संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १५६

मत्स्यपुराणम् - अध्यायः १५६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


पार्वतीतपश्चर्यावर्णनम् ।

सूत उवाच ।
देवीं सापश्यदायान्तीं सतीं मातुर्विभूषिताम् ।
कुसुमामोदिनीं नाम तस्य शैलस्य देवताम् ॥१॥

सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा ।
क्व पुत्रि! गच्छसीत्युच्चैरालिङ्ग्योवाच देवता ॥२॥

सा चास्यै सर्वमाचख्यौ सङ्करात् कोपकारणम् ।
पुनश्चोवाच गिरिजा देवतां मातृसम्मताम् ॥३॥

उमोवाच ।
नित्यं शैलाधिराजस्य देवता त्वमनिन्दिते! ।
सर्वतः सन्निधानन्ते मम चातीव वत्सला ॥४॥

अतस्तु ते प्रवक्ष्यामि यद्विधेयं तदा धिया ।
अन्यस्त्री संप्रवेशस्तु त्वया रक्ष्यः प्रयत्नतः ॥५॥

रहस्यत्र प्रयत्नेन चेतसा सततं गिरौ ।
पिनाकिनः प्रविष्टायां वक्तव्यं मे त्वयाऽनघे! ॥६॥

ततोऽहं संविधास्यामि यत्कृत्यं तदनन्तरम् ।
इत्युक्ता सा तथेत्युक्त्वा जगाम स्वगिरिं शुभम् ॥७॥

उमापि पितुरुद्यानं जगामाद्रिसुता द्रुतम् ।
अन्तरिक्षं समाविश्य मेघमालामिव प्रभा ॥८॥

ततो विभूषणान्यस्य वृक्षवल्कल घारिणी ।
ग्रीष्मे पञ्चाग्निसन्तप्ता वर्षासु च जलोषिता ॥९॥

वन्याहारा निराहारा शुष्का स्थण्डिलशायिनी ।
एवं साधयती तत्र तपसा संव्यवस्थिता ॥१०॥

ज्ञात्वा तु त्वां गिरिसुतां दैत्यस्तत्रान्तरे वशी ।
अन्धकस्य सुतो दृप्तः पितुर्वधमनुस्मरन् ॥११॥

देवान्सर्वान् विजित्याजौ वकत्राता रणोत्कटः ।
आडिर्नामान्तरप्रेक्षी सततं चन्द्रमौलिनः ॥१२॥

आजगामामररिपुः पुरन्त्रिपुरघातिनः ।
स तत्रागत्य ददृशे वीरकं द्वार्यवस्थितम् ॥१३॥

विचिन्त्यासीद्वरं दत्तं स पुरा पद्मजन्मना ।
हते तदान्धके दैत्ये गिरिशेनामरद्विषि ॥१४॥

आडिश्चकार विपुलं तपः परमदारुणम् ।
हते तदान्धके दैत्ये गिरिशेनामरद्विषि ॥१५॥

किमाडे! दानवश्रेष्ठ! तपसा प्राप्तुमिच्छसि ।
ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे ॥१६॥

बह्मोवाच ।
न कश्चिच्च विना मृत्युं नरो दानव! विद्यते ।
यतस्ततोऽपि दैत्येन्द्र! मृत्युः प्राप्य शरीरिणा ॥१७॥

इत्युक्तौ दैत्यसिंहस्तु प्रोवाचाम्बुजसम्भवम् ।
रूपस्य परिवर्तो मे यदा स्यात् पद्मसम्भव ॥१८॥

तदा मृत्युर्मम भवेदन्यथात्वमरोह्यहम् ।
इत्युक्तस्तु तदोवाच तुष्टः कमलसम्भवः ॥१९॥

यदा द्वितीयो रूपस्य विवर्तस्ते भविष्यति ।
तदा ते भविता मृत्युरन्यथा न भविष्यति ॥२०॥

इत्युक्तोऽमरतां मेने दैत्यसूनुर्महाबलः ।
तस्मिन् काले तु संस्मृत्य तद्वधोपायमात्मनः ॥२१॥

परिहर्तुं दृष्टिपथं वीरकस्याभवत्तदा ।
भुजङ्गरूपी रन्ध्रेण प्रविवेश दृशः पथम् ॥२२॥

परिहृत्य गणेशस्य दानवोऽसौ सुदुर्जयः ।
अलक्षितो गणेशेन प्रविष्टोऽथ पुरान्तकम् ॥२३॥

भुजङ्गरूपं सन्त्यज्य बभूवाथ महासुरः ।
उमारूपी छलयितुं गिरिशं मूढ़चेतनः ॥२४॥

कृत्वा मायान्ततोरूपमप्रतर्क्य मनोहरम् ।
सर्वावयव संपूर्णं सर्वाभिज्ञान संवृतम् ॥२५॥

कृत्वा मुखान्तरे दन्तान् दैत्यो वज्रोपमान् दृढ़ान् ।
तीक्ष्णाग्रान् बुद्धिमोहेन गिरिशं हन्तुमुद्यतः ॥२६॥

कृत्वोमारूपसंस्थानं गतो दैत्यो हरान्तिकम् ।
पापो रम्याकृतिश्चित्र भूषणाम्बर भुषितः ॥२७॥

तं दृष्ट्वा गिरिशस्तुष्टस्तदालिङ्ग्य महासुरम् ।
मन्यमानो गिरिसुतां सर्वैरवयवान्तरैः ॥२८॥

अपृच्छत् साधु ते भावो गिरिपुत्रि! न कृत्रिमः ।
यात्वं मदाशयं ज्ञात्वा प्राप्तेह वरवर्णिनि! ॥२९॥

त्वया विरहितं शून्यं मन्यमानो जगत्त्रयम् ।
प्राप्ता प्रसन्नवदना युक्तमेवं विधन्त्वयि ॥३०॥

इत्युक्तो दानवेन्द्रस्तु तदा भाषत् स्मयं श्छनैः ।
न चाबुद्ध्यदभिज्ञानं प्रायस्त्रिपुरघातिनः ॥३१॥

देव्युवाच ।
यातास्म्यहं तपश्चर्तुं वल्भ्यायत वातुलम् ।
रतिश्च तत्र मेनाभूत्ततः प्राप्ता त्वदन्तिकम् ॥३२॥

इत्युक्तः शङ्करः शङ्कां काञ्चित् प्राप्यावधारयत् ।
हृदयेन समाधाय देवः प्रहसिताननः ॥३३॥

कुपिता मयि तन्वङ्गी प्रकृत्या च दृढ़व्रता ।
अप्राप्तकामा संप्राप्ता किमेतत् संशयो मम ॥३४॥

इति चिन्त्य हरस्तस्या अभिज्ञानं विधारयन् ।
नापश्यद्वामपार्श्वे तु तदङ्गे पद्मलक्षणम् ॥३५॥

लोमावर्तन्तु रचितं ततो देवः पिनाकधृक् ।
अबुध्यद्दानवीमायामाकारं गूहयंस्ततः ॥३६॥

मेढ्रे वज्रास्त्रमादाय दानवं तमशातयत् ।
अबुध्यद्वीरको नैव दानवेन्द्रं निषूदितम् ॥३७॥

हरेण सूदितं दृष्ट्वा स्त्रीरूपं दानवेश्वरम् ।
अपरिच्छिन्न तत्वार्था शैलपुत्र्यै न्यवेदयत् ॥३८॥

दूतेन मारुतेनाशु गामिना नगदेवता ।
श्रुत्वा वायुमुखाद्देवी क्रोधरक्तविलोचना॥
अशपद्वीरकं पुत्रं हृदयेन विदूयता ॥३९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP