मत्स्यपुराणम् - अध्यायः १३८
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
त्रिपुरे देवदानवयुद्धम् ।
सूत उवाच ।
मघवा तु निहन्तुं तानसुरानमरेश्वरः ।
लोकपाला ययुः सर्वे गणपालाश्च सर्वशः ॥१॥
ईश्वरामोदिताः सर्व उत्पेतुश्चाम्बरे तदा ।
खगतास्तु विरेजुस्ते पक्षवन्त इवाचलाः ॥२॥
प्रययुस्तत्परं हन्तुं शरीरमिव व्याधयः ।
शङ्खाडम्बरनिर्घोषैः पणवान् पटहानपि ॥
नादयन्तः पुरो देवा द्रृष्टास्त्रिपुरवासिभिः ॥३॥
हरः प्राप्त इतीवोक्त्वा बलिनस्ते महासुराः ।
आजग्मुः परमं क्षोभमत्ययेष्विवसागराः ॥४॥
सुरतूर्य्यरवं श्रुत्वा दानवा भीमदर्शनाः ।
निनेदुर्वादयन्तश्च नानावाद्यान्यनेकशः ॥५॥
भूयोदीरितवीर्य्यास्ते परस्परकृतागसः ।
पूर्वदेवैश्च देवाश्च सूदयन्तः परस्परम् ॥६॥
आक्रोशेऽपि समप्रख्ये तेषां देहनिकृन्तनम् ।
प्रवृत्तं युद्धमतुलं प्रहारकृतनिस्वनम् ॥७॥
श्वसन्त इव नागेन्द्रा भ्रमन्त इव पक्षिणः ।
गिरीन्द्रा इव कम्पन्तो गर्जन्त इव तोयदाः ॥८॥
जृम्भन्त इव शार्दूलाः प्रवान्त इव वायवः ।
प्रवृद्धोर्मि तरङ्गालाः क्षुभ्यन्त इव सागराः ॥९॥
प्रमथाश्च महाशूरा दानवाश्च महाबलाः ।
युयुधुर्निश्चला भूत्वा वज्रा इव महाचलैः ॥१०॥
कार्मुकाणां निकृष्टानां बभूवुर्दारुणा रवाः ॥
कालानुगानां मेघानां यथा वियति वायुना ॥११॥
आहुश्च युद्धे मा भैषीः क्व यास्यसि मृतोह्यसि ।
प्रहराशुस्थितोऽस्म्यत्र एहि दर्शय पौरुषम् ॥१२॥
गृहाण च्छिन्धि भिन्धीति खाद मारय दारय ।
इत्यन्योऽन्यमनूच्चार्य्य प्रययुर्यमसादनम् ॥१३॥
खङ्गापवर्जिताः केचित्केचिच्छिन्नाः परश्वधैः ।
केचिन्मुद्गरछूर्णाश्च केचिद्बाहुभिराहताः ॥१४॥
पट्टिशैः सूदिताः केचित्केचिच्छूलविदारिताः ।
दानवाः शरपुष्पाभाः सवना इव पर्वताः ।
निपतन्त्यर्णवजले भीमनक्रतिमिङ्गिले ॥१५॥
व्यसुभिः सुनिबद्धाङ्गैः पतमानैः सुरेतरैः ।
सम्बभूवार्णवे शब्दः सजलाम्बुदनिस्वनः ॥१६॥
तेन शब्देन मकरा नक्रास्तिमितिमिङिगलाः ।
मत्ता लोहित गन्धेन क्षोभयन्तो महर्णवम् ॥१७॥
परस्परेण कलहं कुर्वाणा भीममूर्त्तयः ।
भ्रमन्ते भक्षयन्तश्च दानवानाञ्च लोहितम् ॥१८॥
सरथान् सायुधान् साश्वान् सवस्त्राभारणावृतान् ।
जग्रसुस्तिमयो दैत्यान् द्रावयन्तो जलेचरान् ॥१९॥
मृधं यथा सुराणाञ्च प्रमथानां प्रवर्त्तते ।
अम्बरेऽम्भसि च तथा युद्धं चक्रुर्जलेचराः ॥२०॥
यथा भ्रमन्ति प्रमथाः सदैत्यास्तथा भ्रमन्ते तिमयः सनक्राः ।
यथैव छिन्दन्ति परस्परन्तु तथैव क्रन्दन्ति विभिन्नदेहाः ॥२१॥
व्रणाननैरङ्गरसं स्रवद्भिः सुरासुरैर्नक्रतिमिङ्गिलैश्च ।
कृतो मुहूर्त्तेन समुद्रदेशः सरक्ततोयः समुदीर्णतोयः ॥२२॥
पूर्वं महाम्भोधरपर्वताभं द्वारं महान्तं त्रिपुरस्य शक्रः ।
निपीड्य तस्थौ महता बलेन युक्तोऽमराणां महता बलेन ॥२३॥
तथोत्तरं सस्तनुजो हरस्य बालार्कजाम्बूनदतुल्यवर्णः ।
स्कन्दः पुरद्वारमथारुरोह वृद्धोऽस्तश्रृङ्गां प्रपतन्निवार्कः ॥२४॥
यमश्च वित्ताधिपतिश्च देवो दण्डान्वितः पाशवरायुधश्च ।
देवारिणस्तस्य पुरस्य द्वारं ताभ्यां तु तत्पश्चिमतो निरुद्धम् ॥२५॥
दक्षारिरुद्रस्तपनायुताभः स भास्वता देवरथेन देवः ।
तद्दक्षिणद्वारमरेः पुरस्य रुद्धावतस्थौ भगवांस्त्रिनेत्रः ॥२६॥
तुङ्गानि देश्यानि सगोपुराणि स्वर्णानि कैलासशशिप्रभाणि ।
प्रह्लादरूपाः प्रमथावरुद्धा ज्योतींषि मेघा इव चाश्मवर्षाः ॥२७॥
उत्पाट्य चोत्पाट्य गृहाणि तेषाम् सशैलमालासमवेदिकानि ।
प्रक्षिप्य प्रक्षिप्य समुद्रमध्ये कालाम्बुदाभाः प्रमथा विनेदुः ॥२८॥
रक्तानि चाशेषवनैर्युतानि साशोकखण्डानि सकोकिलानि ।
गृहाणि हे नाथ! पितः! सुतेति भ्रातेति कान्तेति प्रियेति चापि ।
उत्पाट्यमानेषु गृहेषु नार्य आनार्यशब्दान्विविधान् प्रचक्रुः ॥२९॥
कलत्रपुत्रक्षयप्राणनाशे तस्मिन् पुरे युद्धमति प्रवृत्ते ।
महासुराः सागरतुल्यवेगा गणेश्वराः कोपवृताः प्रतीयुः ॥३०॥
परश्वधैस्तत्र शिलोपलैश्च त्रिशूलवज्रोत्तमकम्पनैश्च ।
शरीरसद्मक्षपणं सुघोरं युद्धं प्रवृत्तं द्रृढ़वैरबद्धम् ॥३१॥
अन्योन्यमुद्दिश्य विमर्दता च प्रधावतां चैव विनिघ्नताञ्च ।
शब्दो बभूवामरदानवानां युगान्तकालेष्विव सागरान्तः ॥३२॥
मार्गाः पुरे लोहितकर्दमालाः स्वर्णेकास्फाटिकभिन्नचित्राः ।
कृता मुहूर्त्तेन सुखेन गन्तुं छिन्नोत्तमाङ्गाङ्घ्रिकराः करालाः ॥३३॥
कोपावृताक्षः स तु तारकाख्यः संख्ये सवृक्षः सगिरिर्निलीनः ।
तस्मिन् क्षणे द्वारवरं रिरक्षो रुद्धं भवेनाद्भुतविक्रमेण ॥३४॥
स तत्र प्राकारगतांश्च भूतान् छातन्महानद्भुतवीर्य्यसत्वः ।
चचार चाप्तेन्द्रियगर्वद्रृप्तः पुराद्विनिष्क्रम्य ररास घोरम् ॥३५॥
ततः स दैत्योत्तम पर्वताभो यथाञ्जसा नाग इवाभिमत्तः ।
निवारितो रुद्ररथं जिघृक्षुर्यथार्णवः सर्पति चातिवेलः ॥३६॥
शेषः सुधन्वा गिरिशश्च देवश्चतुर्मुखो यः सत्रिलोचनश्च ।
ते तारकाख्याभिगता गताजौ क्षोभं यथा वायुवशात् समुद्राः ॥३७॥
शेषो गिरीशः सपितामहेशश्चोत्क्षुभ्यमाणः स रथेऽम्बरस्थः ।
त्रिभेद सन्धीषु बलाभिपन्नः कूजन्निनादांश्च करोति घोरान् ॥३८॥
एकन्तु ऋग्वेदतुरङ्गमस्य पृष्ठे पदं न्यस्य वृषस्य चैकम् ।
तस्थौ भवः सोद्यतबाणचापः पुरस्य तत्सङ्गमभीक्षमाणः ॥३९॥
तदा भवपदन्यासाद्धयस्य वृषभस्य च ।
पेतुस्तनाश्च दन्ताश्च पीडिताभ्यां त्रिशूलिना ॥४०॥
ततः प्रभृतिचाश्वानां स्तनादन्ता गवान्तथा ।
गूढाः समभवंस्तेन चाद्रृश्यत्वमुपागताः ॥४१॥
तारकाख्यस्तु भीमाख्यो रौद्ररक्तान्तरे क्षणः ।
रुद्रान्तिके सुसंरुद्धो नन्दिना कुलनन्दिना ॥४२॥
परश्वधेन तीक्ष्णेन स नन्दी दानवेश्वरम् ।
तक्षयामास वै तक्षा चन्दनं गन्धदो यथा ॥४३॥
परश्वधहतः शूरः शैलादिः शरभो यथा ।
दुद्राव खङ्गं निष्कृष्य तारकाख्यो गणेश्वरम् ॥४४॥
यज्ञोपवीतमादाय चिच्छेद च निनाद च ।
ततः सिंहरवो घोरः शङ्खशब्दश्च भैरवः ॥
गणेश्वरैः कृतस्तत्र तारकाख्ये निषूदिते ॥४५॥
प्रमथा रसितं श्रुत्वा वादित्रस्वनमेव च ।
पार्श्वस्थः सुमहापार्श्वं विद्युन्मालिं मयोऽब्रवीत् ॥४६॥
बहुवदनवतां किमेव शब्दो नदतां श्रूयते भिन्नसागराभः ।
वद वचनन्तडिमालिन् किङ्किमे तद्रणपाला युयुधुर्ययुर्गजेन्द्राः ॥४७॥
इति मयवचनाङ्कुशार्दितस्तन्तडिमाली रविरिवांशुमाली ।
रणशिरसि समागतः सुराणां निजगादेदमरिन्दमोऽतिहर्षात् ॥४८॥
यमवरुणमहेन्द्र रुद्रवीर्यस्तवयशसो निधिर्धीरतारकाख्यः ।
सकलसमरशीर्षपर्वतेन्द्रो युद्ध्वा यस्तपति हि तारको गणेन्द्रैः ॥४९॥
मृदितमुपनिशम्य तारकाख्यम् रविदीप्तानलभीषणायताक्षम् ।
हृषितसकलनेत्रलोमसत्वाः प्रमथास्तोयमुचो यथा नदन्ति ॥५०॥
इति सुहृदो वचनं निशम्य तत्वं तडिमालेः स मयस्तु वर्णमाली ।
रणशिरस्यसिताञ्जनाचलाभो जगदे वाक्यमिदं नवेन्दुमालिम् ॥५१॥
विद्युन्मालिन्न नः कालः साधितुं ह्यवहेलया ।
करोमि विक्रमेणैतत् पुरं व्यसनवर्जितम् ॥५२॥
विद्युन्माली ततः क्रुद्धो मयश्च त्रिपुरेश्वरः ।
गणान् जघ्नुस्तु द्राघिष्ठाः सहितास्तैर्महासुरैः ॥५३॥
येन येन ततो विद्युन्माली याति मयश्च सः ।
तेन तेन पुरं शून्यं प्रमथोपहृतङ्कृतम् ॥५४॥
अथ यमवरुणमृदङ्गघोषैः पणव डिण्डिम ज्या स्वन प्रघोषैः ।
सकरतलपुटैश्च सिंहनादैर्भवमभिपूज्य सुरावतस्थुः ॥५५॥
संपूज्यमानो दितिजैर्महात्मभिः सहस्ररश्मिप्रतिमौजसैर्विभुः ।
अभिष्टुतः सत्यरतैस्तपोधनैर्यथास्तश्रृङ्गाभिगतो दिवाकरः ॥५६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP