मत्स्यपुराणम् - अध्यायः १६४
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
मनुमत्स्यसंवादवर्णनम् ।
ऋषय उचुः ।
कथितं नरसिंहस्य माहात्म्यं विस्तरेण च ।
पुनस्तस्यैव माहात्म्यमन्यद्विस्तरतो वद ॥१
पद्मरूपमभूदेतत् कथं हेममयं जगत् ।
कथञ्च वैष्णवी सृष्टिः पद्ममध्येऽभवत्पुरा ॥२
सूत उवाच ।
श्रुत्वा च नरसिंहस्य माहात्म्यं रविनन्दनः ।
विस्मयोत्फुल्ल नयनः पुनः प्रप्रच्छ केशवम् ॥३
मनुरुवाच ।
कथं पाद्मे महाकल्पे तव पद्ममयं जगत् ।
जलार्णवगतस्येह नाभौ जातं जनार्दन! ॥४
प्रभावात् पद्मनाभस्य स्वपतः सागराम्भसि ।
पुष्करे च कथं भूता देवाः सर्षिगणाः पुरा ॥५
एनमाख्याहि निखिलं योगं योगविदाम्पते! ।
श्रृण्वतस्तस्य मे कीर्तिः न तृप्तिरुपजायते ॥६
कियता चैव कालेन शेते वै पुरुषोत्तमः ।
कियन्तं वा स्वपिति च कोऽस्य कालस्य सम्भवः ॥७
कियतावाथ कालेन ह्युत्तिष्ठति महायशाः ।
कथञ्चोत्थाय भगवान् सृजते निखिलं जगत् ॥८
के प्रजापतयस्तावदासन् पूर्वं महामुने! ।
कथं निर्मितवांश्चैव चित्रं लोकं सनातनम् ॥९
प्रथमेकार्णवे शून्ये नष्टस्थावरजङ्गमे ।
दग्धदेवासुरनरे प्रनष्टोरगराक्षसे ॥१०
नष्टानिलानले लोके नष्टाकाशमहीतले ।
केवलं गह्वरीभूते महाभूतविपर्यये ॥११
विभुर्महाभूतपतिर्महातेजा महाकृतिः ।
आस्ते सुरवरश्रेष्ठो विधिमास्थाय योगवित् ॥१२
श्रृणुयां परया भक्त्या ब्रह्मन्नेतदशेषतः ।
वक्तुमर्हसि धर्मिष्ठ! । यशो नारायणात्मकम् ॥१३
श्रद्धया चोपविष्टानां भगवान्!वक्तुमर्हसि ।
मत्स्य उवाच ।
नारायणस्य यशसः श्रवणे या तव स्पृहा ॥१४
तद्वंश्यान्वयभूतस्य न्याय्यं रविकुलर्षभ! ।
श्रृणुष्वादिपुराणेषु वेदेभ्यश्च यथाश्रुतम् ॥१५
ब्राह्मणानाञ्च वदतां श्रुत्वा वै सुमहात्मनाम् ।
यथा च तपसा दृष्ट्वा बृहस्पति समद्युतिः ॥१६
पराशरसुतः श्रीमान् गुरुर्द्वैपायनोऽब्रवीत् ।
तत्तेऽहं कथयिष्यामि यथाशक्ति यथाश्रुति ॥१७
यद्विज्ञातुं मया शक्यमृषिमात्रेण सत्तमाः! ।
कः समुत्सहते ज्ञातुं परं नारायणात्मकम् ॥१८
विश्वायनश्च यद्ब्रह्मा न देवयति तत्त्वतः ।
तत्कर्म्म विश्वदेदानां तद्रहस्यं महर्षिणाम् ॥१९
तमीज्यं सर्वयज्ञानां तत्तत्त्वं सर्वदर्शिनाम् ।
तदध्यात्मविदां चिन्त्यं नरकं न विकर्मिणाम् ॥२०
अधिदैवञ्च अध्यात्ममधियज्ञं सुसंज्ञितम् ।
तद्भूतमधिभूतञ्च तत्परं परमर्षिणाम् ॥२१
स यज्ञो वेदनिर्दिष्टस्तत्तपः कवयो विदुः ।
यः कर्ता कारको बुद्धिर्मनः क्षेत्रज्ञ एव च ॥२२
प्रणवः पुरुषः शास्ता एकश्चेति विभाव्यते ।
प्राणः पञ्चविधश्चैव ध्रुव अक्षर एव च ॥२३
कालः शाकश्च यन्ता च द्रष्टा स्वाध्याय एव च ।
उच्यते विविधैर्देवः स एवायं न तत्परम् ॥२४
स एव भगवान् सर्वं करोति विकरोति च ।
सोऽस्मान् कारयते सर्वान् सोऽत्येति व्याकुलीकृतान् ॥२५
यतामहे तमेवाद्यन्तमेवेच्छाम निर्वृताः ।
यो वक्ता यच्च वक्तव्यं यच्चाहं तद् ब्रवीमि वः ॥२६
श्रूयते यच्च वै श्राव्यं यच्चान्यत् परिजल्प्यते ।
याः कथाश्चैव वर्तन्ते श्रुतयो वाथ तत्पराः ॥२७
विश्वं विश्वपतिर्यश्च स तु नारायणः स्मृतः ।
यत् सत्यं यदमृतमक्षरं परं यत् यद्भूतं परममिदं च यद् भविष्यत् ।
यत् किञ्चिच्चरमचरं यदस्ति चान्यत् तत् सर्वं पुरुषवरः प्रभुः पुराणः ॥२८
N/A
References : N/A
Last Updated : November 11, 2016
TOP