मत्स्यपुराणम् - अध्यायः ४९
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
पूरुवंशवर्णनम् ।
पूरोः पुत्रो महातेजा राजा स जनमेजयः ।
प्राची ततः सुतस्तस्य यः प्राचीमकरोद्दिशम् ॥१॥
प्राचीत तस्य तनयो मनस्युश्च तथा भवत् ।
राजा पीतायुधो नाम मनस्योरभवत् सुतः ॥२॥
दायादस्तस्य चाप्यासीद् धुन्धुर्नाम महीपतिः ।
धुन्धोर्बहुविधः पुत्रः सम्पातिस्तस्य चात्मजः ॥३॥
सम्पातेस्तु रहं वर्चा भद्राश्वस्तस्य चात्मजः ।
भद्राश्वस्य घृताया तु दशाप्सरसि सूनवः ॥४॥
औचेयुश्च हृषेयुश्च पुण्येयु श्चेति ते दश ।
घृतेयुश्च विनेयुश्च स्थलेयुश्चैव सत्तमः ॥५॥
धर्मेयुः सन्नतेयुश्च पुण्येयु श्चेति ते दश ।
औचयो र्ज्वलना नाम भार्या वै तक्षकात्मजा ॥६॥
तस्यां स जनयामास अन्तिनारं महीपतिम् ।
अन्तिनारो मनस्विन्यां पुत्रान् जज्ञे परान् शुभान् ॥७॥
अमूर्तरयसंवीरं त्रिवनञ्चैव धार्मिकम् ।
गौरी कन्या तृतीया च मान्धातुर्जननी शुभा ॥८॥
इलिना तु यमस्यासीत् कन्याया जनयत् सुतान् ।
ब्रह्मवाद पराक्रान्तां श्छुम्भदा त्विलिना ह्यभूत् ॥९॥
उपदानवी सुतान् लेभे चतुरस्त्विलिनात्मजात् ।
ऋष्यन्तमथ दुष्यन्तं प्रवीरमनघं तथा ॥१०॥
चक्रवर्त्ती ततो जज्ञे दुष्यन्तात् समितिञ्जयः ।
शकुन्तलायां भरतो यस्य नाम्ना च भारताः ॥११॥
दौष्यन्तिं प्रति राजानं वागूचे चाशरीरिणी ।
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ॥१२॥
भर स्वपुत्रं दुष्यन्त! मावमंस्थाः शकुन्तलाम् ।
रेतोधां नयते पुत्रः परेतं यमसादनात् ॥
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥१३॥
भरतस्य विनष्टेषु तनयेषु पुरा किल ।
पुत्राणां मातृकात् कोपात् सुमहान् संक्षयः कृतः ॥१४॥
ततो मरुद्भिरानीय पुत्रः स तु बृहस्पतेः ।
संक्रामितो भरद्वाजो मरुद्बिर्भरतस्य तु ॥१५॥
ऋषय ऊचुः ।
भरतस्य भरद्वाजः पुत्रार्थं मारुतैः कथम् ।
संक्रामितो महातेजास्तन्नो ब्रूहि यथातथम् ॥१६॥
सूत उवाच ।
पत्न्यामापन्नसत्वायामुशिजः सः स्थितो भुवि ।
भ्रातुर्भार्य्यां सद्रृष्ट्वा तु बृहस्पतिरुवाच ह ॥१७॥
उपतिष्ठ स्वलङ्कृत्य मैथुनाय च मां शुभे! ।
एव मुक्ताऽब्रवीदेनं स्वयमेव बृहस्पतिम् ॥१८॥
गर्भः परिणतश्चायं ब्रह्म व्याहरते गिरा ।
अमोघरेतास्त्वञ्चापि धर्मञ्चैवं विगर्हितम् ॥१९॥
एवमुक्तोऽब्रवीदेनां स्वयमेव बृहस्पतिः ।
नोपदेष्टव्यो विनयस्त्वया मे वरवर्णिनि! ॥२०॥
धर्षमाणः प्रसह्यैनां मैथुनायोपचक्रमे ।
ततो बृहस्पतिं गर्भो धर्षमाणमुवाच ह ॥२१॥
सन्निविष्टो ह्यहं पूर्वमिह नाम बृहस्पते! ।
अमोघरेताश्च भवान् नावकाश इह द्वयोः ॥२२॥
एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह ।
यस्मात्त्वमीद्रृशे काले सर्वभूतेप्सिते सति ॥
अभिषेधसि तस्मात्त्वं तमो दीर्घं प्रवेक्ष्यसि ॥२३॥
ततः कामं सन्निवर्त्य तस्यानन्दाद् बृहस्पतेः ।
तद्रेतस्त्वपतद् भूमौ निवृत्तं शिशुकोऽभवत् ॥२४॥
सद्यो जातं कुमारं तु द्रृष्ट्वा तं ममताऽब्रवीत् ।
गमिष्यामि गृहं स्वं वै भरस्वैनं बृहस्पते ॥२५॥
एवमुक्त्वागता सा तु गतायां सोऽपि तं त्यजन् ।
मातापितृभ्यां त्यक्तन्तु द्रृष्ट्वा तं मारुतः शिशुम्
जगृहुस्तं भरद्वाजं मरुतः कृपया स्थिताः ॥२६॥
तस्मिन् काले तु भरतो बहुभिः ऋतुभि र्विभुः ।
पुत्रनैमित्तिकैर्यज्ञैरयजत् पुत्रलिप्सया ॥२७॥
यदा स यजमानस्तु पुत्रं नासादयत् प्रभुः ।
ततः क्रतुं मरुत्सोमं पुत्रार्थे समुपाहरत् ॥२८॥
तेन ते मरुतस्तस्य मरुत्सोमेन तुष्टुवुः ।
उपनिन्युर्भरद्वाजं पुत्रार्थं भरताय वै ॥२९॥
दायादोऽङ्गिरसः सूनो रौरसस्तु बृहस्पतेः ।
संक्रामितो भरद्वाजो मरुद्भिर्मरुतं प्रति ॥३०॥
भरतस्तु भरद्वाजं पुत्रं प्राप्य विभुरब्रवीत् ।
आदावात्महितायः त्वं कृतार्थोऽहं त्वया विभो ॥३१॥
पूर्वं तु वितथो तस्मिन् कृते वै पुत्रजन्मनि ।
ततस्तु वितथो नाम भरद्वाजो नृपोऽभवत् ॥३२॥
तस्मादपि भरद्वाजाद् ब्राह्मणाः क्षत्रिया भुवि ।
द्व्यामुष्यायणकौलीनाः स्मृतास्ते द्विविधेन च ॥३३॥
ततो जाते हि वितथे भरतश्च दिवं ययौ ।
भरद्वाजो दिवं यातो ह्यभिषिच्यसुतं ऋषिः ॥३४॥
दायादो वितथस्यासीद् भुवमन्युर्महायशाः ।
महाभूतोपमाः पुत्रा श्चत्वारो भुवमन्यवः ॥३५॥
बृहत् क्षेत्रो महावीर्यः नरो गर्गश्च वीर्य्यवान् ।
नरस्य संकृतिः पुत्रस्तस्य पुत्रो महायशाः ॥३६॥
गुरुधीरन्तिदेवश्च सत्कृत्यान्तावुभौ स्मृतौ ।
गर्गस्य चैव दायादः शिबिर्विद्वानजायत ॥३७॥
स्मृताः शैव्यास्ततो गर्गाः क्षत्रोपेता द्विजातयः ।
आहार्यतनयश्चैव धीमानासीदुरुक्षवः ॥३८॥
तस्य भार्या विशाला तु सुषुवे पुत्रकत्रयम् ।
त्रयूषपं पुष्करिं चैव कविं चैव महायशाः ॥३९॥
उरुक्षवाः स्मृता ह्येते सर्वे ब्राह्मणताङ्गताः ।
काव्यानान्तु वरा ह्येते त्रयः प्रोक्ता महर्षयः ॥४०॥
गर्गाः संकृतयः काव्याः क्षत्रोपेताद्विजातयः ।
संभृताङ्गिरसो दक्षाः बृहत् क्षत्रस्य च क्षितिः ॥४१॥
बृहत् क्षत्रस्य दायादो हस्ति नामा बभूव ह ।
तेनेदं निर्मितं पूर्वं पुरन्तु गजसाह्वयम् ॥४२॥
हस्तिनश्चैव दायादा स्त्रयः परमकीर्त्तयः ।
अजमीढो द्विमीढश्च पुरुमीढस्तथैव च ॥४३॥
अजमीढस्य पत्न्यस्तु तिस्त्रः कुरुकुलोद्वहाः ।
नीलिनी धूमिनीचैव केशिनी चैव विश्रुताः ॥४४॥
स तासु जनयामास पुत्रान् वै देववर्चसः ।
तपसोऽन्ते महातेजा जाता वृद्धस्य धार्मिकाः ॥४५॥
भारद्वाजप्रसादेन विस्तरं तेषु मे श्रृणु ।
अजमीढस्य केशिन्यां कण्वः समभवत् किल ॥४६॥
मेधातिथिः सुतस्तस्य तस्मात् काण्वायना द्विजाः ।
अजमीढस्य भूमिन्यां जज्ञे बृहदनुर्नृपः ॥४७॥
बृहदनोर्बृहन्तोऽथ बृहन्तस्य बृहन् मनाः ।
बृहन्मनः सुतश्चापि बृहद्धनुरिति श्रुतः ॥४८॥
बृहद्धनोर्बृहदिषुः पुत्रस्तस्य जयद्रथः ।
अश्वजित् तनयस्तस्य सेनजित् तस्य चात्मजः ॥४९॥
अथ सेनजितः पुत्रा श्चत्वारो लोकविश्रुताः ।
रुचिराश्वश्च काव्यश्च राजा द्रृढरथस्तथा ॥५०॥
वत्सश्चावर्तको राजा यस्यैते परिवत्सकाः ।
रुचिराश्वस्य दायादः पृथुसेनो महायशाः ॥५१॥
पृथुसेनस्य पौरस्तु पौरान्नीपोऽथ जज्ञिवान् ।
नीपस्यैक शतं त्वासीत् पुत्राणाममितौजसाम् ॥५२॥
नीपा इति समाख्याताः राजानः सर्व एव ते ।
तेषां वंशकरः श्रीमान् नीपानां कीर्त्तिवर्द्धनः ॥५३॥
काव्याच्च समरो नाम सदेष्टसमरोऽभवत् ।
समरस्य पारसम्पारौ सदश्व इति ते त्रयः ॥५४॥
पुत्राः सर्वगुणोपेता जाता वै विश्रुता भुवि ।
पारपुत्रः पृथुर्जातः पृथोस्तु सुकृतोऽभवत् ॥५५॥
जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चात्मजः ।
विभ्राजस्य तु दायाद स्त्वणुहो नाम वीर्य्यवान् ॥५६॥
बभूव शुकजामाता कृत्वी भर्ता महायशाः ।
अणुहस्य तु दायादो ब्रह्मदत्तो महीपतिः ॥५७॥
युगदत्तः सुतस्तस्य विष्वक्सेनो महायशाः ।
विभ्राजः पुनराजातो सुकृतेनेह कर्मणा ॥५८॥
विष्वक्सेनस्य पुत्रस्तु उदक्सोनो बभूव ह ।
भल्लाटस्तस्य पुत्रस्तु तस्यासीज्जनमेजयः ।
उग्रायुधेन तस्यार्थे सर्वे नीपाः प्रणाशिताः ॥५९॥
ऋषय ऊचुः ।
उग्रायुधः कस्य सुतः कस्य वंशे स कथ्यते ।
किमर्थं तेन ते नीपाः सर्वे चैव प्रणाशिताः ॥६०॥
सूत उवाच ।
उग्रायुधः सूर्य्यवंश्य स्तपस्तेपे वराश्रमे ।
स्थाणुभूतोऽष्टसाहस्रं तं भेजे जनमेजयः ॥६१॥
तस्य राज्यं प्रतिश्रुत्य नीपानाजघ्निवान् प्रभुः ।
उवाच सान्त्वं विविधं जघ्नुस्ते वै ह्युभावपि ॥६२॥
हन्यमाना गतानूचे यस्माद्धेतोर्न मे वचः ।
शरणागतरक्षार्थं तस्मादेवं शपामि वः ॥६३॥
यदि मेऽस्ति तपस्तप्तं सर्वान्नयतु वो यमः ।
ततस्तान् कृष्यमाणांस्तु यमेन पुरतः स तु ॥६४॥
कृपया परयाविष्टो जनमेजयमूचिवान् ।
गतानेतानिमान् वीरांस्त्वं मे रक्षितुमर्हसि ॥६५॥
अरे पापा! दुराचारा! भवितारोऽस्य किङ्कराः ।
तथेत्युक्तस्ततो राजा यमेन युयुधे चिरम् ॥६६॥
व्याधिभिर्नारकैर्घोरैर्यमेन सह तान् बलात् ।
विजित्य मुनये प्रादात् तदद्भुतमिवाऽभवत् ॥६७॥
यमस्तुष्टस्ततस्तस्मै मुक्ति ज्ञानं ददौ परम् ।
सर्वे यथोचितं कृत्वा जग्मुस्ते कृष्णमव्ययम् ॥६८॥
येषान्तु चरितं गृह्य हन्यन्ते नापमृत्युभिः ।
इह लोके परे चैव सुखमक्षय्यमश्नुते ॥६९॥
अजमीढस्य धूमिन्यां विद्वाञ्जज्ञे यवीनरः ।
धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिस्मृतः ॥
अथ सत्यधृतेः पुत्रो द्रृढनेमिः प्रतापवान् ॥७०॥
दृढनेमि सुतश्चापि सुधर्मा नाम पार्थिवः ।
आसीन् सुधर्मतनयः सार्वभौमः प्रतापवान् ॥७१॥
सार्वभौमेति विख्यातः पृथिव्यामेकारड् बभौ ।
तस्यान्ववाये महति महापौरवनन्दनः ॥७२॥
महापौरवपुत्रस्तु राजा रुक्मरथः स्मृतः ।
अथ रुक्मरथस्यासीत् सुपार्श्वो नामपार्थिवः ॥७३॥
सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः ।
सुमतेरपि धर्मात्मा राजा सन्नतिमानपि ॥७४॥
तस्यासीत् सन्नतिमतः कृतो नाम सुतो महान् ।
हिरण्यनाभिनः शिष्यः कौसल्यस्य महात्मनः ॥७५॥
चतुर्विंशतिधा येन प्रोक्ता वै साम संहिताः ।
स्मृतास्ते प्राच्य सामानः कार्तानामेह सामगाः ॥७६॥
कार्तिरुग्रायुधः सो वै महापौरववर्द्धनः ।
बभूव येन विक्रम्य पृथुकस्य पिता हतः ॥७७॥
नीलो नाम महाराजः पञ्चालाधिपतिर्वशी ।
उग्रायुधस्य दायादः क्षेमो नाम महायशाः ॥७८॥
क्षेमात् सुनीथः संजज्ञे सुनीथस्य नृपञ्जयः ।
नृपञ्जयाच्च विरथ इत्येते पौरवाः स्मृताः ॥७९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP