मत्स्यपुराणम् - अध्यायः १३
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
देव्या अष्टोत्तरशतनामकथनम् ॥
मनुरुवाच ।
भगवन्! श्रोतुमिच्छामि पितॄणां वंशमुत्तमम् ।
रवेश्च श्राद्धदेवत्वं सोमस्य च विशेषतः ॥१॥
हन्त ते कथयिष्यामि पितॄणां वंशमुत्तमम् ।
स्वर्गे पितृगणाः सप्त त्रयस्तेषाममूर्त्तयः ॥२॥
मूर्तिमन्तोऽथ चत्वारः सर्वेषाममितौजसः ।
अमूर्तयः पितृगणा वैराजस्य प्रजापतेः ॥३॥
यजन्ति यान् देवगणा वैराजा इति विश्रुताः ॥
दिवि ते योगविभ्रष्टाः प्राप्य लोकान् सनातनान् ॥४॥
पुनर्ब्रह्मविदान्ते तु जायन्ते ब्रह्मवादिनः ।
संप्राप्यतां स्मृतिं भूयो योगं साङ्ख्यमनुत्तमम् ॥५॥
सिद्धिं प्रयान्ति योगेन पुनरावृत्तिदुर्लभाम् ।
योगिनामेव देयानि तस्माच्छ्राद्धानि दातृभिः ॥६॥
एतेषां मानसीकन्या पत्नी हिमवतो मता ।
मैनाकस्तस्य दायादः क्रौञ्चस्तस्याग्रजोऽभवत् ॥७॥
क्रौञ्चद्वीपः स्मृतो येन चतुर्थो घृतसंवृतः ।
मेना च सुषुवे तिस्रः कन्या योगवतीस्ततः ॥८॥
उमैकपर्णा पर्णा च तीव्र व्रतपरायणाः ।
रुद्रस्यैका सितस्यैका जैगीषव्यस्य चापरा ॥९॥
ऋषय ऊचुः ।
दत्ता हिमवता बालाः सर्वा लोके तपोऽधिकाः ।
कस्माद्दाक्षायणी पूर्वं ददाहात्मानमात्मना ॥१०॥
हिमवद्दुहिता तद्वत् कथं जाता महीतले ।
संहरन्ती किमुक्तासौ सुता वा ब्रह्मसूनुना ॥११॥
दक्षेण लोकजननी सूत! विस्तरतो वद ।
सूत उवाच ।
दक्षस्य यज्ञे वितते प्रभूतवरदक्षिणे ॥१२॥
समाहूतेषु देवेषु प्रोवाच पितरं सती ।
किमर्थं तात! भर्ता मे यज्ञेऽस्मिन्नाभिमन्त्रितः ॥१३॥
अयोग्य इति तामाह दक्षो यज्ञेषु शूलभृत् ।
उपसंहारकृद्रुद्रस्तेनामंगलभागयम् ॥१४॥
चुकोपाथ सती देहं त्यक्षामीति त्वदुद्भवम् ।
दशानान्त्वञ्च भविता पितॄणामेक पुत्रकः ॥१५॥
क्षत्रियत्वेऽश्वमेधे च रुद्रा त्वं नाशमेष्यसि ।
इत्युक्त्वा योगमास्थाय स्वदेहोद्भव तेजसा ॥१६॥
निर्दहन्ती तदात्मानं सदेवासुरकिन्नरैः ।
किं किमेतदिति प्रोक्ता गन्धर्व गण गुह्यकैः ॥१७॥
उपगम्याब्रवीद्दक्षः प्रणिपत्याथ दुःखितः ।
त्वमस्य जगतो माता जगत्सौभाग्य देवता ॥
दुहितृत्वङ्गता देवि ममानुग्रह काम्यया ।
न त्वया रहितं किञ्चित् ब्रह्माण्डे सचराचरम् ॥१८॥
प्रसादं कुरु धर्मज्ञे न मां त्यक्तुमिहार्हसि ।
प्राह देवी यदारब्धं तत् कार्य्यं मे न संशयः ॥१९॥
किं त्ववश्यं त्वया मर्त्ये हतयज्ञेन शूलिना ।
प्रसादे लोकसृष्ट्यर्थं तपः कार्थं ममान्तिके ॥२०॥
प्रजापतिस्त्वं भविता दशानामङ्गजोप्यलम् ।
मदंशेनाङ्गना षष्टिर्भविष्यन्त्यङ्गजास्तव ॥२१॥
मत्सन्निधौ तपः कुर्वन् प्राप्स्यसे योगमुत्तमम् ।
एवमुक्तोऽब्रवीद्दक्षः केषु केषु मयाऽनघे ॥२२॥
तीर्थेषु च त्वं द्रष्टव्या स्तोतव्या कैश्च नामभिः ॥२३॥
देव्युवाच ।
सर्वदा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि ॥२४॥
सर्वलोकेषु यत् किञ्चिद्रहितं न मया विना ।
तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः ॥२५॥
स्मर्तव्या भूतिकामैर्वा तानि वक्ष्यामि तत्वतः ।
वाराणस्यां विशालाक्षी नैमिषेलिङ्गधारिणी ॥२६॥
प्रयागे ललिता देवी कामाक्षी गन्धमादने ।
मानसे कुमुदा नाम विश्वकाया तथाम्बरे ॥२७॥
गोमन्ते गोमती नाम मन्दरे कामचारिणी ।
मदोत्कटा चैत्ररथे जयन्ती हस्तिना पुरे ॥२८॥
कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते ।
एकाम्भकेकीर्तिमती विश्वां विश्वेश्वरे विदुः ॥२९॥
पुष्करे पुरुहूतेति केदारे मार्गदायिनी ।
नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥३०॥
स्थानेश्वरे भवानी तु बिल्वके बिल्वपत्रिका ।
श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा ॥३१॥
जया वराहशैले तु कामला कमलालये ।
रुद्रकोष्ट्याञ्च रुद्राणी काली कालञ्जरे गिरौ ॥३२॥
महालिंगे तु कपिला मर्कोटे मुकुटेश्वरी ।
शालिग्रामे महादेवी शिवलिंगे जलप्रिया ॥३३॥
मायापुर्यां कुमारी तु सन्ताने ललिता तथा ।
उत्पलाक्षीसहस्राक्षे कमलाक्षे महोत्पला ॥३४॥
गंगायां मंगला नाम विमला पुरुषोत्तमे ।
विपाशायाममोघाक्षी पाटला पुण्ड्रवर्द्धने ॥३५॥
नारायणी सुपार्श्वे तु विकूटे भद्रसुन्दरी ।
विपुले विपुला नाम कल्याणी मलयाचले ॥३६॥
कोटवी कोटितीर्थे तु सुगन्धा माधवे वने ।
कुब्जाग्रके त्रिसन्ध्या तु गंगाद्वारे रतिप्रिया ॥३७॥
शिवकुण्डे सुनन्दा तु नन्दिनी देविका तटे ।
रुक्मिणी द्वारवत्यान्तु राधा वृन्दावने वने ॥३८॥
देवकी मथुरायान्तु पाताले परमेश्वरी ।
चित्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी ॥३९॥
सह्याद्रावेकवीरा तु हर्मचन्द्रेति चन्द्रिका ।
रमणा रामतीर्थे तु यमुनायां मृगावती ॥४०॥
करवीरे महालक्ष्मी रुमादेवी विनायके ।
अरोगा वैद्यनाथे तु महाकाले महेश्वरी ॥४१॥
अभयेत्युष्णतीर्थेषु चामृता विन्ध्यकन्दरे ।
माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरे पुरे ॥४२॥
छागलण्डे प्रचण्डातु चण्डिका मकरन्दके ।
सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥४३॥
देवमाता सरस्वत्यां पारा पारातटे मता ।
महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ॥४४॥
सिंहिका कृतशौचे तु कार्त्तिकेये यशस्करी ।
उत्पलावर्त्तके लोला सुभद्रा शोणसङ्गमे ॥४५॥
माता सिद्धपुरे लक्ष्मीरङ्गना भरताश्रमे ।
जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ॥४६॥
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ।
भीमा देवी हिमाद्रौ तु पुष्टिर्विश्वेश्वरे तथा ॥४७॥
कपालमोचने शुद्धिर्माता कायावरोहणे ।
शङ्कोद्धारे धरा नाम धृतिः पिण्डारके तथा ॥४८॥
कालातु चन्द्रभागाया मच्छोदे शिवकारिणी ।
वेणायाममृता नाम बदर्यामुर्वशी तथा ॥४९॥
औषधी चोत्तरकुरौ कुशद्वीपे कुशोदका ।
मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी ॥५०॥
अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये ।
गायत्री वेदवदने पार्वती शिवसन्निधौ ॥५१॥
देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती ।
सूर्य्यबिम्बे प्रभा नाम मातॄणां वैष्णवीमता ॥५२॥
अरुन्धती सतीनान्तु रामासु च तिलोत्तमा ।
चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ॥५३॥
एतदुपदेशतः प्रोक्तं नामाष्टशतमुत्तमम् ।
अष्टोत्तरञ्च तीर्थानां शतमेतदुदाहृतम् ॥५४॥
यः स्मरेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ।
एषु तीर्थेषु यः कृत्वा स्नानं पश्यति मां नरः ॥५५॥
सर्व पापविनिर्मुक्तः कल्पं शिवपुरे वसेत् ।
यस्तु मत्परमं कालं करोत्येतेषु मानव ॥५६॥
स भित्त्वा ब्रह्मसदनं पदमभ्येति शाङ्करम् ।
नाम्नामष्टशतं यस्तु श्रावयेच्छिवसन्निधौ ॥५७॥
तृतीयायामथाष्टम्यां बहुपुत्रो भवेन्नरः ।
गोदाने श्राद्धदाने वा अहन्यहनि वा बुधः ॥५८॥
देवार्चनविधौ विद्वान् पठन् ब्रह्माधिगच्छति ।
एवं वदन्ती सा तत्र ददाहात्मानमात्मना ॥५९॥
स्वायभ्भुवोऽपि कालेन दक्षः प्राचेतसोऽभवत् ।
पार्वती साभवद्देवी शिवदेहार्द्धधारिणी ॥६०॥
मेना गर्भ समुत्पन्ना भिक्ति मुक्ति फलप्रदा ।
अरुन्धती जपन्त्येतत् प्राप योगमनुत्तमम् ॥६१॥
पुरूरवाश्च राजर्षिर्लोके व्यजयतामगात् ।
ययातिः पुत्रलाभञ्च धनलाभञ्च भार्गवः ॥६२॥
तथान्ये देव दैत्याश्च ब्राह्मणाः क्षत्रियास्तथा ।
वैश्याः शूद्राश्च बहवः सिद्धिमीयुर्यथेप्सिताम् ॥६३॥
यत्रैतल्लिखितं तिष्ठेत् पूज्यते देवसन्निधौ ।
न तत्र शोको दौर्गत्यं कदाचिदपि जायते ॥६४॥
इति श्रीमत्स्यपुराणे पितृवंशान्वये गौरीनामाष्टोत्तरशत ।
---कथनं नाम त्रयोदशोऽध्यायः ॥१३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP