारात्मने चैव तुभ्यं मन्त्रात्मनेनमः ॥१५५॥
त्वष्ट्रे धात्रे तथा कर्त्रे चक्षुः श्रोत्रमयाय च ।
भूतभव्यभवेशाय तुभ्यं कर्मात्मने नमः ॥१५६॥
वसवे चैव साध्याय रुद्रादित्यसुराय च ।
विषाय मारुतायैव तुभ्यं देवात्मने नमः ॥१५७॥
अग्नीषोमविधिज्ञाय पशुमन्त्रौषधाय च ।
स्वयम्भुवे ह्यजायैव अपूर्वप्रथमाय च ॥१५८॥
प्रजानां पतये चैव तुभ्यं ब्रह्मात्मने नमः ॥१५९॥
आत्मेशायात्मवश्याय सर्वेशातिशयाय च ।
सर्वभूताङ्गभूताय तुभ्यं भूतात्मने नमः ॥१६०॥
निर्गुणाय गुणज्ञाय व्याकृतायामृताय च ।
निरुपाख्याय मित्राय तुभ्यं सांख्यात्मने नमः ॥१६१॥
पृथिव्यै चान्तरिक्षाय दिव्याय च महाय च ।
जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ॥१६२॥
अव्यक्ताय च महते भूतादेरिन्द्रियाय च ।
आत्मज्ञाय विशेषाय तुभ्यं सर्व्वात्मने नमः ॥१६३॥
नित्याय चात्मलिङ्गाय सूक्ष्मायै वेतराय च ।
बुद्ध्याय विभवे चैव तुभ्यं मोक्षात्मने नमः ॥१६४॥
नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु ।
सन्त्यातेषु महाद्येषु चतुर्षु च नमोऽस्तु ते ॥१६५॥
नमः स्तोत्रे मयाह्यस्मिन् यदिनव्याहृतं भवेत् ।
मद्भक्त इति ब्रह्मण्य! तत्सर्वं क्षन्तुमर्हसि ॥१६६॥
सूत उवाच ।
एवमाभाष्य देवेशमीश्वरं नीललोहितम् ।
प्रह्वोऽभिप्रणतस्तस्मै प्राञ्जलिर्वाग्यतोऽभवत् ॥१६७॥
काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान् भवः ।
निकामं दर्शनं दत्त्वा तत्रैवान्तरधीयत ॥१६८॥
ततः सोऽन्तर्हितेतस्मिन् देवेशेऽनुचरीं तदा ।
तिष्ठन्ति पार्श्वतो द्रृष्ट्वा जयन्तीमिदमब्रवीत् ॥१६९॥
कस्य त्वं सुभगे! कावा दुःखितेमयि दुःखिता ।
महता तपसा युक्ता किमर्थं मां निषेवसे ॥१७०॥
अनया संस्तुतो भक्त्या प्रश्रयेण दमेन च ।
स्नेहेन चैव सुश्रोणि! प्रीतोऽस्मिवरवर्णिनी! ॥१७१॥
किमिच्छसि वरारोहे! कस्ते कामः समृद्ध्यताम् ।
तत्ते सम्पदयाम्यद्य यद्यपि स्यात् सुदुष्करः ॥१७२॥
एवमुक्ताऽब्रवीदेनं तपसा ज्ञातुमर्हसि ।
चिकीर्षितं हि ब्रह्मन्! त्वंहि वेत्थ यथातथम् ॥१७३॥
एवमुक्तोऽब्रवीदेनां द्रृष्ट्वा दिव्येन चक्षुषा ।
मया सहत्वं शुश्रोणि! दशवर्षाणिभामिनि ॥१७४॥
देव! चेन्द्रावरश्यामे! वरार्हे! वामलोचने!
एवं वृणोषिकामंत्वंमत्तोवै वल्गुभाषिणि ॥१७५॥
एवं भवतु गच्छामो गृहान्नोमत्तकाशिनि! ।
ततः स्वगृहमागत्य जयन्त्याः पाणिमुद्वहन् ॥१७६॥
तया सहावसद्देव्या दशवर्षाणि भार्गवः ।
अद्रृश्यः सर्वभूतानां मायया संवृतः प्रभुः ॥१७७॥
कृतार्थमागतं द्रृष्ट्वा काव्यं सर्वे दितेः सुताः ।
अभिजग्मुर्गृहं तस्य मुदितास्ते दिद्रृक्षवः ॥१७८॥
यदा गता न पश्यन्ति मायया संवृतंगुरुम् ।
लक्षणंतस्य तद्बुद्ध्वा प्रतिजग्मुर्यथागतम् ॥१७९॥
बृहस्पतिस्तु संरुद्धं काव्यं ज्ञात्वावरेणतु ।
तुष्ट्यर्थं दशवर्षाणि जयन्त्या हितकाम्यया ॥१८०॥
बुद्ध्वातदन्तरंसोऽपि दैत्यानामिन्द्रनोदितः ।
काव्यस्यरूपमास्थाय असुरान्समुपाह्वयत् ॥१८१॥
ततस्तानागतान् द्रृष्ट्वा बृहस्पतिरुवाचह ।
स्वागतं मम याज्यानां प्राप्तोऽहंवो हितायच ॥१८२॥
अहंवोऽध्यापयिष्यामि विद्याः प्राप्तास्तुयामया ।
ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे ॥१८३॥
पूर्णे काव्यस्तदा तस्मिन् समये दशवार्षिके ।
समयान्ते देवयानी तदोत्पन्ना इतिश्रुतिः ॥
बुद्धिं चक्रे ततः सोऽथ याज्यानां प्रत्यवेक्षणे ॥१८४॥
देवि! गच्छाम्यहं द्रष्टुं मम याज्यान् शुचिस्मिते! ।
विभ्रान्तवीक्षिते! साध्वि! त्रिवर्णायतलोचने ॥१८५॥
एवमुक्ताब्रवीदेनं भजभक्तान् महाव्रत! ।
एष धर्म्मः सतां ब्रह्मन्! न धर्मं लोपयामिते ॥१८६॥
ततो गत्वा सुरान् द्रृष्ट्वा देवाचार्येण धीमता ।
वञ्चितान् काव्यरूपेण ततः काव्योऽब्रवीत्तु तान् ॥१८७॥
काव्यं मां वो विजानीध्वन्तोषितो गिरिशो विभुः ।
वञ्चिता बत यूयं वै सर्वे श्रृणुत दानवाः ॥१८८॥
श्रुत्वा तथा ब्रुवाणन्तं संभ्रान्तास्ते तदाऽभवन् ।
प्रेक्षन्तस्तावुभौ तत्र स्थितासीनौ सुविस्मिताः ॥१८९॥
सम्प्रमूढास्ततः सर्वे न प्राबद्धन्त किञ्चन ।
अब्रवीत्सम्प्रमूढेषु काव्यस्तानसुरांस्तदा ॥१९०॥
आचार्योवोह्यहंकाव्यो देवाचार्योऽयमङ्गिराः ।
अनुगच्छतमांदैत्या स्त्यजतैनं बृहस्पतिम् ॥१९१॥
इत्युक्ता ह्यसुरास्तेन तावुभौ समवेक्ष्यच ।
यदासुराविशेषन्तु न जानन्त्युभयोस्तयोः ॥१९२॥
बृहस्पतिरुवाचैना नसंभ्रान्तस्तपोधनः ।
काव्योवोऽहं गुरुर्दैत्या! मद्रूपोऽयंबृहस्पतिः ॥१९३॥
संमोहयति रूपेण मामकेनैष वोऽसुराः ।
श्रुत्वा तस्य ततस्ते वै समेत्यतुततोऽब्रुवन् ॥१९४॥
अयंनो दशवर्षाणि शततं शास्ति वै प्रभुः ।
एष वै गुरुरस्माकमन्तरे स्फुरयन्द्विजः ॥१९५॥
ततस्ते दानवाः सर्वे प्रणिपत्याभिनन्द्य च ।
वचनञ्जगृहुस्तस्य चिराभ्यासेन मोहिताः ॥१९६॥
ऊचुस्तमसुराः सर्वेक्रोधसंरक्तलोचनाः ।
अयंगुरुर्हितोऽस्माकं गच्छत्वं नासि नोगुरुः ॥१९७॥
भार्गवोवाङ्गिरावापि भगवानेषनोगुरुः ।
स्थितावयंनिदेशेऽस्य साधुत्वंगच्छमाचिरम् ॥१९८॥
एवमुक्त्वा सुराः सर्वे प्रापद्यन्त बृहस्पतिम् ।
यदा न प्रतिपद्यन्त काव्येनोक्तं महद्धितम् ॥१९९॥
चुकोपभार्गवस्तेषामवलेपेन तेन तु ।
बोधिताहि मया यस्मान्न मां भजथ दानवाः ॥२००॥
तस्मात् प्रनष्टसंज्ञावै पराभवमवाप्स्यथ ।
इतिव्याहृत्यतान्काव्यो जगामाथ यथागतम् ॥२०१॥
शप्तांस्तानसुरान् ज्ञात्वा काव्येन स बृहस्पतिः ।
कृतार्थः स तदाहृष्टः स्वरूपं प्रत्यपद्यत ॥२०२॥
बुध्या सुरान् हतान् ज्ञात्वा कृतार्थोऽन्तरधीयत ।
ततः प्रणष्टेतस्मिंस्तु विभ्रान्ता दानवा भवन् ॥२०३॥
अहो विवञ्चिताः स्मेति परस्परमथाब्रुवन् ।
पृष्ठतोऽभिमुखाश्चैव ताडिताङ्गिरसेन तु ॥२०४॥
वञ्चिताः सोपधानेन स्वेस्वे वस्तुनिमायया ।
ततस्त्वपरितुष्टास्ते तमेव त्वरिताययुः ।
प्रह्लादमग्रतः कृत्वा काव्यस्यानुपदं पुनः ॥२०५॥
ततः काव्यंसमासाद्य उपतस्थुरवाङ्मुखाः ।
समागतान् पुनर्द्रृष्ट्वाकाव्यो याज्यानुवाचह ॥२०६॥
मया सम्बोधिताः सर्वेयस्मान्मानाभिनन्दथ ।
ततस्तेनावमानेन गता यूयं पराभवम् ॥२०७॥
एवं ब्रुवाणं शुक्रन्तु बाष्पसन्दिग्धयागिरा ।
प्रह्लादस्तं तदोवाच मा न त्वं त्यजभार्गव! ।
स्वाश्रयान् भजमानांश्च भक्तांस्त्वम्भज भार्गव! ॥२०८॥
यदिनस्त्वं न कुरुते प्रसादं भृगुनन्दन! ।
अपध्याता स्त्वया ह्यद्य प्रविशामोरसातलम् ॥२०९॥
ज्ञात्वा काव्यौ यथातत्वं कारुण्यादनुकम्पय ।
एवं प्रत्यनुनीतो वै ततः कोपं नियम्य सः ।
उवाचैतान् न भेतव्यं न गन्तव्यं रसातलम् ।
अवश्यंभाविनोह्यर्थाः प्राप्तव्यामयिजाग्रति ।
न शक्यमन्यथाकर्तुं दिष्टंहि बलवत्तरम् ॥२१०॥
संज्ञाप्रणष्टा या वोऽद्य तामेतां प्रतिपत्स्यथ ।
देवाञ्जित्वासकृच्चापिपातालंप्रतिपत्स्यथ ॥२११॥
प्राप्तेपर्यायकालेच हीति ब्रह्माभ्यभाषत ।
मत्प्रसादाच्च त्रैलोक्यं भुक्तं युष्माभिरर्जितम् ॥२१२॥
युगाख्यादश संपूर्णा देवानाक्रम्यमूर्द्धनि ।
एतावन्तञ्च कालं वै ब्रह्मा राज्यमभाषत ॥२१३॥
राज्यंसावर्णिके तुभ्यंपुनः किलभविष्यति ।
लोकानामीश्वरो भाव्यस्तवपौत्रः पुनर्बलिः
एवं किल मिथः प्रोक्तः पौत्रस्ते विष्णुना स्वयम् ।
वाचा हृतेषु लोकेषु तास्तास्तस्याभवन् किल ॥२१४॥
यस्मात्प्रवृत्तयश्चास्य सकाशादभिसन्धिताः ।
तस्माद्वृत्तेनप्रीतेन तुभ्यंदत्तंस्वयम्भुवा ॥२१५॥
देवराज्येबलिर्भाव्य इतिमामाश्वरोऽब्रवीत् ।
तस्मादद्रृश्योभूतानां कालापेक्षः सतिष्ठति ॥२१६॥
प्रीतेन चापरो दत्तोवरस्तुभ्यं स्वयम्भुवा ।
तस्मान्निरुत्सुकस्त्वं वै पर्यायं संहितोऽसुरैः ॥२१७॥
नहिशक्यंमयातुभ्यं पुरस्ताद्विप्रभाषितुम् ।
ब्रह्मणा प्रतिषिद्धोऽहं बविष्यञ्जानताविभो! ॥२१८॥
इमौच शिष्यौद्वौ मह्यं समावेतौ बृहस्पतेः ।
दैवतैः सहसंसृष्टान् सर्वान्वो धारयिष्यतः ॥२१९॥
इत्युक्ता ह्यसुराः सर्वे काव्येनाक्लिष्टकर्मणा ।
हृष्टास्तेन ययुः सार्द्धं प्रह्लादेन महात्मना ॥२२०॥
अवश्यंभाव्यमर्थन्तु श्रुत्वा शुक्रेण भाषितम् ।
सकृदाशंसमानास्तु जयंशुक्रेणभाषितम् ॥२२१॥
दंशिताः सायुधाः सर्वे ततो देवान् समाह्वयन् ॥२२२॥
देवास्तदासुरान् द्रृष्ट्वा संग्रामे समुपस्थितान् ।
सर्वेसंभृतसम्भारा देवास्तान् समयोधयन् ॥२२३॥
देवासुरेतदा तस्मिन् वर्तमाने शतं समाः ।
अजयन्नसुरा देवांस्ततो देवा ह्यमन्त्रयन् ॥२२४॥
यज्ञेनोपाह्वयामस्तौ ततोजेष्यामहे सुरान् ।
तदोपामन्त्रयन्देवाः शण्डामर्कौ तु तावुभौ ॥२२५॥
यज्ञेचाहूयतौ प्रोक्तौ त्यजेतामसुरान्द्विजौ ।
वयंयुवां भजिष्यामः सहजित्वातु दानवान् ॥२२६॥
एवं कृताभिसन्धीतौ शण्डामर्कौ सुरास्तथा ।
ततोदेवाजयं प्रापुर्दानवाश्च पराजितः ॥२२७॥
शण्डामर्कपरित्यक्ता दानवाह्यबलास्तथा ।
एवंदैत्याः पुरा काव्य शापेनाभिहतास्तदा ॥२२८॥
काव्यशापाभिभूतास्ते निराधाराश्च सर्वशः ।
निरस्यमानादेवैश्च विविशुस्तेरसातलम् ॥२२९॥
एवं निरुद्यमा देवैः कृताः कृच्छ्रेण दानवाः ।
ततः प्रभृति शापेन भृगोर्नैमित्तिकेन तु ॥२३०॥
जज्ञे पुनः पुनर्विष्णुर्द्धर्मे प्रशिथिले प्रभुः ।
कुर्वन् धर्मव्यवस्थानमसुराणां प्रणाशनम् ॥२३१॥
प्रह्लादस्य निदेशेतु न स्तास्यन्त्यसुराश्चये ।
मनुष्यवध्यास्ते सर्वे ब्रह्मेतिव्याहरत् प्रभुः ॥२३२॥
धर्मान्नारायणस्यांशः सम्भूतश्चाक्षुषेऽन्तरे ।
यज्ञं वै वर्तयामासु र्देवा वैवस्वतेऽन्तरे ॥२३३॥
प्रादुर्भावे ततस्तस्य ब्रह्माह्यासीत्पुरोहितः ।
युगाख्यायां चतुर्थ्यान्तु आपन्नेषु सुरेषुवै ॥२३४॥
सम्भूतस्तु समुद्रान्ते हिरण्यकशिपो र्वधे ।
द्वितीये नरसिंहाख्ये रुद्रोह्यासीत् पुरोहितः ॥२३५॥
बलिसंस्थेषु लोकेषु त्रेतायां सप्तमं प्रति ।
तृतीये वामनस्यार्थे धर्मेण तु पुरोधसा ॥२३६॥
एतास्तिस्रः स्मृतास्तस्य दिव्याः सम्भूतयो द्विजाः ।
मानुषाः सप्त योन्यस्तु शापजास्ता निबोधत ॥२३७॥
त्रेतायुगे तु प्रथमे दत्तात्रेयो बभूव ह ।
नष्टे धर्मे चतुर्थांशे मार्कण्डेयपुरः सरः ॥२३८॥
पञ्चमः पञ्चदश्याञ्चत्रेतायां सम्बभूवह ।
मान्धाता चक्रवर्त्तीतु तदोत्तङ्कपुरःसरे ॥२३९॥
एकोनविंश्यां त्रेतायां सर्वक्षत्रान्तकृद्विभुः ।
जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरः सरः ॥२४०॥
चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा ।
सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः ॥२४१॥
अष्टमे द्वापरे विष्णुरष्टाविंशे पराशरात् ।
वेदव्यासस्तथा यज्ञे जातूकर्ण्यपुरः सरः ॥२४२॥
कर्त्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् ।
बुद्धो नवमकोयज्ञे तपसापुष्करेक्षणः ॥
देवसुन्दररूपेण द्वैपायनपुरः सरः ॥२४३॥
तस्मिन्नेवयुगेक्षीणे सन्ध्याशिष्टेभविष्यति ।
कल्कीतु विष्णुयशसः पाराशर्य्यपुरः सरः ॥
दशमो भाव्यसम्भूतो याज्ञवल्क्यपुरः सरः ॥२४४॥
सर्वांश्च भूतांस्तिमितान् पाखण्डांश्चैव सर्वशः ।
प्रगृहीतायुधैर्विप्रैर्वृतः शतसहस्रशः ॥२४५॥
निः शेषान् शूद्रराज्ञस्तु तदा स तु करिष्यति ।
ब्रह्मद्विषः सपत्नांस्तु संहृत्यैव च तद्वपुः ॥२४६॥
अष्टाविंशेस्थितः कल्कि श्चरितार्तः ससैनिकः ।
शूद्रान्संशोधयित्वातु समुद्रान्तञ्च वैस्वयम् ॥२४७॥
प्रवृत्तचक्रोबलवान् संहारन्तुकरिष्यति ।
उत्सादयित्वावृषलान्प्रायशस्तानधार्मिकान् ॥२४८॥
ततस्तदा स वै कल्किश्चरितार्थः ससैनिकः ।
प्रजास्तं साधयित्वा तु समृद्धास्तेन वै स्वयम् ॥२४९॥
अकस्मात्कोपितान्योन्यं भविष्यन्तीह मोहिताः ।
क्षपयित्वा तु तेन्योऽन्यं भाविनार्थेन चोदिताः ॥२५०॥
ततः काले व्यतीते तु स देवोऽन्तरधीयत ।
नृपेष्वथ प्रनष्टेषु प्रजानां संग्रहात्तदा ॥२५१॥
रक्षणे विनिवृत्ते तु हत्वा चान्योन्यमाहवे ।
परस्परं निहत्वा तु निराक्रन्दाः सुदुःखिताः ॥२५२॥
पुराणि हित्वाग्रामांश्च तुल्यत्वेनिष्परिग्रहाः ।
प्रनष्टाश्रमधर्म्माश्च नष्टवर्णाश्रमास्तथा ॥२५३॥
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये ॥२५४॥
ह्रस्वदेहायुषश्चैव भविष्यन्ति वनौकसः ।
सरित्पर्वतवासिन्यो मूलपत्र फलाशनाः ॥२५५॥
चीरचर्माजिनधराः सङ्करं घोरमाश्रिताः ।
उत्पातदुःखाः स्वल्पार्थाः बहुबाधाश्चताः प्रजाः ॥२५६॥
एवं कष्टमनुप्राप्ताः काले सन्ध्यंशके तदा ।
ततः क्षयं गमिष्यन्ति सार्द्धं कलियुगेन तु ॥२५७॥
क्षीणे कलियुगे तस्मिंस्ततः कृतमवर्त्तत ।
इत्येतत्कीर्त्तितं सम्यक् देवासुरविचेष्टितम् ॥२५८॥
यदुवंशप्रसङ्गेन समासाद्वैष्णवं यशः ।
तुर्वसोस्तु प्रवक्ष्यामि पूरोर्द्रुह्योस्तथाह्यनोः ॥२५९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP