मत्स्यपुराणम् - अध्यायः ८३
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
धान्यशैलदानविधिवर्णनम् ।
नारद उवाच ।
भगवन्! श्रोतुमिच्छामि दानमाहात्म्यमुत्तमम् ।
यदक्षयं परे लोके देवर्षिगणपूजितम् ॥१॥
उमापतिरुवाच ।
मेरोः प्रदानं वक्ष्यामि दशधा मुनिपुङ्गव ।
यत्प्रदानान्नरो लोकानाप्नोति सुरपूजितान् ॥२॥
पुराणेषु च वेदेषु यज्ञेष्वायतनेषु च ।
न तत्फलमधीतेषु कृतेष्विह यदश्नुते ॥३॥
तस्माद्विधानं वक्ष्यामि पर्वतानामनुक्रमात् ।
प्रथमो धान्यशैलः स्याद् द्वितीयो लवणाचलः ॥४॥
गुड़ाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः ।
पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्वतः ॥५॥
सप्तमो घृतशैलश्च रत्नशैलस्तथाष्टमः ।
राजतो नवमस्तद्वद्दशमः शर्कराचलः ॥६॥
वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः ।
अयने विषुवे पुण्ये व्यतीपाते दिन क्षये ॥७॥
शुक्लपक्षे तृतीयायामुपरागे शशि क्षये ।
विवाहोत्सवयज्ञेषु द्वादश्यामथवा पुनः ॥८॥
शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः ।
धान्यशैलादयो देया यथाशास्त्रं विधानतः ॥९॥
तीर्थेष्वायतने वापि गोष्ठे वा भवनाङ्गणे ।
मण्डपं कारयेद्भक्त्या चतुरस्रमुदङ्मुखम् ॥
प्रागुदक् प्रवणन्तद्वत् प्राङ्कमुखञ्च विधानतः ॥१०॥
गोमयेनानुलिप्तायां भूमावास्तीर्य वै कुशान् ।
तन्मध्ये पर्वतं कुर्यात् विष्कम्भपर्वतान्वितम् ॥११॥
धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः ।
मध्यमः पञ्चशतिकः कनिष्ठः स्यात्त्रिभिः शतैः ॥१२॥
मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्यात् ।
पूर्वेण मुक्ताफलवज्रयुक्तो याम्येन गोमेदकपुष्परागैः ॥१३॥
पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैढूर्यसरोजरागैः ।
श्रीखण्डखण्डैरभितः प्रवालैर्लतान्वितः शुक्तिशिलातलः स्यात् ॥१४॥
ब्रह्माऽथ विष्णुर्भगवान् पुरारिर्दिवाकरोऽप्यत्र हिरण्मयः स्यात् ।
मूर्द्धन्यवस्थानममत्सरेण कार्यं त्वमेकैश्च पुनर्द्विजौघैः ॥१५॥
चत्वारि श्रृङ्गाणि च राजतानि नितम्बभागेष्वपि राजतः स्यात् ।
तथेक्षुवंशावृतकन्दरस्तु घृतोदकप्रस्रवणैश्च दिक्षु ॥१६॥
शुक्लाम्बराण्यम्बुधरावली स्यात् पूर्वेण पीतानि च दक्षिणेन ।
वासांसि पश्चादथकर्बुराणि रक्तानि चैवोत्तरतो घनाली ॥१७॥
रौप्यान् महेन्द्रप्रमुखांस्तथाष्टौ संस्थाप्य लोकाधिपतीन् क्रमेण ।
नानाफलानी च समन्ततः स्यान्मनोरमं माल्यविलेपनञ्च ॥१८॥
वितानकञ्चोपरि पञ्चवर्णमम्लानपुष्पाभरणं सितञ्च ॥
इत्थं निवेश्यामरशैलमग्र्यं मेरोस्तु विष्कम्भगिरीन् क्रमेण ॥१९॥
तुरीयभागेन चतुर्दिशञ्च संस्थापयेत् पुष्पविलेपनाढ्यान् ।
पूर्वेण मन्दरमनेकफलावलीभिर्युक्तं यवैः कनकभद्रकदम्बचिह्नैः ॥२०॥
कामेन काञ्चनमयेन विराजमानमाकारयेत् कुसुमवस्त्रविलेपनाढ्यम् ।
क्षीरारुणोदसरसाथ वनेन चैवं रौप्येण शक्तिघटितेन विराजमानम् ॥२१॥
याम्येन गन्धमदनश्च निवेशनीयो गोधूमसञ्चयमयः कलधौतयुक्तः ।
हैमेन यज्ञपतिना घृतमानसेन वस्त्रैश्च राजतवनेन च संयुतः स्यात् ॥२२॥
पश्चात् तिलाचलमनेकसुगन्धिपुष्प--सौवर्णपिप्पलहिरण्मयहंसयुक्तम् ।
आकारयेन्द्रजतपुष्पवनेन तद्वद्वस्त्रान्वितं दधिसितोदसरस्तथाग्रे ॥२३॥
संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सुवस्त्रम् ।
पुष्पैश्च हेमवटपादपशेखरन्तमाकारयेत् कनकधेनुविराजमानम् ॥२४॥
माक्षीकभद्रसरसाथ वनेन तद्वद्रौप्येण भास्वरवता च युतं निधाय ।
होमश्चतुर्भिरथ वेदपुराणविद्भिर्दान्तैरनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः ॥२५॥
पूर्वेण हस्तमितमत्र विधाय कुण्डंि कार्यस्तिलैर्यववृतेन समित्कुशैश्च
रात्रौ च जागरमनुद्धतगीततुर्यैरावाहनञ्च कथयामि शिलोच्चयानाम् ॥२६॥
त्वं सर्वदेवगणधामनिधे! विरुद्धमस्मद्गृहेष्वमरपर्वत! नाशयाशु ।
क्षेमं विधत्स्व कुरु शान्तिमनुत्तमान्नः संपूजितः परमभक्तिमता मया हि ॥२७॥
त्वमेव भगवानीशो ब्रह्म विष्णुर्दिवाकरः ।
मूर्तामूर्तात्परं बीजंमतः पहि सनातन! ॥२८॥
यस्मात्त्वलोकापालानां विश्वमूर्तेश्च मन्दिरम् ।
रुद्रादित्यवसूनाञ्च तस्माच्छान्तिं प्रयच्छमे ॥२९॥
यस्मादशून्यममरैर्नारीभिश्च शिवेन च ।
तस्मात् मामुद्धराशेषदुःखसंसारसागरात् ॥३०॥
एवमभ्यर्च्य तं मेरुं मन्दरञ्चाभिपूजयेत् ।
यस्माच्चैत्ररथेन त्वं भद्राश्वेन च वर्षतः ॥३१॥
शोभसे मन्दर! क्षिप्रमतस्तुष्टिकरो भव ।
यस्माच्चूड़ामणिर्जम्बू द्वीपे त्वं गन्धमादन! ॥३२॥
गन्धर्ववनशोभावानतः कीर्तिर्दृढास्तु मे ।
यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च ॥३३॥
हिरण्मयाश्वत्थशिरास्तस्मात् पुष्टिर्ध्रुवास्तु मे ।
उत्तरैः कुरुभिर्यस्मात् सावित्रेण वनेन च ॥
सुपार्श्व! राजसे नित्यमतः श्रीरक्षयास्तु मे ॥३४॥
एवमामन्त्र्य तान् सर्वान् प्रभाते विमले पुनः ।
स्नात्वाऽथ गुरवे दद्यान्मध्यमं पर्वतोत्तमम् ॥३५॥
विष्कम्भपर्वतान् दद्याद्रृत्विग्भ्यः क्रमशो मुने ।
गाश्च दद्याच्चतुर्विशदथवा दश नारद ॥३६॥
नव सप्त तथाष्टौ वा पञ्च दद्यादशक्तिमान् ।
एकापि गुरवे देया कपिला च पयस्विनी ॥३७॥
पर्वतानामशेषाणामेष एव विधिः स्मृतः ।
तएव पूजने मन्त्रास्तएवोपस्करा मताः ॥३८॥
ग्रहाणां लोकपालानां ब्रह्मादीनाञ्च सर्वदा ।
स्वमन्त्रेणैव सर्वेषु होमः शैलेषु पठ्यते ॥३९॥
उपवासी भवेन्नित्यमशक्ते नक्तमिष्यते ।
विधान सर्वशैलानां क्रमशः श्रृणु नारद ॥४०॥
दानकाले च ये मन्त्राः पर्वतेषु च यत्फलम् ॥४१॥
अन्नं ब्रह्म यतः प्रोक्तमन्ने प्राणाः प्रतिष्ठिताः ।
अन्नाद्भवन्ति भूतानि जगदन्नेन वर्त्तते ॥४२॥
अन्नमेव ततो लक्ष्मीरन्नमेव जनार्दनः ।
धान्यपर्वतरूपेण पाहि तस्मान्नगोत्तम ॥४२॥
अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम् ।
मन्वन्तरशतं साग्रं देवलोके महीयते ॥४३॥
अप्सरोगणगन्धर्वैराकीर्णेन विराजता ।
विमानेन दिवः पृष्ठमायाति स्म निषेवितः ॥
धर्म्मक्षये राजराज्यमाप्नोतीह न संशयः ॥४४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP