मत्स्यपुराणम् - अध्यायः ८१
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
विशोकद्वादशीव्रतकथनम् ।
मनुरुवाच ।
किमभीष्टवियोगशोकसङ्घादलमुद्धर्तुमुपोषणं व्रतं वा ।
विभवोद्भवकारि भूतलेऽस्मिन् भवभीतेरपि सूदनञ्च पुंसः ॥१॥
मत्स्य उवाच ।
परिपृष्टमिदं जगत् प्रियन्ते विबुधानामपि दुर्लभं महत्त्वात् ।
तव भक्तिमतस्तथापि वक्ष्ये व्रतमिन्द्रासुरमानवेषु गुह्यम् ॥२॥
पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम् ।
दशम्यां लघुभुग्विद्वानारभेन्नियमेन तु ॥३॥
उदङ्मुखः प्राङ्मुखो वा दन्तधावनपूर्वकम् ।
एकादश्यां निराहारः समभ्यर्च्य तु पूर्वकम्
श्रियं वाऽभ्यर्च्य विधिवद्भोक्ष्यामि त्वपरेऽहनि ॥४॥
एवं नियमकृत्सुप्ता प्रातरुत्थाय मानवः ।
स्नानं सर्वौषधैः कुर्यात्पञ्चगव्यजलेन तु ॥
शुक्लमाल्याम्बरधरः पूजयेच्छ्रीशमुत्पलैः ॥५॥
विशोकाय नमः पादौ जङ्घे च वरदाय वै ।
श्रीशाय जानुनी तद्वदूरू च जलशायिने ॥६॥
कन्दर्पाय नमो गुह्यं माधवाय नमः कटिम् ।
दामोदरायेत्युदरम्पार्श्वे च विपुलाय वै ॥७॥
नाभिञ्च पद्मनाभाय हृदयं मन्मथाय वै ।
श्रीधराय विभोर्वक्षः करौ मधुजिते नमः ॥८॥
चक्रिणे वामबाहुञ्च दक्षिणङ्गदिने नमः ।
वैकुण्ठाय नमः कण्ठमास्यां यज्ञमुखाय वै ॥९॥
नासामशोकनिधये वासुदेवाय चाक्षिणी ।
ललाटं वामनायेति हरयेति पुनर्भ्रुवौ ॥१०॥
अलकान् माधवायेति किरीटं विश्वरूपिणे ।
नमः सर्वात्मने तद्वच्छिर इत्यभिपूजयेत् ॥११॥
एवं संपूज्य गोविन्दं फलमाल्यानुलेपनैः ।
ततस्तु मण्डलं कृत्वा स्तण्डिलं कारयेन्मृदा ॥१२॥
चतुरस्रं समन्ताच्च रत्निमात्रमुदक्प्लवम् ।
श्लक्ष्णं हृद्यं च परितो विप्रत्रयसमावृतम् ॥१३॥
अङ्गुलेनोच्छृता विप्रास्तद्विस्तारस्तु द्वयङ्गुलः ।
स्थण्डिलस्योपरिष्टाच्च भित्तिरष्टाङ्गुला भवेत् ॥१४॥
नदीवालुकया शूर्पे लक्ष्म्याः प्रतिकृतिं न्यसेत् ।
स्थण्डिकले शूर्पमारोप्य लक्ष्मीमित्यर्चयेद् बुधः ॥१५॥
नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै ।
नमः पुष्ट्यै नमस्तुष्ट्यै वृष्ट्यै हृष्टयै नमो नमः ॥१६॥
विशोका दुःखनाशाय विशोका वरदास्तु मे ।
विशोका चास्तु सम्पत्यै विशोका सर्वसिद्धये ॥१७॥
ततः शुक्लाम्बरैः शूर्पं वेष्ट्य संपूजयेत् फलैः ।
वस्त्रैर्नानाविधैस्तद्वत् सुवर्णकमलेन च ॥१८॥
रजनीषु च सर्वासु पिबेद्दर्भोदकं बुधः ।
ततस्तु गीतनृत्यादि कारयेत् सकलान्निशाम् ॥१९॥
यामत्रये व्यतीते तु सुप्त्वाप्युत्थाय मानवः ।
अभिगम्य च विप्राणां मिथुनानि तदार्चयेत् ॥२०॥
शक्तितस्त्रीणिचैकं वा वस्त्रमाल्यानुलेपनैः ।
शयनस्थानि पूज्यानि नमोऽस्तु जलशायिने ॥२१॥
ततस्तु गीतवाद्येन रात्रिजागरणे कृते ।
प्रभाते च ततः स्नानं कृत्वा दाम्पत्यमर्चयेत् ॥२२॥
भोजनञ्च यथाशक्त्या वित्तशाठ्यविवर्जितः ।
भुक्त्वा श्रुत्वा पुराणानि तद्दिनञ्चातिवाहयेत् ॥२३॥
अनेन विधिना सर्वं मासि मासि समाचरेत् ।
व्रतान्ते शयनं दद्याद् गुड़धेनुसमन्वितम् ॥
सोपधानकविश्रामं सास्तरावरणं शुभम् ॥२४॥
यथा न लक्ष्मीर्देवेश! त्वां परित्यज्य गच्छति ।
तथा सुरूपतारोग्यमशोकश्चास्तु मे सदा ॥२५॥
यथा देवेन रहिता न लक्ष्मीर्जायते क्वचित् ।
तथा विशोकिता मेऽस्तु भक्तिरग्र्या च केशवे ॥२६॥
मन्त्रेणानेन शयनं गुड़धेनुसमन्वितम् ।
शूर्पञ्च लक्ष्म्या सहितं दातव्यं भूतिमिच्छता ॥२७॥
उत्पलं करवीरञ्च बाणमम्लानकुङ्कुमम् ।
केतकी सिन्दुवारञ्च मल्लिका गन्दपाटका ॥
कदम्बं कुब्जकं जातिः शस्तान्येतानि सर्वदा ॥२८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP