मत्स्यपुराणम् - अध्यायः ४२
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
ययात्यष्टकसम्वादकथनम् ।
वसुमानुवाच ।
पृच्छाम्यहं वसुमानौषदश्विर्यद्यस्ति लोको दिवि मह्यं नरेन्द्र! ।
यद्यन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥१॥
ययातिरुवाच ।
यदन्तरिक्षं पृथिवी दिशश्च यत्तेजसा तपते भानुमांश्च ।
लोकास्तावन्तो दिवि संस्थिता वै ते त्वां भवन्तं प्रतिपालयन्ति ॥२॥
वसुमानुवाच ।
तांस्ते ददामि पतमाप्रपातं ये मे लोकास्तव ते वै भवन्तु ।
क्रीणीष्वैनां स्तृणकेनापि राजन् प्रतिग्रहस्ते यदि सम्यक् प्रदुष्टः ॥३॥
ययातिरुवाच ।
न मिथ्याहं विक्रियं वै स्मरामि मया कृतं शिशुभावेऽपि राजन् ।
कुर्य्याञ्चैवाकृतपूर्वमन्यैर्विवित्समानो वसुमन्न साधु ॥४॥
वसुमानुवाच ।
तांस्त्वं लोकान् प्रतिपद्यस्व राजन्! मया दत्तान् यदि नेष्टः क्रयस्ते ।
नाहन्तान् वै प्रतिगन्ता नरेद्र सर्वे लोकास्तावका वै भवन्तु ॥५॥
शिबिरुवाच ।
पृच्छामि त्वां शिबिरौशीनरोऽहं ममापि लोका यदि सन्ति तात!
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रक्षं त्वां तस्य धर्मस्य मन्ये ॥६॥
ययातिरुवाच ।
न त्वं वाचा हृदयेनापि राजन्! परीप्समानो मावमंस्था नरेन्द्र ।
तेनानन्ता दिवि लोकाः स्थिता वै विद्युद्रूपाः स्वनवन्तो महान्तः ॥७॥
शिबिरुवाच ।
तांस्त्वं लोकान् प्रतिपद्यस्व राजन् मया दत्तान् यदि नेष्टः क्रयस्ते ।
न चाह तान् प्रतिपद्य दत्त्वा यत्र त्वं तात गन्तासि लोके ॥८॥
ययातिरुवाच ।
यथा त्वमिन्द्रप्रतिमप्रभावस्ते चाप्यनन्ता नरदेवलोकाः ।
तथाद्य लोके न रमेऽन्यदत्ते तस्माच्छिवेनाभिनन्दामि वाचम् ॥९॥
अष्टक उवाच ।
न चेदेकैकशो राजन्! लोकान्नः प्रतिनन्दसि ।
सर्वे प्रदाय तान् लोकान् गन्तारो नरकं वयम् ॥१०॥
ययातिरुवाच ।
यदर्हास्तद्वदध्वं वः सन्तः सत्यादि दर्शिनः ।
अहन्तु नाभिगृह्णामि यत्कृतं न मया पुरा ॥११॥
अलिप्समानस्य तु मे यदुक्तं न तत्तथास्तीह नरेन्द्रसिंह! ।
अस्य प्रदानस्य यदेव युक्तं तस्यैव चानन्तफलं भविष्यम् ॥१२॥
अष्टक उवाच ।
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः ।
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्नि शिखा इव ॥१३॥
ययातिरुवाच ।
भवतां मम चैवैते रथा भान्ति हिरण्मयाः ।
आरुह्यैतेषु गन्तव्यं भवद्भिश्च मया सह ॥१४॥
आतिष्ठस्व रथं राजन् विक्रमस्य विहायसा ।
वयमप्यनुयास्यामो यदाकालो भविष्यति ॥१५॥
ययातिरुवाच ।
सर्वैरिदानीं गन्तव्यं सह स्वर्गो जितो यतः ।
एष वो विरजाः पन्था दृश्यते देवसद्मगः ॥१६॥
शौनक उवाच ।
तेऽभिरुह्य रथं सर्वे प्रयाता नृपते नृपाः ।
आक्रमन्तो दिवं भान्ति धर्मेणावृत्य रोदसी ॥१७॥
अष्टक उवाच ।
अहं मन्ये पूर्वमेकोऽभिगन्ता सखा चेन्द्रः सर्वधा मे महात्मा ।
कस्मादेवं शिबिरौशीनरोऽयमेकोऽत्ययात् सर्ववेगेन वाहान् ॥१८॥
ययातिरुवाच ।
अददाद्देवयानाय यावद्वित्तमनिन्दितः ।
उशीनरस्य पुत्रोऽयं तस्मात् श्रेष्ठो हि वः शिबिः ॥१९॥
दानं शौचं सत्यमथो ह्यहिंसा ह्रीः श्रीस्तितिक्षा समता नृशंस्यम् ।
राज्यन्त्येतान्यथ सर्वाणि राज्ञि शिवौ स्थितान्यप्रतिमे सुबुद्ध्या ॥
एवं वृत्तं ह्री निषेवो बिभर्ति तस्माच्छिबिरभिगन्ता रथेन ॥२०॥
शौनक उवाच ।
अथाष्टकः पुनरेवान्वपृच्छन् मातामहं कौतुकादिन्द्रकल्पम् ।
पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कश्चासि कथं त्वमागाः ॥
कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यो ब्राह्मणः क्षत्रियो वा ॥२१॥
ययातिरुवाच ।
ययातिरस्मि नहुषस्य पुत्रो पूरोः पिता सार्वभौमं त्विहासम् ।
गुह्यं मन्त्रं मा केभ्यो ब्रवीमि मातामहो भवतां सुप्रकाशः ॥२२॥
सर्वामिमां पृथिवीं निर्जिगाय समृद्धां महीमददं ब्राह्मणेभ्यः ।
मेध्यानश्वान्नेकशस्तान् सुरूपान् तदा देवाः पुण्यभाजो भवन्ति ॥२३॥
अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलान्नैः प्रशस्ताम् ।
गोभिः सुवर्णैश्च धनैश्च मुख्यैरश्वाः सनागाः शतशस्त्वर्बुदानि ॥२४॥
सत्येन मे द्यौश्च वसुन्धरा च तथैवाग्निर्ज्वलते मानुषेषु ।
न मे वृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति ॥२५॥
साध्वष्टक प्रब्रवीमीह सत्यं प्रतर्दनं वसुमन्तं शिबिञ्च ।
सर्वे देवा मुनयश्च लोकाः सत्येन पूज्या इति मे मनोगतम् ॥२६॥
यो नः सर्गजितं सर्वं यथा वृत्तं निवेदयेत् ।
अनसूयुर्द्विजाग्रेभ्यः स भजेत् स लोकताम् ॥२७॥
शौनक उवाच ।
एवं राजन् स महात्मा ययातिः स्वदौहित्रेस्तारितो मित्रवर्यैः ।
त्यक्त्वा महीं परमोदारकर्म स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ॥२८॥
एवं सर्वं विस्तरतौ यथावदाख्यातं ते चरितन्नाहुषस्य ।
वंशो यस्य प्रथितः कौरवे यो यस्मिन् जातस्त्वं मनुजेन्द्रकल्पः ॥२९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP