मत्स्यपुराणम् - अध्यायः ४८
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
ययातिपुत्राणामन्वयवर्णनम् ।
सूत उवाच ।
तुर्वसोस्तु सुतो गर्भो गोभानुस्तस्य चात्मजः ।
गो भानोस्तु सुतो वीर स्त्रिसारिरपराजितः ॥१॥
करन्धमस्तु त्रैसारिर्भरतस्तस्य चात्मजः ।
दुष्यन्तः पौरवस्यापि तस्य पुत्रो ह्यकल्मषः ॥२॥
एवं ययाति शापेन जरा संक्रमणे पुरा ।
तुर्वसोः पौरवं वंशं प्रविवेश पुरा किलः ॥३॥
दुष्यन्तस्य तु दायादो वरूथो नाम पार्थिवः ।
वरूथात्तु तथा वीरः सन्धानस्तस्य चात्मजः ॥४॥
पाण्ड्यश्च केरलश्चैव चोलः कर्णस्तथैव च ।
तेषां जनपदास्फीताः पाण्ड्याश्चोलाः सकेरलाः ॥५॥
द्रुह्यस्य तनयौ शूरौ सेतुः केतुस्तथैव च ।
सेतु पुत्रः शरद्वांस्तु गन्दारस्तस्य चात्मजः ॥६॥
ख्यायते यस्य नाम्नासौ गन्धारविषयो महान् ।
आरट्टदेशजास्तस्य तुरगा वाजिनां वराः ॥७॥
गन्धारपुत्रो धर्म्मस्तु घृतस्तस्यात्मजोऽभवत् ।
घृताच्च विदुषो जज्ञे प्रचेतास्तस्य चात्मजः ॥८॥
प्रचेतसः पुत्रशतं राजानः सर्व एव ते ।
म्लेच्छराष्ट्राधिपाः सर्वे उदीचीं दिशमाश्रिताः ॥९॥
अनोश्चैव सुता वीरास्त्रयः परमधार्मिकाः ।
सभानरश्चाक्षुषश्च परमेषु तथैव च ॥१०॥
सभानरस्य पुत्रस्तु विद्वान् कोलाहलो नृपः ।
कोलाहलस्य धर्मात्मा सञ्जयो नाम विश्रुतः ॥११॥
सञ्जयस्याभवत् पुत्रो वीरो नाम पुरञ्जयः ।
जनमेजयो महाराज! पुरञ्जय सुतोऽभवत् ॥१२॥
जनमेजयस्य राजर्षे महाशालोऽभवत् सुतः ।
आसीदिन्द्रसमो राजा प्रतिष्ठित यशाभवत् ॥१३॥
महामना) सुतस्तस्य महाशालस्य धार्मिकः ।
सप्तद्वीपेश्वरो जज्ञे चक्रवर्त्ती महामनाः ॥१४॥
महामनास्तु द्वौ पुत्रौ जनयामास विश्रुतौ ।
उशीनरञ्च धर्मज्ञं तितिक्षुं चैव तावुभौ ॥१५॥
उशीनरस्य पुत्रस्तु पञ्चराजर्षि सम्भवाः ।
भृशा कृशानवा दर्शा या च देवी द्रृषद्वती ॥१६॥
उशीनरस्य पुत्रास्तु तासु जाताः कुलोद्वहाः ।
तपसा ते तु महता जाता वृद्धस्य धार्मिकाः ॥१७॥
भृशायास्तु नृगः पुत्रो नवाया नव एव च ।
कृशायास्तु कृशो जज्ञे दर्शायाः सुव्रतोऽभवत् ॥
द्रृषद्वत्याः सुतश्चापि शिबिरौशीनरो नृपः ॥१८॥
शिवेस्तु शिवयः पुत्राश्चत्वारो लोकविश्रुताः ।
पृथुदर्भः सुवीरश्च केकयो भद्रकस्तथा ॥१९॥
तेषां जनपदाः स्फीताः केकयाभद्रकास्तथा ।
सौवीराश्चैव पौराश्च नृगस्य केकयास्तथा ॥२०॥
सुव्रतस्य तथाम्बष्ठा कृशस्य वृषला पुरी ।
नवस्य नवराष्ट्रन्तु तितिक्षोस्तु प्रजां श्रृणु ॥२१॥
तितिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः ।
वृषद्रथः सुतस्तस्य तस्य सेनोऽभवत् सुतः ॥२२॥
सेनस्य सुतपा जज्ञे सुतपस्तनयो बलिः ।
जातो मानुषयोन्यान्तु क्षीणे वंशे प्रजेच्छया ॥२३॥
महायोगी तु स बलिर्बद्धो बन्धैर्महात्मना ।
पुत्रानुत्पादयामास क्षेत्रजान् पञ्च पार्थिवान् ॥२४॥
अङ्गं स जनयामास वङ्गं सह्यं तथैव च ।
पुण्ड्रं कलिङ्गं च तथा बालेयं क्षेत्रमुच्यते ॥
बालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभौ ॥२५॥
बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन धीमतः ।
महायोगित्वमायुश्च कल्पस्य परिमाणकम् ॥२६॥
संग्रामे चाप्यजेयत्वं धर्मे चैवोत्तमा मतिः ।
त्रैकाल्यदर्शनं चैव प्राधान्यं प्रसवे तथा ॥२७॥
जयञ्चाप्रतिमं युद्धे धर्मे तत्त्वार्थ दर्शनम् ।
चतुरो नियतान् वर्णान् स वै स्थापयिता प्रभुः ॥२८॥
तेषाञ्च पञ्च दायादावङ्गाङ्गाः सुह्यकास्तथा ।
पुण्ड्राः कलिङ्गाश्च तथा अङ्गस्य तु निबोधत ॥२९॥
मुनय ऊचुः ।
कथं बलेः सुता जाताः पञ्च तस्य महात्मनः ।
किं नाम्नी महिषी तस्य जनिता कतमो ऋषिः ॥३०॥
कथं चोत्पादितास्तेन तन्नः प्रब्रूहि पृच्छताम् ।
माहात्म्यञ्च प्रभावञ्च निखिलेन वदस्व तत् ॥३१॥
सूत उवाच ।
अथोशिज इति ख्यात आसीद्विद्वानृषिः पुरा ।
पत्नी वै ममता नाम बभूवास्य महात्मनः ॥३२॥
उशिजस्य यवीयान् वै भ्रातृपत्नीमकामयत् ।
बृहस्पतिर्म्महातेजा ममतामेत्य कामतः ॥३३॥
उवाच मम तातन्तु देवरं वरवर्णिनी ।
अन्तर्वन्यस्मि ते भ्रातुर्ज्येष्ठस्य तु विरम्यताम् ॥३४॥
अयं तु मे महाभाग! गर्भः कुप्येत् बृहस्पते ॥
औशिजो भ्रातृजन्यस्ते सोपाङ्गं वेदमुद्गिरन् ॥३५॥
अमोघरेतास्त्वञ्चापि न मां भजितुमर्हसि ।
अस्मिन्नेव गते काले यथा वा मन्यसे प्रभो! ॥३६॥
एवमुक्तस्तथा सम्यक् बृहत्तेजा बृहस्पतिः ।
कामात्मा स महात्मापि नमनः सोऽभ्यवारयत् ॥३७॥
सम्बभूवैव धर्मात्मा तया सार्द्धमकामया ।
उत्सृजन्तं तु तद्रेतो वाचं गर्भोऽभ्यभाषत ॥३८॥
भो तात! वाचामधिप! द्वयोर्नास्तीह संस्थितिः ।
अमोघरेतास्त्वञ्चापि पूर्वं चाहमिहागतः ॥३९॥
सोऽशपत्तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः ।
पुत्रं ज्येष्ठस्य वै भ्रातुर्गर्भस्थं भगवानृषिः ॥४०॥
यस्मात्त्वमीद्रृशे काले गर्भस्थोऽपि निषेधसि ।
मामेव मुक्तवांस्तस्मात् तमो दीर्घं प्रवेक्ष्यसि ॥४१॥
ततो दीर्घतमा नाम शापाद्रृषिरजायत ।
अतोंऽशजो बृहत्कीर्त्ति बृहस्पतिरिवोजसा ॥४२॥
ऊर्ध्वरेतास्ततोऽसौ वै वसते भ्रातुराश्रमे ।
स धर्मान् सौरभेयास्तु वृषभाच्छ्रुतवांस्ततः ॥४३॥
तस्य भ्राता पितृव्यो श्चकार भरणं तथा ।
तस्मिन्निवसतस्तस्य यद्रृच्छैवागतो वृषः ॥४४॥
यज्ञार्थमाहृतान् दर्भां श्चषाद सुरभीकृतः ।
जग्राह तं दीर्घतमाः श्रृङ्गयोस्तु चतुष्पदम् ॥४५॥
तेनासौ निगृहीतश्च न चचाल पदात्पदम् ।
ततोऽब्रवीद् वृषस्तं वै मुञ्च मां बलिनां वर ॥४६॥
न मया सादितस्तात! बलवांस्त्वत्समः क्वचित् ।
मम चान्यः समोवापि न हि मे बलसंख्यया ॥
मुञ्च तातेति च पुनः प्रीतस्तेऽहं वरं वृणु ॥४७॥
एवमुक्तोऽब्रवीदेनं जीवन्मे त्वं क्व यास्यसि ।
एष त्वां न विमोक्ष्यामि परस्वादं चतुष्पदम् ॥४८॥
वृषभ उवाच ।
नास्माकं विद्यते । तात! पातकं स्तेयमेव च ।
भक्ष्याभक्ष्यं तथा चैव पेयापेयं तथैव च ॥४९॥
द्विपदां बहवो ह्येते धर्म एष गवां स्मृतः ।
कार्याकार्ये न वा गम्यागमनञ्च तथैव च ॥५०॥
सूत उवाच ।
गवां धर्म्मन्तु वै श्रुत्वा सम्भ्रान्तस्तु विसृज्यतम् ।
शक्त्यान्नपानदानात्तु गोपतिं सम्प्रसादयन् ॥५१॥
प्रसादिते गते तस्मिन् गोधर्मं भक्तितस्तु सः ।
मनसैव समादध्यौ तन्निष्ठस्तत्परो हि सः ॥५२॥
ततो यवीयसः पत्नीं गौतमस्याभ्यपद्यत ।
कृतावलोपान्तां मत्वा सोऽनड्वानिव न क्षमे ॥५३॥
गोधर्म्मन्तु परं मत्वा स्नुषान्तामभ्यपद्यत ।
निर्भर्त्स्य चैनं रुद्ध्वा च बाहुभ्यां सम्प्रगृह्य च ॥५४॥
भाव्यमर्थन्तु तं ज्ञात्वा माहात्म्यात्तमुवाच सा ।
विपर्ययन्तु त्वं लब्ध्वा अनड्वानिव वर्त्तसे ॥५५॥
गम्यागम्यं न जानीषे गोधर्मात् प्रार्थयन् सुताम् ।
दुर्वृत्तं त्वान्त्यजाम्यद्य गच्छ त्वं स्वेन कर्म्मणा ॥५६॥
काष्ठे समुद्रे प्रक्षिप्य गङ्गाम्भसि समुत्सृजत् ।
यस्मात्त्वमन्धोवृद्धश्च भर्त्तव्योदुरधिष्ठितः ॥५७॥
तमुह्यमानं वेगेन स्रोतसोऽभ्यासमागतः ।
जग्राह तं स धर्मात्मा बलिर्वैरोचनिस्तदा ॥५८॥
अन्तः पुरे जुगोप्यैनं भक्ष्यभोज्यैश्च तर्पयन् ।
प्रीतश्चैवं वरेणैवच्छन्दयामास वै बलिम् ॥५९॥
तस्माच्च स वरं वव्रे पुत्रार्थे दानवर्षभः ।
सन्तानार्थं महाभाग! भार्य्यायां मम मानद ॥
पुत्रान् धर्मार्थतत्त्वज्ञानुत्पादयितुमर्हसि ॥६०॥
एवमुक्तोऽर्थ देवर्षिस्तथास्त्वित्युक्तवान् प्रभुः ।
स तस्य राजा स्वां भार्य्यां सुदेष्णां नाम प्राहिणोत् ।
अन्धं वृद्धञ्च तं ज्ञात्वा न सा देवी जगाम ह ॥६१॥
शूद्रान्धात्रेयिकां तस्मै अन्धाय प्राहिणोत्तदा ।
तस्यां काक्षीवदादींश्च शूद्रयोनावृषिर्वशी ॥६२॥
जनयामास धर्मात्मा शूद्रानित्येवमादिकम् ।
उवाच तं बली राजा द्रृष्ट्वा काक्षीवदादिकान् ॥६३॥
प्रवीणानृषिधर्म्मस्य चेश्वरान् ब्रह्मवादिनः ।
विद्वान् प्रत्यक्षधर्माणां बुद्धिमान् वृत्तिमान् शुचीन् ॥६४॥
ममैवचेति होवाच तं दीर्घतमसं बलिः ।
नेत्युवाच मुनिस्तं वै ममैवमितिचाब्रवीत् ॥६५॥
उत्पन्नाः शूद्रयोनौ तु भवच्छन्दे सुरोत्तम ।
अन्धं वृद्धञ्च मां ज्ञात्वा सुदेष्णा महिषी तव ॥
प्राहिणोदवमानान् मे शूद्रां धात्रेयिकां नृप ॥६६॥
ततः प्रसादयामास बलिस्तमृषिसत्तमम् ।
बलिः सुदेष्णान्तां भार्य्यां भर्त्सयामास दानवः ॥६७॥
पुनश्चैनामलङ्कृत्य ऋषये प्रत्यपादयत् ।
तां स दीर्घतमा देवीं तथा कृतवतीं तदा ॥६८॥
दध्ना लवणमिश्रेण स्वसक्तं मधुकेन तु ।
लिहमाम जुगुप्सन्ती आपादतलमस्तकम् ॥
ततस्त्वं प्राप्स्यसे देवि! पुत्रान् वै मनसेप्सितान् ॥६९॥
तस्य सा तद्वचो देवी सर्वं कृतवती तदा ।
तस्य सा पानमासाद्य देवी परिहरत्तदा ॥७०॥
तामुवाच ततः सोऽथ यत्ते परिहृतं शुभे ।
विना पानं कुमारन्तु जनयिष्यसि पूर्वजम् ॥७१॥
सुदेष्णोवाच ।
नार्हसि त्वं महाभाग! पुत्रं मे दातुमीद्रृशम् ।
तोषितश्च यथाशक्त्या प्रसादं कुरु मे प्रभो ॥७२॥
तथापचाराद्देव्येष नान्यथा भविता शुभे ।
नैव दास्यति पुत्रस्ते पौत्रो वै दास्यते फलम् ॥७३॥
तस्यापानं विना चैव योग्यभावो भविष्यति ।
तस्माद्दीर्गतमाङ्गेषु कुक्षौ स्पृष्ट्वेदमब्रवीत् ॥७४॥
प्राशितं यद्यदग्रेषु न सोपस्थं शुचिस्मिते ।
तेन तिष्ठन्ति ते गर्भो पौर्णमास्यामि वोडुराट् ॥७५॥
भविष्यन्ति कुमारास्ते पञ्चदेवसुतोपमाः ।
तेजस्विनः सुवृत्ताश्च यज्वानो धार्मिकाश्चते ॥७६॥
सूत उवाच ।
तदंशस्तु सुदेष्णाया ज्येष्ठः पुत्रो व्यजायत ।
अङ्गस्तथा कलिङ्गश्च पुण्ड्रः सुह्मस्तथैव च ॥७७॥
वङ्गराजस्तु पञ्चैते बलेः पुत्राश्च क्षेत्रजाः ।
इत्येते दीर्घतमसा बलेर्दत्ताः सुतास्तथा ॥७८॥
प्रतिष्ठामागतानां हि ब्राह्मण्यं कारयंस्ततः ।
ततो मानुषयोन्यां स जनयामास वै प्रजाः ॥७९॥
ततस्तं दीर्घतमसं सुरभिर्वाक्यमब्रवीत् ।
विचार्य यस्माद् गोधर्मं प्रमाणन्ते कृतं विभो ॥८०॥
भक्त्या चानन्ययाऽस्मासु तेन प्रीतास्मि तेऽनघ ।
तस्मात्तुभ्यन्तमोदीर्घमाघ्रायापनुदामि वै ॥८१॥
बार्हस्पत्यस्तथैवैष पाप्मा वै तिष्ठति त्वयि ।
जरां मृत्युं तमश्चैव आघ्रायापनुदामि ते ॥८२॥
सद्यः स घ्रातमात्रस्तु असितोमुनिसत्तम! ।
आयुष्यमांश्च वपुष्मांश्च चक्षुष्मांश्च ततोऽभवत् ॥८३॥
गोभ्याहते तमसि वै गौतमस्तु ततोऽभवत् ।
काक्षीवांस्तु ततो गत्वा सहपित्रा गिरिव्रजम् ॥८४॥
द्रृष्ट्वा स्पृष्ट्वा पितुः सो वै ह्युपविष्टश्चिरन्तपः ।
ततः कालेन महता तपसा भावितस्तु सः ॥८५॥
विधूय मातृजं कायं ब्राह्मण्यं प्राप्तवान् विभुः ।
ततोऽब्रवीत्पिता तं वै पुत्रवानस्म्यहं त्वया ॥८६॥
सत्पुत्रेण तु धर्मज्ञ! कृतार्थोऽहं यशस्विना ।
मुक्त्वात्मानं ततोऽसौ वै प्राप्तवान् ब्रह्मणः क्षयम् ॥८७॥
ब्राह्मण्यं प्राप्य काक्षीवान् सहस्रमसृजत् सुतान् ।
कौष्माण्डा गौतमाश्चैव स्मृताः काक्षीवतः सुताः ॥८८॥
इत्येष दीर्घतमसो बलेर्वैरोचनस्य च ।
समागमो वः कथितः सन्ततिश्चोभयोस्तथा ॥८९॥
बलिस्तानभिनन्द्याह पञ्चपुत्रानकल्मषान् ।
कृतार्थः सोऽपि धर्मात्मा योगमायावृतः स्वयम् ॥९०॥
अद्रृश्यः सर्वभूतानां कालापेक्षः स वै प्रभुः ।
तत्राङ्गस्य तु दायादो राजासीद्दधिवाहनः ॥९१॥
दधिवाहनपुत्रस्तु राजा दिविरथः स्मृतः ।
आसीद्दिविरथापत्यं विद्वान् धर्मरथोनृपः ॥९२॥
स हि धर्मरथः श्रीमांस्तेन विष्णुपदे गिरौ ।
सोमः शुक्रेण वै राज्ञा सहपीतो महात्मना ॥९३॥
अथ धर्मरथस्याभूत् पुत्रश्चित्ररथः किल ।
तस्य सत्यरथः पुत्रस्तस्माद्दशरथः किल ॥९४॥
लोमपाद इति ख्यातस्तस्य शान्ता सुताभवत् ।
अथ दाशरथिर्वीरश्चतुरङ्गो महायशाः ॥९५॥
ऋष्यश्रृङ्गप्रसादेन जज्ञे स्वकुलवर्धनः ।
चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः ॥९६॥
पृथुलाक्षसुतश्चापि चम्पनामा बभूव ह ।
चम्पस्य तु पुरी चम्पा पूर्व या मालिनोऽभवत् ॥९७॥
पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत् ।
जज्ञे विभाण्डकाच्चास्य वारणः शत्रुवारणः ॥९८॥
अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ।
हर्यङ्गस्य तु दायादो जातो भद्ररथः किलः ॥९९॥
अथ भद्ररथस्यासीत् बृहत् कर्मा जनेश्वरः ।
बृहद्भानुः सुतस्तस्य तस्माज्जज्ञे महात्मवान् ॥१००॥
बृहद्भानुस्तु राजेन्द्रो जनयामास वै सुतम् ।
नाम्ना जयद्रथं नाम तस्मात् बृहद्रथो नृपः ॥१०१॥
आसीत् बृह्द्रथाच्चैव विश्वजिज्जनमेजयः ।
दायादस्तस्य चाङ्गो वै तस्मात् कर्णोऽभवन्नृपः ॥१०२॥
कर्णस्य वृषसेनस्तु पृथुसेनस्तथात्मजः ।
एतेऽङ्गस्यात्मजाः सर्वे राजानः कीर्तिता मया ॥
विस्तरेणानुपूर्व्याच्च पूरोस्तु श्रृणुत द्विजाः ॥१०३॥
ऋषय ऊचुः ।
कथं सूतात्मजः कर्णः कथमङ्गस्य चात्मजः ।
एतदिच्छामहे श्रोतुमत्यन्तकुशलोह्यसि ॥१०४॥
सूत उवाच ।
बृहद्भानुसुतो जज्ञे राजा नाम्ना बृहन्मनाः ।
तस्य पत्नीद्वयं ह्यासीच्छैव्यस्य तनये ह्युभे ॥
यशोदेवी च सत्या च तयोर्वंशञ्च मे श्रृणु ॥१०५॥
जयद्रथन्तु राजानं यशोदेवी ह्यजीजनत् ।
सा बृहन्मनसः सत्या विजयं नाम विश्रुतम् ॥१०६॥
विजयस्य बृहत्पुत्रस्तस्य पुत्रो बृहद्रथः ।
बृहद्रथस्य पुत्रस्तु सत्यकर्मा महामनाः ॥१०७॥
सत्यकर्मणोऽधिरथः सूतश्चाऽधिरथः स्मृतः ।
यः कर्णं प्रतिजग्राह तेन कर्णस्तु सूतजः ॥
तच्चेदं सर्वमाख्यातं कर्णं प्रति यथोदितम् ॥१०८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP