संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २२

मत्स्यपुराणम् - अध्यायः २२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


श्राद्धयोग्यतीर्थानांवर्णनम् ।

ऋषय ऊचुः ।
कस्मिन्‌ काले च तच्छ्राद्धमनन्तफलदं भवेत् ।
कस्मिन् वासरभागे तु श्राद्धकृच्छ्राद्धमाचरेत् ॥१॥

तीर्थेषु केषु च कृतं श्राद्धं बहुफलं भवेत् ।
सूत उवाच ।
अपराह्णे तु संप्राप्ते अभिजिद्रौहिणोदये ॥२॥

यत्किञ्चिद्दीयते तत्र तदक्षयमुदाहृतम् ।
तीर्थानि कानि शस्तानि पितृणां वल्लभानि च ॥३॥

नामतस्तानि वक्ष्यामि संक्षेपेण द्विजोत्तमाः! ।
पितृतीर्थं गया नाम सर्वतीर्थवरं शुभम् ॥४॥

यत्रास्ते देवदेवेशः स्वयमेव पितामहः ।
तत्रैषा पितृभिर्गीता गाथा भागमभीप्सुभिः ॥५॥

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥६॥

तथावाराणसी पुण्या पितॄणां वल्लभा सदा ।
यत्राविमुक्तसान्निध्यं भुक्ति मुक्ति फलप्रदम् ॥७॥

पितॄणां वल्लभं तद्वत् पुण्यञ्च विमलेश्वरम् ।
पितृतीर्थं प्रयागन्तु सर्वकाम फलप्रदम् ॥८॥

वटेश्वरस्तु भगवान् माधवेन समन्वितः ।
योगनिद्राशयस्तद्वत् सदा वसति केशवः ॥९॥

दशाश्वमेधिकं पुण्यं गङ्गा द्वारं तथैव च ।
नन्दाथ ललिता तद्वत्तीर्थं मायापुरी शुभा ॥१०॥

तथा मित्रपदं नाम ततः केदारमुत्तमम् ।
गङ्गा सागरमित्याहुः सर्वतीर्थमयं शुभम् ॥११॥

तीर्थं ब्रह्मसरस्तद्वच्छतद्रु सलिले ह्रदे ।
तीर्थन्तु नैमिषं नाम सर्वतीर्थफलप्रदम् ॥१२॥

गङ्गोद्भेदस्तु गोमत्यां यत्रोद्‌भूतः सनातनः ।
तथा यज्ञवराहस्तु देवदेवश्च शूलभृत् ॥१३॥

यत्र तत्काञ्चनं द्वारमष्टादशभुजो हरः ।
नेमिस्तु हरिचक्रस्य शीर्णा यत्राभवत्पुरा ॥१४॥

तदेतन्नैमिषारण्यं सर्वतीर्थनिषेवितम् ।
देवदेवस्य तत्रापि वाराहस्य तु दर्शनम् ॥१५॥

यः प्रयाति स पूतात्मा नारायणपदं व्रजेत् ।
कृतशौचं महापुण्यं सर्वपापनिषूदनम् ॥१६॥

यत्रास्ते नारसिंहस्तु स्वयमेव जनार्दनः ।
तीर्थमिक्षुमती नाम पितॄणां वल्लभं सदा ॥१७॥

सङ्गमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा ।
कुरुक्षेत्रं महापुण्यं सर्वतीर्थ समन्वितम् ॥१८॥

तथा च सरयूः पुण्या सर्वदेवनमस्कृता ।
इरावती नदी तद्वत् पितृतीर्थाधिवासिनी ॥१९॥

यमुना देविका काली चन्द्रभागा दृषद्वती ।
नदी वेणुमती पुण्या परा वेत्रवती तथा ॥२०॥

पितॄणां वल्लभा ह्येताः श्राद्धे कोटिगुणा मताः ।
जम्बूमार्गं महापुण्यं यत्र मार्गो हि लक्ष्यते ॥२१॥

अद्यापि पितृतीर्थं तत् सर्वकामफलप्रदम् ।
नीलकुण्डमितिख्यातं पितृतीर्थं द्विजोत्तमाः! ॥२२॥

तथा रुद्रसरः पुण्यं सरोमानसमेव च ।
मन्दाकिनी तथाच्छोदा विपाशाथ सरस्वती ॥२३॥

पूर्वे मित्रपदन्तद्वत् वैद्यनाथं महाफलम् ।
क्षिप्रा नदी महाकालस्तथा कालञ्जरं शुभम् ॥२४॥

वंशोद्भेदं हरोद्भेदं गङ्गोद्भेदं महाफलम् ।
भद्रेश्वरं विष्णुपदं नर्मदा द्वारमेव च ॥२५॥

गयापिण्डप्रदानेन समान्याहुर्महर्षयः ।
एतानि पितृतीर्थानि सर्वपापहराणि च ॥२६॥

स्मरणादपि लोकानां किमु श्राद्धकृतां नृणाम् ।
ओङ्कारं पितृतीर्थञ्च कावेरी कपिलोदकम् ॥२७॥

सम्भेदश्चण्डवेगायास्तथैवामर कण्टकम् ।
कुरुक्षेत्राच्छतगुणं तस्मिन् स्नानादिकं भवेत् ॥२८॥

शुक्रतीर्थञ्च विख्यातं तीर्थं सोमेश्वरं परम् ।
सर्वव्याधिहरं पुण्यं शतकोटि फलाधिकम् ॥२९॥

श्राद्धे दाने तथा होमे स्वाध्याये जलसन्निधौ ।
कायावरोहणं नाम तथा चर्मण्वतीनदी ॥३०॥

गोमती वरुणा तद्वत्तीर्थमौशनसम्परम् ।
भैरवं भृगुतुङ्गञ्च गौरीतीर्थमनुत्तमम् ॥३१॥

तीर्थं वैनायकं नाम भद्रेश्वरमतः परम् ।
तथा पापहरं नाम पुण्याथ तपती नदी ॥३२॥

मूलतापीपयोष्णी च पयोष्णीसङ्गमस्तथा ।
महावोधिः पाटला च नागतीर्थमवन्तिका ॥३३॥

तथा वेणा नदी पुण्या महाशालं तथैव च ।
महारुद्रं महालिङ्गं दशार्णा च नदी शुभा ॥३४॥

शतरुद्रा शताह्वा च तथा विश्वपदं परम् ।
अङ्गारवाहिका तद्वन्नदौ तौ शोणघर्घरौ ॥३५॥

कालिका च नदी पुण्या वितस्ता च नदी तथा ।
एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः ॥३६॥

श्राद्धमेतेषु यद्दत्तन्तदनन्तफलं स्मृतम् ।
द्रोणी वाटनदी धारा सरित् क्षीरनदी तथा ॥३७॥

गोकर्णं गजकर्णञ्च तथा च पुरुषोत्तमः ।
द्वारका कृष्णतीर्थञ्च तथार्बुदसरस्वती ॥३८॥

नदी मणिमती नाम तथा च गिरिकर्णिका ।
धूतपापं तथा तीर्थं समुद्रो दक्षिणस्तथा ॥३९॥

एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते ।
तीर्थं मेघकरं नाम स्वयमेव जनार्दनः ॥४०॥

यत्र शार्ङ्गधरो विष्णुर्मेखलायामवस्थितः ।
तथा मन्डोदरी तीर्थं तीर्थं चम्पा नदी शुभा ॥४१॥

तथा सा मलनाथश्च महाशाल नदी तथा ।
चक्रवाकं चर्म्मकोटं तथा जन्मेश्वरं महत् ॥४२॥

अर्जुनं त्रिपुरं चैव सिद्धेश्वरमतः परम् ।
श्रीशैलं शाङ्करं तीर्थं नारसिंहमतः परम् ॥४३॥

महेन्द्रञ्च तथा पुण्यमथ श्रीरङ्गसंज्ञितम् ।
एतेष्वपि सदा श्राद्धमनन्तफलदं स्मृतम् ॥४४॥

दर्शनादपि चैतानि सद्यः पापहराणि वै ।
तुङ्गभद्रा नदी पुण्या तथा भीमरथी सरित् ॥४५॥

भीमेश्वरं कृष्णवेणा कावेरी कुड्‌मलानदी ।
नदी गोदावरी नाम त्रिसन्ध्या तीर्थमुत्तमम् ॥४६॥

तीर्थं त्रैयम्बकं नाम सर्वतीर्थ नमस्कृतम् ।
यत्रास्ते भगवानीशः स्वयमेव त्रिलोचनः ॥४७॥

श्राद्धमेतेषु सर्वेषु कोटिकोटिगुणं भवेत् ।
स्मरणादपि पापानि नश्यन्ति शतधा द्विजः ॥४८॥

श्रीपर्णी ताम्रपर्णी च जया तीर्थमनुत्तमम् ।
तथा मत्स्यनदी पुण्या शिवधारं तथैव च ॥४९॥

भद्रतीर्थञ्च विख्यातं पम्पातीर्थञ्च शाश्वतम् ।
पुण्यं रामेश्वरं तद्वदेलापुरमलं पुरम् ॥५०॥

अङ्गभूतञ्च विख्यातमानन्दकमलं बुधम् ।
आम्रातकेश्वरं तद्वदेकाम्भकमतः परम् ॥५१॥

गोवर्धनं हरिश्चन्द्रं कृपुचन्द्रं पृथूदकम् ।
सहस्राक्षं हिरण्याक्षं तथा च कदली नदी ॥५२॥

रामाधिवासस्तत्रापि तथा सौमित्रिसङ्गमः ।
इन्द्रकीलं महानादन्तथा च प्रियमेलकम् ॥५३॥

एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि तु ।
एतेषु सर्वदेवानां सान्निध्यं द्रृश्यते यतः ॥५४॥

दानमेतेषु सर्वेषु दत्तं कोटिशताधिकम् ।
बाहुदा च नदी पुण्या तथा सिद्धवनं शुभम् ॥५५॥

तीर्थं पाशुपतं नाम नदी पार्वतिका शुभा ।
श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम् ॥५६॥

तथैव पितृतीर्थन्तु यत्र गोदावरी नदी ।
युतालिङ्गसहस्रेण सर्वान्तरजलावहा ॥५७॥

जामदग्न्यस्य तत्तीर्थं क्रमादायातमुत्तमम् ।
प्रतीकस्य भयाद्भिन्नं यत्र गोदावरी नदी ॥५८॥

तत्तीर्थं हव्यकव्यानामप्सरो युगसंज्ञितम् ।
श्राद्धाग्निकार्यदानेषु तथा कोटि शताधिकम् ॥५९॥

तथा सहस्रलिङ्गञ्च राघवेश्वरमुत्तमम् ।
सेन्द्रफेना नदी पुण्या यत्रेन्द्रः पतितः पुरा ॥६०॥

निहत्य नमुचिं शक्रस्तपसा स्वर्गमाप्तवान् ।
तत्र दत्तं नरैः श्राद्धमनन्तफलदं भवेत् ॥६१॥

तीर्थन्तु पुष्करं नाम शालग्रामं तथैव च ।
सोमपानञ्च विख्यातं यत्र वैश्वानरालयम् ॥६२॥

तीर्थं सारस्वतं नाम स्वामितीर्थं तथैव च ।
मलन्दरा नदीपुण्या कोशिकी चन्द्रिका तथा ॥६३॥

वैदर्भावाथ वैरा च पयोष्णी प्राङ्मुखापरा ।
कावेरी चोत्तरापुण्या तथाजालन्धरो गिरिः ॥६४॥

एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते ।
लोहदण्डं तथा तीर्थं चित्रकूटस्तथैव च ॥६५॥

विन्ध्ययोगश्च गङ्गायास्तथा नदीतटं शुभम् ।
कुब्जाम्रन्तु तथा तीर्थं उर्वशी पुलिनं तथा ॥६६॥

संसारमोचनं तीर्थं तथैव ऋणमोचनम् ।
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते ॥६७॥

अट्टहासं तथा तीर्थं गौतमेश्वरमेव च ।
तथा वशिष्ठं तीर्थन्तु हारितं तु ततः परम् ॥६८॥

ब्रह्मावर्तं कुशावर्तं हयतीर्थं तथैव च ।
पिण्डाारकञ्च विख्यातं शङ्खोद्धारं तथैव च ॥६९॥

घण्टेाश्वरं बिल्वकञ्च नीलपर्वतमेव च ।
तथा च धरणी तीर्थं रामतीर्थं तथैव च ॥७०॥

अश्वतीर्थञ्च विख्यातमनन्तं श्राद्धदानयोः ।
तीर्थं वेदशिरो नाम तथैवौघवती नदी ॥७१॥

तीर्थं वसुप्रदं नाम च्छागलाण्डं तथैव च ।
एतेषु श्राद्धदातारः प्रयान्ति परमं पदम् ॥७२॥

तथा च बदरी तीर्थं गणतीर्थं तथैव च ।
जयन्तं विजयञ्चैव शुक्रतीर्थं तथैव च ॥७३॥

श्रीपतेश्च तथा तीर्थं तीर्थं रैवतकं तथा ।
तथैव शारदा तीर्थं भद्रकालेश्वरं तथा ॥७४॥

वैकुण्ठतीर्थञ्च परं भीमेश्वरमथापि वा ।
एतेषु श्राद्धदातारः प्रयान्ति परमां गतिम् ॥७५॥

तीर्थं मातृगृहं नाम करवीरपुरं तथा ।
कुशेशरञ्च विख्यातं गौरी शिखरमेव च ॥७६॥

नकुलेशस्य तीर्थञ्च कर्दमालं तथैव च ।
दिण्डिपुण्यकरं तद्वत् पुण्डरीकपुरं तथा ॥७७॥

सप्त गोदावरी तीर्थं सर्वतीर्थेश्वरेश्वरम् ।
तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः ॥७८॥

एषतूद्देशतः प्रोक्तस्तीर्थानां संग्रहो मया ।
वागीशोऽपि न शक्नोति विस्तरान् किमु मानुषः ॥७९॥

सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः ।
वर्णाश्रमाणां गेहेऽपि तीर्थन्तु समुदाहृतम् ॥८०॥

एतत्तीर्थेषु यच्छ्राद्धं तत्कोटि गुणमिष्यते ।
यस्मात्तस्मात् प्रयत्नेन तीर्थे श्राद्धं समाचरेत् ॥८१॥

प्रातः कालो मुहूर्तांस्त्रीन् सङ्गवस्तावदेव तु ।
मध्याह्न स्त्रिमुहूर्तस्यादपराह्णस्ततः परम् ॥८२॥

सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् ।
राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु ॥८३॥

अह्नो मुहूर्तो विख्याता दश पञ्च च सर्वदा ।
तत्राष्टमो मुहूर्तो यः सकालः कुतपः स्मृतः ॥८४॥

मध्याह्ने सर्वदा यस्मान्मन्दीभवति भास्करः ।
तस्मादनन्तफलद स्तदारम्भो भविष्यति ॥८५॥

मध्याह्नखड्ग पात्रञ्च तथा नेपालकम्बलः ।
रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः ॥८६॥

पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः ।
अष्टावेतेयतस्तस्मात् कुतपा इति विश्रुता ॥८७॥

ऊर्ध्वं मुहूर्तात् कुतपाद्यन्‌मुहूर्तचतुष्टयम् ।
मुहूर्तपञ्चकञ्चैतत्‌ स्वधाभवनमिष्यते ॥८८॥

विष्णोर्देहसमुद्‌भूताः कुशाः कृष्णास्तिलास्तथा ।
श्राद्धस्य रक्षणायालमेतत् प्राहुर्दिवौकसः ॥८९॥

तिलोदकाञ्जलिर्देय जलस्थैस्तीर्थवासिभिः ।
सदर्भहस्तेनैकेन श्राद्धमेवं विशिष्यते ॥९०॥

श्राद्धसाधनकाले तु पाणिनैकेन दीयते ।
तर्पणन्तू भयेनैव विधिरेष सदा स्मृतः ॥९१॥

पुण्यं पवित्रामायुष्यं सर्वपापविनाशनम् ।
पुरा मत्स्येन कथितन्तीर्थश्राद्धानुकीर्तनम् ॥
श्रृणोति यः पठेद्वापि श्रीमान् सञ्जायते नरः ॥९२॥

श्राद्धकाले च वक्तव्यं तथा तीर्थनिवासिभिः ।
सर्वपापोपशान्त्यर्थमलक्ष्मीनाशनं परम् ॥९३॥

इदं पवित्रं यशयो निधानमिदं महापापहरञ्च पुंसाम् ।
ब्रह्मार्करुद्रैरपि पूजितञ्च श्राद्धस्य माहात्म्यमुशन्ति तज्ज्ञाः ॥९४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP