संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ६

मत्स्यपुराणम् - अध्यायः ६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


कश्यपान्वयवर्णनम् ।

सूत उवाच ।
कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्र पौत्रकान् ।
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा ॥१॥

सुरभिर्विनता तद्वत्ताम्रा क्रोधवशा इरा ।
कद्रूर्विश्वा मुनिस्तद्वत्तासां पुत्रान्निबोधत ॥२॥

तुषिता नाम ये देवाश्चाक्षुषस्यान्तरे मनोः ।
वैवस्वतेऽन्तरे चैते आदित्या द्वादशस्मृताः ॥३॥

इन्द्रो धाता भगस्त्वष्टा मित्रोऽथ वरुणो यमः ।
विवस्वान्‌ सवितापूषा अंशुमान्‌ विष्णुरेव च ॥४॥

एते सहस्रकिरणा आदित्या द्वादश स्मृताः ।
मारीचात् कश्यपादाप पुत्रानदितिरुत्तमान् ॥५॥

भृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः ।
एते देवगणा विप्राः प्रतिमन्वन्तरेषु च ॥६॥

उत्पद्यन्ते प्रलीयन्ते कल्पेकल्पे तथैव च ।
दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम् ॥७॥

हिरण्यकशिपुञ्चैव हिरण्याक्षं तथैव च ।
हिरण्यकशिपोस्तद्वज्जातां पुत्रचतुष्टयम् ॥८॥

प्रह्लादश्चानुह्लादश्च संह्लादोह्लाद एव च ।
प्रह्लादपुत्र आयुष्मान् शिविर्वाष्कल एव च ॥९॥

विरोचनश्चतुर्थश्च स बलिं पुत्रमाप्तवान् ।
बलेः पुत्रशतं त्वासीद् बाणज्येष्ठं ततो द्विजाः ॥१०॥

धृतराष्ट्रस्तथा सूर्यश्चन्द्रश्चन्द्रांशुतापनः ।
निकुम्भनाभो गुर्वक्षः कुक्षिभीमो विभीषणः ॥११॥

एवमाद्यास्तु बहवो बाणज्येष्ठा गुणाधिकाः ।
बाणः सहस्रबाहुश्च सर्वास्त्रगणसंयुतः ॥१२॥

तपसा तोषितो यस्य पुरे वसति शूलभृत् ।
महाकालत्वमगमत्साम्यं यश्च पिनाकिनः ॥१३॥

हिरण्याक्षस्य पुत्रोऽभूदुलूकः शकुनिस्तथा ।
भूतसन्तापनश्चैव महानाभस्तथैव च ॥१४॥

एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः ।
महाबला महाकाया नानारूपा महौजसः ॥१५॥

दनुः पुत्रशतं लेभे कश्यपाद्‌ बलदर्पितम् ।
विप्रचित्तिः प्रधानोऽभूद्येषां मध्ये महाबलः ॥१६॥

द्विमूर्द्धा शकुनिश्चैव तथा शङ्कुशिरोधरः ।
अयोमुखः शम्वरश्च कपिशो नामतस्तथा ॥१७॥

मारीचिर्मेघवांश्चैव इरा गर्भशिरास्तथा ।
विद्रावणश्च केतुश्च केतुवीर्यः शतह्लदः ॥१८॥

इन्द्रजित् सप्तजिच्चैव वज्रनाभस्तथैव च ।
एकचक्रो महाबाहुर्वज्राक्षस्तारकस्तथा ॥१९॥

असिलोमा पुलोमा च विन्दुर्वाणो महासुरः ।
स्वर्भानुर्वृषपर्वा च एवमाद्या दनोः सुताः ॥२०॥

स्वर्भानोस्तु प्रभा कन्या शची चैव पुलोमजा ।
उपदानवी मयस्यासीत्तथा मन्दोदरी कुहूः ॥२१॥

शर्मिष्ठा सुन्दरी चैव चन्द्रा च वृषपर्वणः ।
पुलोमा कालका चैव वैश्वानरसुते हि ते ॥२२॥

बह्वपत्ये महासत्वे मारीचस्य परिग्रहे ।
तयोः षष्टिसहस्रापि दानवानामभूत्पुरा ॥२३॥

पौलोमन् कालकेयांश्च मारीचोऽजनयत्पुरा ।
अवध्या येऽमराणां वै हिरण्यपुरवासिनः ॥२४॥

चतुर्मुखाल्लब्धवरास्ते हता विजयेन तु ।
विप्रचित्तिः सैहिकेयान् सिंहिकायामजीजनत् ॥२५॥

हिरण्यकशिपोर्ये वै भागिनेयास्त्रयोदश ।
व्यंसः कल्पश्च राजेन्द्र! नलो वातापिरेव च ॥२६॥

इल्वलो नमुचिश्चैव श्वसृपश्चाजनस्तथा ।
नरकः कालनाभश्च सरमाणस्तथैव च ॥२७॥

कालवीर्यश्च विख्यातो दनुवंशविवर्धनाः ।
संह्लादयस्य तु दैत्यस्य निवातकवचाः स्मृताः ॥२८॥

अबध्याः सर्वदेवानां गन्धर्वोरगरक्षसाम् ।
ये हता भर्गमाश्रित्य त्वर्जुनेन रणाजिरे ॥२९॥

षट्‌कन्या जनयामास ताम्रा मारीचवीजतः ।
शुकीश्येनीचभासीच सुग्रीवी गृध्रिका शुचिः ॥३०॥

शुकी शुकानुलूकांश्च जनयामास धर्मतः ।
श्येनी श्येनांस्तथा भासी कुररानप्यजीजनत् ॥३१॥

गृध्री गृध्रान् कपोतांश्च पारावतविहङ्गमान् ।
हंससारसक्रौञ्चांश्च प्लवान् शुचिरजीजनत् ॥३२॥

अजाश्वमेषोष्ट्रखरान् सुग्रीवी चाप्यजीजनत् ।
एषताम्रान्वयः प्रोक्तो विनतायां निबोधत ॥३३॥

गरुडः पततां नाथो अरुणश्च पतत्त्रिणाम् ।
सौदामिनी तथा कन्या येयं नभसि विश्रुता ॥३४॥

सम्पातिश्च जटायुश्च अरुणस्य तु तावुभौ ।
सम्पातिपुत्रो बभ्रुश्च शीघ्रगश्चापि विश्रुतः ॥३५॥

जटायुषः कर्णिकारः शतगामी च विश्रुतौ ।
सारसो रज्जुबालश्च भेरुण्डश्चापि तत्सुताः ॥३६॥

तेषामनन्तमभवत् पक्षिणां पुत्र पौत्रकम् ।
सुरसायाः सहस्रन्तु सर्पाणामभवत्पुरा ॥३७॥

सहस्रशिरसाङ्कद्रूः सहस्रञ्चापि सुव्रत! ।
प्रधानास्तेषु विख्याताः ष़ड्‌विंशतिररिन्दम ॥३८॥

शेषवासुकिकर्कोट शङ्खैरावतकम्बलाः ।
धनञ्चयमहानील पद्माश्वतरतक्षकाः ॥३९॥

एलापत्रमहापद्मधृतराष्ट्रबलाहकाः ।
शङ्खपाल---महाशङ्ख--पुष्पदंष्ट्र--शुभाननाः ॥४०॥

शङ्करोमा च बहुलो वामनः पाणिनस्तथा ।
कपिलोदुर्मुखश्चापि पतञ्जलिरितिस्मृताः ॥४१॥

एषामनन्तमभवत् सर्वेषां पुत्र पौत्रकम् ।
प्रायशो यत् पुरा दग्धं जनमेजयमन्दिरे ॥४२॥

रक्षोगणं क्रोधवशा स्वनामानमजीजनत् ।
दंष्ट्रिणां नियुतं तेषां भीमसेनादगात्‌ क्षयम् ॥४३॥

रुद्राणाञ्च गणं तद्वद्‌ गोमहिष्यो वराङ्गनाः ।
सुरभिर्जनयामास कश्यपात् संयतव्रता ॥४४॥

मुनिर्मुनीनाञ्च गणं गणमप्सरसां तथा ।
तथा किन्नरगन्धर्व्वानरिष्टाऽजनयदत् बहून् ॥४५॥

तृण वृक्ष लता गुल्ममिरा सर्वमजीजनत्! ।
विश्वा तु यक्ष रक्षांसि जनयामास कोटिशः ॥४६॥

तत एकोनपञ्चाशन्मरुतः कश्यपाद्दितिः ।
जनयामास धर्म्मज्ञान् सर्वानमरवल्लभान् ॥४७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP