मत्स्यपुराणम् - अध्यायः ९९
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
विभूतिद्वादशीव्रतकथनम् ।
नंदिकेश्वर उवाच ।
श्रृणु नारद! वक्ष्यामि विष्णोर्व्रतमनुत्तमम् ।
विभूतिद्वादशी नाम सर्वदेवनमस्कृतम् ॥१॥
कार्तिके चैत्रवैशाखे मार्गशीर्षे च फाल्गुने ।
आषाढे वा दशम्यान्तु शुक्लायां लघुभुङ्नरः ।
कृत्वा सायन्तनीं सन्ध्यां गृह्णीयान्नियमं बुधः ॥२॥
एकादश्यां निराहारः समभ्यर्च जनार्दनम् ।
द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विभो! ॥३॥
तदविघ्नेन मे यातु सफलं स्याच्च केशव!
नमो नारायणायेति वाच्यञ्च स्वपता निशि ॥४॥
ततः प्रभात उत्थाय सावित्र्यष्टशतञ्जपेत् ।
पूजयेत् पुण्डरीकाक्षं शुक्लमाल्यानुलेपनैः ॥५॥
विभूतये नमः पादावशोकाय च जानुनी ।
नमः शिवायेत्यूरू च विश्वमूर्ते! नमः कटिम् ॥६॥
कन्दर्पाय नमो मेढ्रं फलं नारायणाय च ।
दामोदरायेत्युदरं वासुदेवाय च स्तनौ ॥७॥
माधवायेत्युरो विष्णोः कण्ठमुत्कण्ठिने नमः ।
श्रीधराय मुखं केशान् केशवायेति नारद! ॥८॥
पृष्ठं शार्ङ्गधरायेति श्रवणो वरदाय वै ।
स्वनाम्ना शङ्खचक्रासिगदाजलजपाणये ।
शिरः सर्वात्मने ब्रह्मन्! नम इत्यभिपूजयेत् ॥९॥
मत्स्यमुत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः ।
उदकुम्भसमायुक्तमग्रतः स्थापयेद् बुधः ॥१०॥
गुडपात्रं तिलैर्युक्तं सितवस्त्राभिवेष्टितम् ।
रात्रौ जागरणं कुर्य्यादितिहासकथादिना ॥११॥
प्रभातायान्तु शर्वर्यां ब्राह्मणाय कुटुम्बिने ।
सकाञ्चनोत्पलं देवं सोदकुम्भं निवेदयेत् ॥१२॥
यथा न मुच्यसे देव! सदा सर्वविभूतिभिः ।
तथा मामुद्धराशेष दुःखसंसारकर्दमात् ॥१३॥
दशावताररूपाणि प्रतिमासं क्रमान्मुने! ।
दत्तात्रेयं तथा व्यासमुत्पलेन समन्वितम् ॥
दद्यादेवं समा यावत् पाषण्डानभिवर्जयेत् ॥१४॥
समाप्यैवं यथाशक्त्या द्वादश द्वादशीः पुनः ।
सम्वत्सरान्ते लवणपर्वतेन समन्विताम् ।
शय्यां दद्यान्मुनिश्रेष्ठ! गुरवे धेनुसंयुताम् ॥१५॥
ग्रामञ्च शक्तिमान् दद्यात् क्षेत्रं वा भवनान्वितम् ।
गुरुं संपूज्य विधिवद्वस्त्रालङ्गारभूषणैः ॥१६॥
अन्यानपि यथाशक्त्या भोजयित्वा द्विजोत्तमान् ।
तर्पयेद्वस्त्रगोदानै रत्नौघधनसञ्चयैः ॥
अल्पवित्तो यथाशक्त्या स्तोकं स्तोकं समाचरेत् ॥१७॥
यश्चाप्यतीवनिः स्वः स्याद् भक्तिमान् माधवं प्रति ।
पुष्पार्चनविधानेन स कुर्याद्वत्सरद्वयम् ॥१८॥
अनेन विधिना यस्तु विभूतिद्वादशव्रतम् ।
कुर्यात् पापविनिर्मुक्तः पितॄणां तारयेच्छतम् ॥१९॥
जन्मनां शतसाहस्रं न शोकफलभाग्भवेत् ।
न च व्याधिर्भवेत्तस्य न दारिद्र्यबन्धनम् ।
वैष्णवो वाथ शैवो वा भवेज्जन्मनि जन्मनि ॥२०॥
यावद्युगसहस्राणां शतमष्टोत्तरं भवेत् ।
तावत् स्वर्गे वसेद्ब्रह्मन्!भूपतिश्च पुनर्भवेत् ॥२१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP