मत्स्यपुराणम् - अध्यायः १८
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
एकोद्दिष्टश्राद्धप्रकरणम् ।
सूत उवाच ।
एकोद्दिष्टमतो वक्ष्ये यदुक्तं चक्रपाणिना ।
मृते पुत्रैर्यथाकार्यमाशौचञ्च पितर्यपि ॥१॥
दशाहं शावमाशौचं ब्राह्मणेषु विधीयते ।
क्षत्रियेषु दश द्वेच पक्षं वैश्येषु चैवहि ॥२॥
शूद्रेषु मासमाशौचं सपिण्डेषु विधीयते ।
नैशम्वाऽकृतचूडस्य त्रिरात्रम्परतः स्मृतम् ॥३॥
जननेऽप्येवमेव स्यात् सर्ववर्णेषु सर्वदा ।
तथास्थिसञ्चयादूर्ध्वमङ्गस्पर्शो विधीयते ॥४॥
प्रेताय पिण्डददानन्तु द्वादशाहं समाचरेत् ।
पाथेयं तस्य तत् प्रोक्तं यतः प्रीतिकरं महत् ॥५॥
तस्मात् प्रेतपुरं प्रेतो द्वादशाहं न नीयते ।
गृहं पुत्रं कलत्रञ्च द्वादशाहं प्रपश्यति ॥६॥
तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा ।
सर्वदाहोपशान्त्यर्थमध्वश्रमविनाशनम् ॥७॥
तत एकादशाहे तु द्विजानेकादशैव तु ।
क्षत्रादिः सूतकान्ते तु भोजयेदयुतो द्विजान् ॥८॥
द्वितीयेऽह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत् ।
आवाहनाग्नौकरणं दैवहीनं विधानतः ॥९॥
एकं पवित्रमेकोर्घ एकः पिण्डो विधीयते ।
उपतिष्ठतमित्येतद्देयं पश्चात्तिलोदकम् ॥१०॥
स्वादितं विकिरेद् ब्रूयाद्विसर्गे चाभिरम्यताम् ।
शेषं पूर्ववदत्रापि कार्यं वेदविदा पितुः ॥११॥
अनेन विधिना सर्वमनुमासं समाचरेत् ।
सूतकान्ताद्वितीयेऽह्नि शय्यां दद्याद्विलक्षणाम् ॥१२॥
काञ्चनं पुरुषं तद्वत् फलवस्त्रसमन्विताम् ।
संपूज्य द्विजदाम्पत्यं नानाभरणभूषणैः ॥१३॥
वृषोत्सर्गं प्रकुर्वीत देया च कपिला शुभा ।
उदकुम्भश्च दातव्यो भक्ष्यभोज्यसमन्वितः ॥१४॥
यावदब्दं नरश्रेष्ठ! । सतिलोदकपूर्वकम् ।
ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत् ॥१५॥
सपिण्डीकरणादूर्ध्वं प्रेतः पार्वणभाग् भवेत् ।
वृद्धिपूर्वेषु योग्यश्च गृहस्थश्च भवेत्ततः ॥१६॥
सपिण्डीकरणे श्राद्धे देवपूर्वं नियोजयेत् ।
पितॄनेवासयेत्तत्र पृथक् प्रेतं विनिर्दिशेत् ॥१७॥
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् ।
अर्घार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥१८॥
तद्वत्संकल्प्य चतुरः पिण्डान् पिण्डप्रदस्तदा ।
ये समाना इति द्वाभ्यामन्त्यन्तु विभजेत्त्रिधा ॥१९॥
चतुर्थस्य पुनः कार्यं न कदाचिदतो भवेत् ।
ततः पितृत्वमापन्नः सर्वतस्तुष्टिमागतः ॥२०॥
अग्निष्वात्तादिमध्यत्त्वं प्राप्नोत्यमृतमुत्तमम् ।
सपिण्डीकरणादूर्ध्वं तस्मै तस्मान्नदीयते ॥२१॥
पितृष्वेव तु दातव्यं तत् पिण्डो येषु संस्थितः ।
ततः प्रभृति संक्रान्तावुपरागादि पर्वसु ॥२२॥
त्रिपिण्डमाचरेच्छ्राद्धमेकोद्दिष्टं मृताहनि ।
एकोद्दिष्टं परित्यज्य मृताहे यः समाचरेत् ॥२३॥
सदैव पितृहा स स्यान्मातृभ्रातृविनाशकः ।
मृताहे पार्वणं कुर्वन्नधोऽधो याति मानवः ॥२४॥
संपृक्तेष्वाकुली भावः प्रेतेषु तु यतो भवेत् ।
प्रतिसंवत्सरं तस्मादेकोद्दिष्टं समाचरेत् ॥२५॥
यावदब्दन्तु यो दद्यादुदकुम्भं विमत्सरः ।
प्रेतायान्नसमायुक्तं सोऽश्वमेधफलं लभेत् ॥२६॥
आमश्राद्धं यथा कुर्याद्विधिज्ञः श्राद्धदस्तदा ।
तेनाग्नौ करणं कुर्यात् पिण्डांस्तेनैव निर्वपेत् ॥२७॥
त्रिभिः सपिण्डिकरणे अशेषत्रितये पिता ।
यदा प्राप्स्यति कालेन तदा मुच्येत बन्धनात् ॥२८॥
मुक्तोऽपि लेपभागित्वं प्राप्नोति कुशमार्जनात् ।
लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ॥
पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥२९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP